अक्षर आकार:

श्रीकृष्णस्तुतिः ३

shrIkRiShNastutiH 3

श्रीकृष्णस्तुतिः ३

श्रीनारद उवाच - अथ देवगणैः सार्द्धं शक्रस्तत्र समागतः । गतमानो गिरौ कृष्णं रहसि प्रणनाम ह ॥ १॥ इन्द्र उवाच - त्वं देवदेवः परमेश्वरः प्रभुः पूर्णः पुराणः पुरुषोत्तमोत्तमः । परात्परस्त्वं प्रकृतेः परो हरिर्मां पाहि पाहि द्युपते जगत्पते ॥ २॥ दशावतारो भगवांस्त्वमेव रिरक्षया धर्मगवां श्रुतेश्च । अद्यैव जातः परिपूर्णदेवः कंसादि दैत्येन्द्रविनाशनाय ॥ ३॥ त्वन्मायया मोहितचित्तवृत्तिं मदोद्धतं हेलनभाजनं माम् । पितेव पुत्रं द्युपते क्षमस्व प्रसीद देवेश जगन्निवास ॥ ४॥ ओन्नमो गोवर्धनोद्धरणाय गोविन्दाय गोकुलनिवासाय गोपालाय गोपालपतये गोपीजनभर्त्रे गिरिगजोद्धर्त्रे करुणानिधये जगद्विधये जगन्मङ्गलाय जगन्निवासाय जगन्मोहनाय कोटिमन्मथमन्मथाय वृषभानुसुतावराय श्रीनन्दराजकुलप्रदीपाय श्रीकृष्णाय परिपूर्णतमाय तेऽसङ्ख्यब्रह्माण्डपतये गोलोकधामधिषणाधिपतये स्वयम्भगवते सबलाय नमस्ते नमस्ते ॥ ५॥ श्रीनारद उवाच - इति शक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् । सर्वा सिद्धिर्भवेत्तस्य सङ्कटान्न भयं भवेत् ॥ ६॥ इति गर्गसम्हितायां गिरिराजखण्डे चतुर्थाध्यायान्तर्गता इन्द्रस्य श्रीकृष्णस्तुतिः समाप्ता । Garga Samhita, Girirajakhanda, Adhaya 4