अक्षर आकार:

श्रीकृष्णरक्षाकवचम्

shrIkRiShNarakShAkavacham

श्रीकृष्णरक्षाकवचम्

गोप्य ऊचुः - श्रीकृष्णस्ते शिरः पातु वैकुण्ठः कण्ठमेव हि । श्वेतद्वीपपतिः कर्णौ नासिकां यज्ञरूपधृक् ॥ १॥ नृसिंहो नेत्रयुग्मं च जिह्वां दशरथात्मजः । अधराववतां ते तु नरनाराणावृषी ॥ २॥ कपोलौ पातु ते साक्षात्सनकाद्याः कला हरेः । भालं ते श्वेतवाराहो नारदो भ्रूलतेऽवतु ॥ ३॥ चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु । स्कन्धौ द्वावृषभः पातु करौ मत्स्यः प्रपातु ते ॥ ४॥ दोर्दण्डं सततं रक्षेत्पृथुः पृथुलविक्रमः । उदरं कमठः पातु नाभिं धन्वन्तरिश्च ते ॥ ५॥ मोहिनी गुह्यदेशं च कटिं ते वामनोऽवतु । पृष्ठं परशुरामश्च तवोरू बादरायणः ॥ ६॥ बलो जानुद्वयं पातु जङ्घे बुद्धः प्रपातु ते । पादौ पातु सगुल्फौ च कल्किर्धर्मपतिः प्रभुः ॥ ७॥ सर्वरक्षाकरं दिव्यं श्रीकृष्णकवचं परम् । इदं भगवता दत्तं ब्रह्मणे नाभिपङ्कजे ॥ ८॥ ब्रह्मणा शम्भवे दत्तं शम्भुर्दुर्वाससे ददौ । दुर्वासाः श्रीयशोमत्यै प्रादाच्छ्रीनन्दमन्दिरे ॥ ९॥ अनेन रक्षां कृत्वास्य गोपीभिः श्रीयशोमती । इति गर्गसंहितायां गोलोकखण्डे त्रयोदशाध्यान्तर्गतं गोपीभिः कृतं श्रीकृष्णरक्षाकवचम् । Garga Samhita, Golokakhanda, Adhaya 13 verses 15-23