अक्षर आकार:

श्रीकृष्णस्तुतिः

shrIkRiShNastutiH

श्रीकृष्णस्तुतिः

देवा ऊचुः - कृष्णाय पूर्णपुरुषाय परात्पराय यज्ञेश्वराय परकारणकारणाय । राधावराय परिपूर्णतमाय साक्षाद्गोलोकधामधिषणाय नमः परस्मै ॥ १॥ योगेश्वराः किल वदन्ति महः परं त्वां तत्रैव सात्वतमनाः कृतविग्रहं च । अस्माभिरद्य विदितं यददोऽद्वयं ते तस्मै नमोऽस्तु महसां पतये परस्मै ॥ २॥ व्यङ्ग्येन वा न न हि लक्षणया कदापि स्फोटेन यच्च कवयो न विशन्ति मुख्याः । निर्देश्यभावरहितः प्रकृतेः परं च त्वां ब्रह्म निर्गुणमलं शरणं व्रजामः ॥ ३॥ त्वां ब्रह्म केचिदवयन्ति परे च कालं केचित्प्रशान्तमपरे भुवि कर्मरूपम् । पूर्वे च योगमपरे किल कर्तृभाव- मन्योक्तिभिर्न विदितं शरणं गताः स्मः ॥ ४॥ श्रेयस्करीं भगवतस्तवपादसेवां हित्वाथ तीर्थयजनादि तपश्चरन्ति । ज्ञानेन ये च विदिता बहुविघ्नसङ्घैः सन्ताडिता किमु भवन्ति न ते कृतार्थाः ॥ ५॥ विज्ञाप्यमद्य किमु देव अशेषसाक्षी यः सर्वभूतहृदयेषु विराजमानः । देवैर्नमद्भिरमलाशयमुक्तदेहै- स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ ६॥ यो राधिकाहृदयसुन्दरचन्द्रहारः श्रीगोपिकानयनजीवनमूलहारः । गोलोकधामधिषणध्वज आदिदेवः स त्वं विपत्सु विबुधान् परिपाहि पाहि ॥ ७॥ वृन्दावनेश गिरिराजपते व्रजेश गोपालवेषकृत नित्यविहारलील । राधापते श्रुतिधराधिपते धरां त्वं गोवर्द्धनोद्धरण उद्धर धर्मधाराम् ॥ ८॥ इति गर्गसंहितायां गोलोकख्ण्डे तृतीयाध्यायान्तर्गता गोलोके देवानां श्रीकृष्णस्तुतिः समाप्ता । Garga Samhita, Golokakhanda, Adhaya 3 verses 15-22