अक्षर आकार:

श्रीकृष्णस्तवः १

shrIkRiShNastavaH 1

श्रीकृष्णस्तवः १

देवा ऊचुः - यज्जागरादिषु भवेषु परं ह्यहेतुः हेतुः स्विदस्य विचरन्ति गुणाश्रयेण । नैतद्विशन्ति महदिन्द्रियदेवसङ्घा- स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिङ्गाः ॥ १॥ नैवेशितुं प्रभुरयं बलिनां बलीयान् माया न शब्द उत नो विषयीकरोति । तद्ब्रह्म पूर्णममृतं परमं प्रशान्तं शुद्धं परात्परतरं शरणं गताः स्मः ॥ २॥ अंशांशकांशककलाद्यवतारवृन्दै- रावेशपूर्णसहितैश्च परस्य यस्य । सर्गादयः किल भवन्ति तमेव कृष्णं पूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥ ३॥ मन्वन्तरेषु च युगेषु गतागतेषु कल्पेषु चांशकलया स्ववपुर्बिभर्षि । अद्यैव धाम परिपूर्णतमं तनोषि धर्मं विधाय भुवि मङ्गलमातनोषि ॥ ४॥ यद्दुर्लभं विशदयोगिभिरप्यगम्यं गम्यं द्रवद्भिरमलाशयभक्तियोगैः । आनन्दकन्द चरतस्तव मन्दयानं पादारविन्दमकरन्दरजो दधामः ॥ ५॥ पूर्वं तथात्र कमनीयवपुष्मयं त्वां कन्दर्पकोटिशतमोहनमद्भुतं च । गोलोकधामधिषणद्युतिमादधानं राधापतिं धरणिधुर्यधनं दधामः ॥ ६॥ इति गर्गसंहितायां गोलोकखण्डे एकादशाध्यायान्तर्गतः श्रीकृष्णजननात्पूर्वं देवैः कृतः श्रीकृष्णस्तवः सम्पूर्णः । Garga Samhita, Golokakhanda, Adhaya 11 verses 8-13