अक्षर आकार:

श्रीकृष्णसहस्रनामस्तोत्रम् सात्वततन्त्रे

Shrikrishnasahasranamastotram from Satvatatantra

श्रीकृष्णसहस्रनामस्तोत्रम् सात्वततन्त्रे

श्रीनारद उवाच । कथितं मे त्वया देव हरिनामानुकीर्तनम् । पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ १॥ तत्राहं यानि नामानि कीर्तयामि सुरोत्तम । तान्यहं ज्ञातुमिच्छामि साकल्येन कुतूहलात् ॥ २॥ श्रीशिव उवाच । भूम्यम्बुतेजसां ये वै परमाणूनपि द्विज । शक्यन्ते गणितुं भूयो जन्मभिर्न हरेर्गुणान् ॥ ३॥ तथापि मुख्यं वक्ष्यामि श्रीविष्णोः परमाद्भुतम् । नाम्नां सहस्रं पार्वत्यै यदिहोक्तं कृपालुना ॥ ४॥ समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी । अपृच्छत्परमं देवं भगवन्तं जगद्गुरुम् ॥ ५॥ तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः । नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ ६॥ तदहं तेऽभिवक्ष्यामि महाभागवतो भवान् । यस्यैकस्मरणेनैव पुमान् सिद्धिमवाप्नुयात् ॥ ७॥ उद्यन्नवीनजलदाभमकुण्ठधिष्ण्यं विद्योतितानलमनोहरपीतवासम् । भास्वन्मयूखमुकुटाङ्गदहारयुक्तं काञ्चीकलापवलयाङ्गुलिभिर्विभातम् ॥ ८॥ ब्रह्मादिदेवगणवन्दितपादपद्यं श्रीसेवितं सकलसुन्दरसंनिवेशम् । गोगोपवनितामुनिवृन्दजुष्टं कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ ९॥ ओं नमो वासुदेवाय कृष्णाय परमात्मने । प्रणतक्लेशसंहर्त्रे परमानन्ददायिने ॥ १०॥ ओं श्रीकृष्णः श्रीपतिः श्रीमान् श्रीधरः श्रीसुखाश्रयः । श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ ११॥ परमात्मा परं ब्रह्म परेशः परमेश्वरः । परानन्दः परं धाम परमानन्ददायकः ॥ १२॥ निरालम्बो निर्विकारो निर्लेपो निरवग्रहः । नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहप्रियः ॥ १३॥ प्रियंवदः प्रियकरः प्रियदः प्रियसञ्जनः । प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात्प्रियः ॥ १४॥ महात्यागी महाभोगी महायोगी महातपाः । महात्मा महतां श्रेष्ठो महालोकपतिर्महान् ॥ १५॥ सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धसाधनः । सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ १६॥ इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुरुत्तमः । ज्येष्ठः श्रेष्ठश्च सर्वेष्टो विष्णुर्भ्राजिष्णुरव्ययः ॥ १७॥ विभुः शम्भुः प्रभुर्भूमा स्वभूः स्वानन्दमूर्तिमान् । प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्धनः ॥ १८॥ योगेश्वरो योगगम्यो योगीशो योगपारगः । योगदाता योगपतिर्योगसिद्धिविधायकः ॥ १९॥ सत्यव्रतः सत्यपरः त्रिसत्यः सत्यकारणः । सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्धनः ॥ २०॥ सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् । सर्वपाता सर्वसुखः सर्वश्रुतिगणार्णवः ॥ २१॥ जनार्दनो जगन्नाथो जगत्त्राता जगत्पिता । जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ २२॥ धरापतिर्लोकपतिः स्वर्पतिर्जगताम्पतिः । विद्यापतिर्वित्तपतिः सत्पतिः कमलापतिः ॥ २३॥ चतुरात्मा चतुर्बाहुश्चतुर्वर्गफलप्रदः । चतुर्व्यूहश्चतुर्धामा चतुर्युगविधायकः ॥ २४॥ आदिदेवो देवदेवो देवेशो देवधारणः । देवकृद्देवभृद्देवो देवेडितपदाम्बुजः ॥ २५॥ विश्वेश्वरो विश्वरूपी विश्वात्मा विश्वतोमुखः । विश्वसूर्विश्वफलदो विश्वगो विश्वनायकः ॥ २६॥ भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः । भूतिदो भूतिविस्तारो विभूतिर्भूतिपालकः ॥ २७॥ नारायणो नारशायी नारसूर्नारजीवनः । नारैकफलदो नारमुक्तिदो नारनायकः ॥ २८॥ सहस्ररूपः साहस्रनामा साहस्रविग्रहः । सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ २९॥ पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः । पद्मशायी पद्ममाली पद्माङ्कितपदद्वयः ॥ ३०॥ वीर्यवान् स्थैर्यवान् वाग्मी शौर्यवान् धैर्यवान् क्षमी । धीमान् धर्मपरो भोगी भगवान् भयनाशनः ॥ ३१॥ जयन्तो विजयो जेता जयदो जयवर्धनः । अमानी मानदो मान्यो महिमावान्महाबलः ॥ ३२॥ सन्तुष्टस्तोषदो दाता दमनो दीनवत्सलः । ज्ञानी यशस्वान् धृतिमान् सह ओजोबलाश्रयः ॥ ३३॥ हयग्रीवो महातेजा महार्णवविनोदकृत् । मधुकैटभविध्वंसी वेदकृद्वेदपालकः ॥ ३४॥ सनत्कुमारः सनकः सनन्दश्च सनातनः । अखण्डब्रह्मव्रतवानात्मा योगविवेचकः ॥ ३५॥ श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः । सात्वतागमकृल्लोकहिताहितप्रसूचकः ॥ ३६॥ आदिकालो यज्ञतत्त्वं धातृनासापुटोद्भवः । दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ॥ ३७॥ पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः । श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ ३८॥ अनन्तो धरणीभर्ता पातालतलवासकृत् । कामाग्निजवनो नागराजराजो महाद्युतिः ॥ ३९॥ महाकूर्मो विश्वकायः शेषभुक्सर्वपालकः । लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ ४०॥ कृपामयः स्वयं व्यक्तिर्ध्रुवप्रीतिविवर्धनः । ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ ४१॥ शुक्लः कर्दमसन्तप्तस्तपस्तोषितमानसः । मनोऽभीष्टप्रदो हर्षबिन्द्वञ्चितसरोवरः ॥ ४२॥ यज्ञः सुरगणाधीशो दैत्यदानवघातकः । मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ ४३॥ कपिलाख्यः साङ्ख्यपाता कर्दमाङ्गसमुद्भवः । सर्वसिद्धगणाधीशो देवहूतिगतिप्रदः ॥ ४४॥ दत्तोऽत्रितनयो योगी योगमार्गप्रदर्शकः । अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ ४५॥ नारायणो नरऋषिर्धर्मपुत्रो महामनाः । महेशशूलदमनो महेशैकवरप्रदः ॥ ४६॥ आकल्पान्ततपोधीरो मन्मथादिमदापहः । ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ ४७॥ ऋषभो नाभिसुखदो मेरुदेवीप्रियात्मजः । योगिराजद्विजस्रष्टा योगचर्याप्रदर्शकः ॥ ४८॥ अष्टबाहुर्दक्षयज्ञपावनोऽखिलसत्कृतः । दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ ४९॥ प्रियव्रतकुलोत्पन्नो गयनामा महायशाः । उदारकर्मा बहुविन्महागुणगणार्णवः ॥ ५०॥ हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः । धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ ५१॥ वैश्यः पृथुः पृथ्विदोग्धा सर्वजीवनदोहकृत् । आदिराजो जनावासकारको भूसमीकरः ॥ ५२॥ प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः । दिवारात्रिगणाधीशः केतुमानजनाश्रयः ॥ ५३॥ श्रीकामदेवः कमलाकामकेलिविनोदकृत् । स्वपादरतिदोऽभीष्टसुखदो दुःखनाशनः ॥ ५४॥ विभुर्धर्मभृतां श्रेष्ठो वेदशीर्षो द्विजात्मजः । अष्टाशीतिसहस्राणां मुनीनामुपदेशदः ॥ ५५॥ सत्यसेनो यक्षरक्षोदहनो दीनपालकः । इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥ ५६॥ हरिर्गजवरत्राता ग्राहपाशविनाशकः । त्रिकूटाद्रिवनश्लाघी सर्वलोकहितैषणः ॥ ५७॥ वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः । रमाप्रियकरः श्रीमान्निजलोकप्रदर्शकः ॥ ५८॥ विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः । दुग्धाब्धिमथनो विप्रो विराजतनयोऽजितः ॥ ५९॥ मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् । जम्बूद्वीपसमः स्रष्टा पीयूषोत्पत्तिकारणम् ॥ ६०॥ धन्वन्तरी रुक्।ग्शमनोऽमृतधुक्रुक्प्रशान्तकः । आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ ६१॥ देवाभयकरो दैत्यमोहिनी कामरूपिणी । गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ ६२॥ महामत्स्यो महाकायः शल्कान्तर्गतसागरः । वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ ६३॥ पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियप्रदः । भक्तसत्यव्रतत्राता योगत्रयप्रदर्शकः ॥ ६४॥ नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः । सटावधूतजलदो दन्तद्युतिजितप्रभः ॥ ६५॥ हिरण्यकशिपुध्वंसी बहुदानवदर्पहा । प्रह्लादस्तुतपादाब्जो भक्तसंसारतापहा ॥ ६६॥ ब्रह्मेन्द्ररुद्रभीतिघ्नो देवकार्यप्रसाधकः । ज्वलज्ज्वलनसङ्काशः सर्वभीतिविनाशकः ॥ ६७॥ महाकलुषविध्वंसी सर्वकामवरप्रदः । कालविक्रमसंहर्ता ग्रहपीडाविनाशकः ॥ ६८॥ सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् । उग्रभैरवसन्त्रस्तहरार्तिविनिवारकः ॥ ६९॥ ब्रह्मचर्मावृतशिराः शिवशीर्षैकनूपुरः । द्वादशादित्यशीर्षैकमणिर्दिक्पालभूषणः ॥ ७०॥ वामनोऽदितिभीतिघ्नो द्विजातिगणमण्डनः । त्रिपदव्याजयाञ्चाप्तबलित्रैलोक्यसम्पदः ॥ ७१॥ पन्नखक्षतब्रह्माण्डकटाहोऽमितविक्रमः । pannagakShata? स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ ७२॥ स्वाङ्घ्रिवारिहताघौघो विश्वरूपैकदर्शनः । बलिप्रियकरो भक्तस्वर्गदोग्धा गदाधरः ॥ ७३॥ जामदग्न्यो महावीर्यः परशुभृत्कार्तवीर्यजित् । सहस्रार्जुनसंहर्ता सर्वक्षत्रकुलान्तकः ॥ ७४॥ निःक्षत्रपृथ्वीकरणो वीरजिद्विप्रराज्यदः । द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ ७५॥ सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः । श्रीरामो रामचन्द्रश्च रामभद्रोऽमितप्रभः ॥ ७६॥ नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः । पद्मनेत्रः पद्मवक्त्रः पद्माङ्कितपदाम्बुजः ॥ ७७॥ प्रलम्बबाहुश्चार्वङ्गो रत्नाभरणभूषितः । दिव्याम्बरो दिव्यधनुर्दिष्टदिव्यास्त्रपारगः ॥ ७८॥ निस्त्रिंशपाणिर्वीरेशोऽपरिमेयपराक्रमः । विश्वामित्रगुरुर्धन्वी धनुर्वेदविदुत्तमः ॥ ७९॥ ऋजुमार्गनिमित्तेषु सङ्घताडितताडकः । सुबाहुर्बाहुवीर्याढ्यबहुराक्षसघातकः ॥ ८०॥ प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः । जनकानन्दजनको जानकीप्रियनायकः ॥ ८१॥ अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः । पितृवाक्त्यक्तराज्यश्रीवनवासकृतोत्सवः ॥ ८२॥ विराधराधदमनश्चित्रकूटाद्रिमन्दिरः । द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ ८३॥ चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः । त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ ८४॥ छद्ममारीचमथनो जानकीविरहार्तिहृत् । जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ ८५॥ ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् । वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहद्गिरिः ॥ ८६॥ सकण्टकारदुर्भेदसप्ततालप्रभेदकः । किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥ ८७॥ आञ्जनेयस्वलाङ्गूलदग्धलङ्कामहोदयः । सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ ८८॥ गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् । पादप्रहारसन्त्रस्तविभीषणभयापहः ॥ ८९॥ अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् । निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ ९०॥ कैलाससहनोन्मत्तदशाननशिरोहरः । अग्निसंस्पर्शसंशुद्धसीतासंवरणोत्सुकः ॥ ९१॥ कपिराक्षसराजाङ्गप्राप्तराज्यनिजाश्रयः । अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ ९२॥ अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः । दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ ९३॥ सर्वसम्पत्तिजननस्तिर्यङ्न्यायविवेचकः । शूद्रघोरतपःप्लुष्टद्विजपुत्रैकजीवनः ॥ ९४॥ दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः । तुरङ्गमेधक्रतुयाट्श्रीमत्कुशलवात्मजः ॥ ९५॥ सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसङ्ग्रहः । सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाघनाशनः ॥ ९६॥ भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः । सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ ९७॥ लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः । इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः ॥ ९८॥ शत्रुघ्नोऽमित्रशमनो लवणान्तककारकः । आर्यभ्रातृजनश्लाघ्यः सतां श्लाघ्यगुणाकरः ॥ ९९॥ वटपत्त्रपुटस्थायी श्रीमुकुन्दोऽखिलाश्रयः । तनूदरार्पितजगन्मृकण्डतनयः खगः ॥ १००॥ आद्यो देवगणाग्रण्यो मितस्तुतिनतिप्रियः । वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ १०१॥ ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः । गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ १०२॥ दौस्वस्तिर्यज्वनां श्रेष्ठो नृपविस्मयकारकः । तुरङ्गमेधबहुकृद्वदान्यगणशेखरः ॥ १०३॥ वासवीतनयो व्यासो वेदशाखानिरूपकः । पुराणभारताचार्यः कलिलोकहितैषणः ॥ १०४॥ रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः । सङ्कर्षणः सीरपाणिः मुसलास्त्रोऽमलद्युतिः ॥ १०५॥ शङ्खकुन्देन्दुश्वेताङ्गस्तालभिद्धेनुकान्तकः । मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ १०६॥ प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः । रेवतीप्रीतिदो रामारमणो बल्वलान्तकः ॥ १०७॥ हस्तिनापुरसङ्कर्षी कौरवार्चितसत्पदः । ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥ १०८॥ मायापतिर्महामायो महामायानिदेशकृत् । यदुवंशाब्धिपूर्णेन्दुर्बलदेवप्रियानुजः ॥ १०९॥ नराकृतिः परं ब्रह्म परिपूर्णः परोदयः । सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ ११०॥ पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः । महोरस्को महाबाहुर्महार्हमणिकुण्डलः ॥ १११॥ लसद्गण्डस्थलीहैममौलिमालाविभूषितः । सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ ११२॥ नीलकुञ्चितसुस्निग्धकुन्तलः कौमुदीमुखः । सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ ११३॥ सुमन्दहासो रुचिरभ्रूमण्डलविलोकनः । कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ ११४॥ कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् । श्रीवत्सलक्ष्म्या लक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ ११५॥ दलोदरो निम्ननाभिर्निरवद्यो निराश्रयः । नितम्बबिम्बव्यालम्बिकिङ्किणीकाञ्चिमण्डितः ॥ ११६॥ समजङ्घाजानुयुग्मः सुचारुरुचिराजितः । ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ ११७॥ भक्तभ्रमरसङ्घातपीतपादाम्बुजासवः । नखचन्द्रमणिज्योत्स्नाप्रकाशितमहामनाः ॥ ११८॥ पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः । स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ ११९॥ सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः । देवकीनन्दनो लोकनन्दिकृद्भक्तभीतिभित् ॥ १२०॥ शेषानुगः शेषशायी यशोदानतिमानदः । नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ १२१॥ सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः । वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ॥ १२२॥ पीतपूतनिकास्तन्यः पूतनाप्राणशोषणः । पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ १२३॥ समागतजनानन्दी शकटोच्चाटकारकः । प्राप्तविप्राशिषोऽधीशो लघिमादिगुणाश्रयः ॥ १२४॥ तृणावर्तगलग्राही तृणावर्तनिषूदनः । जनन्यानन्दजनको जनन्या मुखविश्वदृक् ॥ १२५॥ बालक्रीडारतो बालभाषालीलादिनिर्वृतः । गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ १२६॥ नवनीतविलिप्ताङ्गो नवनीतलवप्रियः । नवनीतलवाहारी नवनीतानुतस्करः ॥ १२७॥ दामोदरोऽर्जुनोन्मूलो गोपैकमतिकारकः । वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ॥ १२८॥ वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः । बकारिरघसंहारी बालाद्यन्तकनाशनः ॥ १२९॥ यमुनानिलसञ्जुष्टसुमृष्टपुलिनप्रियः । गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ १३०॥ गोगोपगोपीप्रियकृद्धनभृन्मोहखण्डनः । विधातुर्मोहजनकोऽत्यद्भुतैश्वर्यदर्शकः ॥ १३१॥ विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् । कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ १३२॥ दावाग्निशमनः सर्वव्रजभृज्जनजीवनः । मुञ्जारण्यप्रवेशाप्तकृच्छ्रदावाग्निदारणः ॥ १३३॥ सर्वकालसुखक्रीडो बर्हिबर्हावतंसकः । गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ १३४॥ गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः । विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ १३५॥ शतक्रतुवरध्वंसी शक्रदर्पमदापहः । धृतगोवर्धनगिरिर्व्रजलोकाभयप्रदः ॥ १३६॥ इन्द्रकीर्तिलसत्कीर्तिर्गोविन्दो गोकुलोत्सवः । नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ १३७॥ व्रजवासिजनश्लाघ्यो निजलोकप्रदर्शकः । सुवेणुनादमदनोन्मत्तगोपीविनोदकृत् ॥ १३८॥ गोधुग्वधूदर्पहरः स्वयशःकीर्तनोत्सवः । व्रजाङ्गनाजनारामो व्रजसुन्दरिवल्लभः ॥ १३९॥ रासक्रीडारतो रासमहामण्डलमण्डनः । वृन्दावनवनामोदी यमुनाकूलकेलिकृत् ॥ १४०॥ गोपिकागीतिकागीतः शङ्खचूडशिरोहरः । महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ १४१॥ सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः । केशिद्वेषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ १४२॥ अक्रूरप्रियकृत्क्रूररजकघ्नः सुवेशकृत् । सुदामादत्तमालाढ्यः कुब्जाचन्दनचर्चितः ॥ १४३॥ मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् । कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ १४४॥ महाकुवलयापीडघाती चाणूरमर्दनः । ? रङ्गशालागतापारनरनारीकृतोत्सवः ॥ १४५॥ कंसध्वंसकरः कंसस्वसारूप्यगतिप्रदः । कृतोग्रसेननृपतिः सर्वयादवसौख्यकृत् ॥ १४६॥ तातमातृकृतानन्दो नन्दगोपप्रसाददः । श्रितसान्दीपनिगुरुर्विद्यासागरपारगः ॥ १४७॥ दैत्यपञ्चजनध्वंसी पाञ्चजन्यदरप्रियः । सान्दीपनिमृतापत्यदाता कालयमार्चितः ॥ १४८॥ सैरन्ध्रीकामसन्तापशमनोऽक्रूरप्रीतिदः । शार्ङ्गचापधरो नानाशरसन्धानकोविदः ॥ १४९॥ अभेद्यदिव्यकवचः श्रीमद्दारुकसारथिः । खगेन्द्रचिह्नितध्वजश्चक्रपाणिर्गदाधरः ॥ १५०॥ नन्दकीयदुसेनाढ्योऽक्षयबाणनिषङ्गवान् । सुरासुराजेयरण्यो जितमागधयूथपः ॥ १५१॥ मागधध्वजिनीध्वंसी मथुरापुरपालकः । द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ १५२॥ सर्वसम्पत्तिजननः स्वजनानन्दकारकः । कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ १५३॥ यवनासुरसंहर्ता मुचुकुन्देष्टसाधकः । रुक्मिणीद्विजसंमन्त्ररथैकगतकुण्डिनः ॥ १५४॥ रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः । रुक्मिणीप्रियकृत्साक्षाद्रुक्मिणीरमणीपतिः ॥ १५५॥ रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः । स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित्शुचिः ॥ १५६॥ जाम्बवार्चितपादाब्जः साक्षाज्जाम्बवतीपतिः । सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ १५७॥ सुतीक्ष्णश‍ृङ्गवृषभसप्तजिद्राजयूथभिद् । नग्नजित्तनयासत्यानायिकानायकोत्तमः ॥ १५८॥ भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः । मुरुजित्पीठसेनानीनाशनो नरकान्तकः ॥ १५९॥ धरार्चितपदाम्भोजो भगदत्तभयापहा । नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ १६०॥ अष्टोत्तरशतद्व्यष्टसहस्रस्त्रीविलासवान् । सत्यभामाबलावाक्यपारिजातापहारकः ॥ १६१॥ देवेन्द्रबलभिज्जायाजातनानाविलासवान् । रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ १६२॥ कामतातः साम्बसुतोऽसङ्ख्यपुत्रप्रपौत्रवान् । उशायानितपौत्रार्थबाणबाहुसस्रछित् ॥ १६३॥ नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः । महादेवस्तुतपदो नृगदुःखविमोचकः ॥ १६४॥ ब्रह्मस्वापहरक्लेशकथास्वजनपालकः । पौण्ड्रकारिः काशिराजशिरोहर्ता सदाजितः ॥ १६५॥ सुदक्षिणव्रताराध्यशिवकृत्यानलान्तकः । वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ १६६॥ अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः । जरासन्धनिरोधार्तभूभुजेरितसत्कथः ॥ १६७॥ नारदेरितसन्मित्रकार्यगौरवसाधकः । कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ १६८॥ जरासन्धवधोद्योगकर्ता भूपतिशर्मकृत् । सन्मित्रकृत्याचरितो राजसूयप्रवर्तकः ॥ १६९॥ सर्वर्षिगणसंस्तुत्यश्चैद्यप्राणनिकृन्तकः । इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ १७०॥ महेशदत्तसौभाग्यपुरभिच्छत्रुघातकः । दन्तवक्त्ररिपुच्छेत्ता दन्तवक्त्रगतिप्रदः ॥ १७१॥ विदूरथप्रमथनो भूरिभारावतारकः । पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ १७२॥ पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः । पार्थबाणगतप्राणवीरकैवल्यरूपदः ॥ १७३॥ दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः । पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ १७४॥ पृथाभीष्टप्रदो भीमजयदो विजयप्रदः । युधिष्ठिरेष्टसन्दाता द्रौपदीप्रीतिसाधकः ॥ १७५॥ सहदेवेरितपदो नकुलार्चितविग्रहः । ब्रह्मास्त्रदग्धगर्भस्थपूरुवंशप्रसाधकः ॥ १७६॥ पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः । आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ १७७॥ प्रियप्रीतिकरो मित्रविप्रदारिद्र्यभञ्जनः । तीर्थापदेशसन्मित्रप्रियकृन्नन्दनन्दनः ॥ १७८॥ गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः । सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ १७९॥ तातात्मज्ञानसन्दाता देवकीमृतपुत्रदः । श्रुतदेवप्रियकरो मैथिलानन्दवर्धनः ॥ १८०॥ पार्थदर्पप्रशमनो मृतविप्रसुतप्रदः । स्त्रीरत्नवृन्दसन्तोषी जनकेलिकलोत्सवः ॥ १८१॥ चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः । कृतान्तकोटिदुर्लङ्घ्यः कामकोटिमनोहरः ॥ १८२॥ यक्षराट्कोटिधनवान्मरुत्कोटिस्ववीर्यवान् । समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ १८३॥ कोट्यश्वमेधाढ्यहरः तीर्थकोट्यधिकाह्वयः । पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ १८४॥ शक्रकोटिविलासाढ्यः कोटिब्रह्माण्डनायकः । सर्वामोघोद्यमोऽनन्तकीर्तिनिःसीमपौरुषः ॥ १८५॥ सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः । ब्रह्मादिसुरसङ्गीतवीतमानुषचेष्टितः ॥ १८६॥ अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः । स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ १८७॥ विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः । सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ १८८॥ मुमुक्षुमुक्तविषयीजनानन्दकरो यशः । कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ १८९॥ भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः । स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ १९०॥ सर्वसम्पत्स्राविनामा तुलसीदामवल्लभः । अप्रमेयवपुर्भास्वदनर्घ्याङ्गविभूषणः ॥ १९१॥ विश्वैकसुखदो विश्वसज्जनानन्दपालकः । सर्वदेवशिरोरत्नमद्भुतानन्तभोगवान् ॥ १९२॥ अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः । समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ १९३॥ स्वयशःश्रवणानन्दजनरागी गुणार्णवः । अनिर्देश्यवपुस्तप्तशरणो जीवजीवनः ॥ १९४॥ परमार्थः परंवेद्यः परज्योतिः परागतिः । वेदान्तवेद्यो भगवाननन्तसुखसागरः ॥ १९५॥ जगद्बन्धध्वंसयशा जगज्जीवजनाश्रयः । वैकुण्ठलोकैकपतिर्वैकुण्ठजनवल्लभः ॥ १९६॥ प्रद्युम्नो रुक्मिणीपुत्रः शम्बरघ्नो रतिप्रियः । पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ १९७॥ अनिरुद्धः कामसुतः शब्दयोनिर्महाक्रमः । उषापतिर्वृष्णिपतिर्हृषीकेशो मनःपतिः ॥ १९८॥ श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः । शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृतः ॥ १९९॥ श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः । पाखण्डमार्गप्रवदो निरायुधजगज्जयः ॥ २००॥ कल्की कलियुगाच्छादी पुनः सत्यप्रवर्तकः । विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ २०१॥ सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः । अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ २०२॥ आपः करो रमानाथोऽमरारिकुलकृन्तनः । सुरेन्द्रहितकृद्धीरवीरमुक्तिबलप्रदः ॥ २०३॥ विष्वक्सेनः शम्भुसखो दशमान्तरपालकः । ब्रह्मसावर्णिवंशाब्धिहितकृद्विश्ववर्धनः ॥ २०४॥ धर्मसेतुरधर्मघ्नो वैद्यतन्त्रपदप्रदः । असुरान्तकरो देवार्थकसूनुः सुभाषणः ॥ २०५॥ स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः । द्विषन्मनुयुगत्राता पातालपुरदारणः ॥ २०६॥ दैवहोत्रिर्वार्हतोयो दिवस्पतिरतिप्रियः । त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ २०७॥ सत्त्रायणो बृहद्बाहुर्वैनतेयो विदुत्तमः । कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ २०८॥ परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजाम्पतिः । अब्जयोनिर्हंसवाहः सर्वलोकपितामहः ॥ २०९॥ विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः । द्विजपूज्यो दयासिन्धुः शरण्यो भक्तवत्सलः ॥ २१०॥ रुद्रो मृडः शिवः शास्ता शम्भुः सर्वहरो हरः । कपर्दी शङ्करः शूली त्र्यक्षोऽभेद्यो महेश्वरः ॥ २११॥ सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः । सर्वावासः सर्वरूपः सर्वकारणकारणम् ॥ २१२॥ इत्येतत्कथितं विप्र विष्णोर्नामसहस्रकम् । सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ॥ २१३॥ मनःशुद्धिकरं चाशु भगवद्भक्तिवर्धनम् । सर्वविघ्नहरं सर्वाश्चर्यैश्वर्यप्रदायकम् ॥ २१४॥ सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् । श्रद्धया परया भक्त्या श्रवणात्पठनाज्जपात् ॥ २१५॥ प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् । एतत्पठन् द्विजो विद्यां क्षत्रियः पृथिवीमिमाम् ॥ २१६॥ वैश्यो महानिधिं शूद्रो वाञ्छितां सिद्धिमाप्नुयात् । द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाच्चरेद्धरेः ॥ २१७॥ नाम्ना दशापराधांश्च प्रमादादाचरेद्यदि । समाहितमना ह्येतत्पठेद्वा श्रावयेज्जपेत् ॥ २१८॥ स्मरेद्वा श‍ृणुयाद्वापि तेभ्यः सद्यः प्रमुच्यते । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ २१९॥ यस्यैककीर्तनेनापि भवबन्धाद्विमुच्यते । अतस्त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ २२०॥ विष्णोर्नामसहस्रं ते भगवत्प्रीतिकारणम् । श्रीनारद उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि त्वयातिकरुणात्मना । यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ २२१॥ यद्यालस्यात्प्रमादाद्वा सर्वं पठितुमन्वहम् । न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ २२२॥ श्रीशिव उवाच । यदि सर्वं न शक्नोषि प्रत्यहं पठितुं द्विज । तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ २२३॥ एतेन तव विप्रर्षे सर्वं सम्पद्यते सकृत् । किं पुनर्भगवन्नाम्नां सहस्रस्य प्रकीर्तनात् ॥ २२४॥ यन्नामकीर्तनेनैव पुमान् संसारसागरम् । तरत्यद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ २२५॥ इति सात्वततन्त्रे श्रीकृष्णसहस्रनामषष्ठः पटलः ॥६॥ From Satvatantra paTala 6 Translation available in file ᳚Satvata Tantra 11.doc᳚ at http://www.radha.name/digital-books/sastras-acharyas-and-swamis/tantra-and-pancaratra