अक्षर आकार:

श्रीकृष्णचरितम्

shrIkRiShNacharitam

श्रीकृष्णचरितम्

केतुमालवासिन ऊचुः - आसीत्तु शेषशयनो जगदार्त्तिहारी साक्षात्प्रधानपुरुषेश्वर आदिदेवः । यः प्रार्थितः सुरवरैर्भुवनावनाय तस्मै नमो भगवते पुरुषोत्तमाय ॥ १॥ जातो गतः पितृगृहात्पितरौ विमोक्ष्य नन्दालयं शिशुतनुः स तु नन्दपत्न्या । संलालितः सघृणया बहुमङ्गलश्रीः प्राणप्रहारमकरोत्किल पूतनायाः ॥ २॥ बालो बभञ्ज शकटं शयनं प्रकुर्वन् दैत्यं निपात्य महदद्भुतकं च पृष्ठे । मात्रे प्रदर्श्य निजरूपमलङ्कृतोऽभूद्- गर्गेण सङ्कथितसुन्दरभाग्यलक्ष्मीः ॥ ३॥ संलालितो व्रजजनैर्नवनीतचौरः श्यामो मनोहरवपुर्मृदुलः स बालः । भित्वा जघास दधिपात्रमतीव दध्नो वृक्षौ बभञ्ज जननीलघुदामबद्धः ॥ ४॥ वृन्दावने स विचरन् सह वत्सगोपै- र्वत्सासुरं च विनिपात्य कपित्थवृक्षैः । सद्यो विगृह्य खरतुण्डपुटे च दोर्भ्यां दैत्यं ददार स बकं तृणवत्तटिन्याम् ॥ ५॥ सन्धारयंश्च शिशुभिर्बहुवत्ससङ्घान् वेणुं क्वणन्मदनमोहनवेषभृद्यः । गोपानघासुरमुखे प्रहिताञ्जुगोप गोगोपवत्सपवपुः स चकार सद्यः ॥ ६॥ क्षेत्रज्ञ आत्मपुरुषो भगवाननन्तः पूर्णः प्रधानपुरुषेश्वर आदिदेवः । धृत्वा वपुः स विहरन्व्रजबालकेषु सम्मोहयन्विधिमजो विचचार कृष्णः ॥ ७॥ चिक्षेप धेनुकमसौ बलिनं बलेन ताले प्रगृह्य सहसा फणिकालियाख्यम् । बभ्राम वह्निमपिबद्दनुजं प्रलम्बं सद्यो जघान स बली दृढमुष्टिना च ॥ ८॥ सञ्चारयन्व्रजवधूर्मधुरं क्वणन् यो वेणुं वने व्रजवधूनिजगीतकीर्तिः । दिव्याम्बराणि स जहार वराङ्गनानां विप्राङ्गनाभिरभितः कृतभक्तभोजः ॥ ९॥ देवे च वर्षति पशून्कृपया रिरक्षु- र्गोवर्धनं प्रकृतबाल इवोच्छिलीन्ध्रम् । बिभ्रद्गिरिं स गजराडिव कञ्जमेक- हस्ते शचीपतिवचोभिरतः स्तुतोऽभूत् ॥ १०॥ नन्दं जुगोप वरुणात्स्वजनाय लोकं दिव्यं परं च तमसो दिवि दर्शयित्वा । श्रीरासमण्डलगतो व्रजसुन्दरीणां रेमे पुलिन्दतटिनीपुलिनेऽङ्गनाभिः ॥ ११॥ मानं हरन्मदनयौवनमानिनीना- मन्तर्दधे व्रजवधूनिजगीतकीर्तिः । स्रग्वी मनोहरवपुर्विरहातुराणां साक्षाद्धरिर्मदनमोहन आविरासीत् ॥ १२॥ वृन्दावने शबरराजवराङ्गनाभि- र्विष्णुर्विभूतिभिरिव द्युभिरादिदेवः । रेमे स्तुतः सुरवरैः स च रासरङ्गे केयूरकुण्डलकिरीटविटङ्कवेषः ॥ १३॥ नन्दं विमोक्ष्य फणिने प्रददौ च मोक्षं दिव्यं मणिं स च जहार ह शङ्खचूडात् । गोपस्तुतो वृषभरूपधरं ह्यरिष्टं भूमौ निपात्य निजघान करेण श‍ृङ्गे ॥ १४॥ कंसः परं भयमवाप च तेन केशी सम्प्रेषितः सघनमेघवपुः प्रचण्डः । उत्सृज्य तं च तरसा पुनरापतन्तं श्रीबाहुना मुखगतेन जघान कृष्णः ॥ १५॥ यो नारदेन बहुवर्णितभाग्यलक्ष्मी- र्व्योमासुरो व्यसुरकारि परेण येन । अक्रूरवर्णितमहोदय आदिदेवो गोपीजनातिविरहातुरचित्तचौरः ॥ १६॥ श्वाफल्कये हितकराय निजं स्वरूप- मन्तर्दधे जलचये स च दर्शयित्वा । स प्राप तत्र मथुरोपवनं परेशो गोपालकैश्च सबलो मथुरां ददर्श ॥ १७॥ स्वैरं चरन्मधुपुरे रजकं निकृत्य कृष्णः प्रदाय च वरानथ वायकाय । मालाकृतं समनुकम्प्य चकार कुब्जा- मृज्वीं धनुश्च सहसा नमयन्बभञ्ज ॥ १८॥ द्वारि द्विपञ्च विनिहत्य नरेन्द्रमल्लौ हत्वा प्रगृह्य विनिपात्य स रङ्गभूमौ । कंसं हरिस्तु पितरावथ मोचयित्वा बन्धान्नृपं पुरि चकार महोग्रसेनम् ॥ १९॥ नन्दं प्रसाद्य बहुदानकरो यदूंस्ता- नाहूय तर्प्य सुधनैश्च निवेदयित्वा । विद्यामधीत्य स ददौ प्रमृतं ह्यपत्यं कृत्वा वधं दनुजपञ्चजनस्य कृष्णः ॥ २०॥ गोपीजनान्समनुगृह्य स चोद्धवेना- क्रूरेण हास्तिनपुरे त्वथ पाण्डुपुत्रान् । कृष्णो विजित्य बलिनं च जरासुतं च भस्मीचकार मुचकुन्ददृशाऽऽत्मकालम् ॥ २१॥ निर्माय चाद्भुतपुरं स्थितयेऽत्र कृष्णो निन्ये च कुण्डिनपुरात्किल भीष्मकन्याम् । पुत्रेण शम्बरमरिं निजघान चादाद्- राज्ञे मणीं युधि विजित्य स ऋक्षराजम् ॥ २२॥ भामापतिः स च शिरः शतधन्वनस्तु हृत्वा ह्युवाह सवितुश्च सुतां परेशः । आवन्त्यराजतनुजां स जहार कृष्णः सत्यां स्वयंवरगृहे वृषभान्दमित्वा ॥ २३॥ कैकेयराजतनुजां स जहार भद्रां श्रीलक्ष्मणामखिलभद्रपतेः सुतां च । भौमं विजित्य सबलं युधि शस्त्रसङ्घै- र्निन्ये च षोडशसहस्रवराङ्गनाश्च ॥ २४॥ भामेच्छया सुरतरुं च सभां सुधर्मां शक्रं विजित्य स जहार कलत्रमित्रः । यो रुक्मिणं च निजघान बलेन गोष्ठ्यां बाणस्य बाहुनिचयं शतधाच्छिनत्सः ॥ २५॥ तेनोग्रसेनक्रतवेऽथ जगद्विजेतुं सम्प्रेषितो निजसुतः किल शम्बरारिः । योऽत्रागतो भुवि विजित्य नृपान्समस्तान् श्रीकेतुमालपतये च नमोऽस्तु तस्मै ॥ २६॥ इति गर्गसंहितायां विश्वजित्खण्डे एकत्रिंशाध्यायान्तर्गतं केतुमालवासिभिः प्रद्युम्नस्य पुरतः गीतं श्रीकृष्णचरितं सम्पूर्णम् । Garga Samhita, Hayamedhakhanda, Adhaya 55 verses 8-33