अक्षर आकार:

श्रीकृष्णस्तुतिः २

shrIkRiShNastutiH 2

श्रीकृष्णस्तुतिः २

दुर्वासामुनिरुवाच - बालं नवीनशतपत्रविशालनेत्रं बिम्बाधरं सजलमेघरुचिं मनोज्ञम् । मन्दस्मितं मधुरसुन्दरमन्दयानं श्रीनन्दनन्दनमहं मनसा नमामि ॥ १॥ मञ्जीरनूपुररणन्नवरत्नकाञ्ची श्रीहारकेसरिनखप्रतियन्त्रसङ्घम् । दृष्ट्याऽऽर्तिहारिमषिबिन्दुविराजमानं वन्दे कलिन्दतनुजातटबालकेलिम् ॥ २॥ पूर्णेन्दुसुन्दरमुखोपरि कुञ्चिताग्राः केशा नवीनघननीलनिभाः स्फुरन्ति । राजन्त आनतशिरःकुमुदस्य यस्य नन्दात्मजाय सबलाय नमो नमस्ते ॥ ३॥ श्रीनन्दनन्दनस्तोत्रं प्रातरुत्थाय यः पठेत् । तन्नेत्रगोचरो याति सानन्दं नन्दनन्दनः ॥ ४॥ इति गर्गसंहितायां गोलोकखण्डे विंशाध्यायान्तर्गता दुर्वससा कृता श्रीकृष्णस्तुतिः समाप्ता । Garga Samhita, Golokakhanda, Adhaya 20 verses 24-27