अक्षर आकार:

रागगणानां श्रीकृष्णचन्द्रस्तवम्

rAgagaNAnAM shrIkRiShNachandrastavam

रागगणानां श्रीकृष्णचन्द्रस्तवम्

श्रीनारद उवाच - भैरवाद्या रागगणाः पुरः प्राप्ता हरेः प्रभोः । रूपानुरूपावयवां तनुं दृष्ट्वातिहर्षिताः ॥ १॥ यत्र यत्र च तेषां वै दृष्टिः प्राप्ता हरेस्तनौ । तत्र स्थिता च निर्गन्तुं लावण्यान्न शशाक ह ॥ २॥ अहो श्रीकृष्णचन्द्रस्य रूपमत्यद्भुतं हरेः । दृष्ट्वोपवर्णनं तस्य चक्रुस्तेऽपि पृथक् पृथक् ॥ ३॥ भैरव उवाच - भज हरिजानुद्वयमिति लक्ष्मीः । भजति सदाङ्के कमलकराभ्याम् ॥ ४॥ मेघमल्लार उवाच - ऊरू विष्णो रम्भाखण्डौ हेमस्तम्भौ ध्याये वन्द्यौ । ओजः पूर्णौ शोभायुक्तौ वस्त्रापीतौ कृष्णस्योभौ ॥ ५॥ दीपक उवाच - सकलसुखकरं कनकरुचिधरम् । प्रथितहरिपदं भजत कटितले ॥ ६॥ मालकोश उवाच - कटी केशवाद्या हरेरस्ति तत्र नृणां नेत्रयोर्दृष्टिमानं हरन्ति । परं कम्पिता मन्दगच्छत्समीरैः सुनम्रेण सा सर्वचेतोहरेत्थम् ॥ ७॥ श्रीराग उवाच - नाभेः सरः पुष्करकुण्डवच्च तल्लसत्त्रिवल्ल्यूर्मिमनोहरं पदम् । रोमावलिप्रोज्झितकामकाननं भजामि नित्यं हृदि राधिकापतेः ॥ ८॥ हिण्डोल उवाच - अक्षरपङ्क्तिः किन्न्वलिपङ्क्तिः पिप्पलपत्रे मोहनमाला । किं कमले यच्छ्यामलरेखा किं ह्युदरे रोमावलिरेखा ॥ ९॥ भैरवरागिण्य ऊचुः पीतपटं यत्कृष्णहरेरिन्द्रधनुर्वद्दीप्तियुतम् । काञ्चनशिल्पैश्चारुरुचि तद्भज नॄणां दुःखहरम् ॥ १०॥ भैरवपुत्रा ऊचुः चतुःसमुद्रा इव विश्वपूरका आनन्ददा एव चतुष्पदार्थवत् । ते बाहवो लोकवितानदण्डवज्जयन्ति भूधारणदिग्गजा इव ॥ ११॥ मेघमल्लाररागिण्य ऊचुः अरुणबिम्बफलद्युतिमण्डितं भज हरेरधरं मधुरं मनः । नवजपादलमल्लसुविग्रहं सकलवल्लभभूमिपतेः प्रभोः ॥ १२॥ मेघमल्लारपुत्रा ऊचुः कर्पूरकेतकसुमौक्तिकहीरकाणां श्रीखण्डचन्द्रचपलामृतमल्लिकानम् । तेषां रुचेश्च परिभावमकारि पूर्वं या दन्तपङ्क्तिरमला स्मरतां परस्य ॥ १३॥ दीपकरागिण्य ऊचुः नयनयुगलजातं पातु नोऽहर्निशं ते मदनशरपरोक्षं सर्वलावण्यदीक्षम् । परिहृतसुरवृक्षं कोटिशो लक्षलक्षं निजजनकृतरक्षं दानदक्षं कटाक्षम् ॥ १४॥ दीपकपुत्रा ऊचुः किं वा कुलिङ्गयुगलं नवपद्ममध्ये दुःखक्षायाय वसतां निशितासियुग्मम् । जैत्रं धनुर्जयति किं मकरध्वजस्य भ्रूमण्डलं किमथ चन्द्रमुखे परस्य ॥ १५॥ मालकोशरागिण्य ऊचुः परिनृत्यति इन्दुमण्डले फणिपत्न्याविव लोलकुण्डले । कमले मकरन्दनिर्भरे भ्रमरालीव सुगण्डमण्डले ॥ १६॥ मालकोशपुत्रा ऊचुः रविरेव खमण्डले किमु यदुभर्तुस्त्वथवा घने तडित् । अधितिष्ठति गण्डमण्डलं द्युतिखण्डं कलधौतकुण्डलम् ॥ १७॥ श्रीरागिण्य ऊचुः कलिङ्गयोः खञ्जनयोः किलारादापत्यतां युद्धमभूदलीनाम् । तेषां गतः कीर उषःप्रफुल्ले चकास्ति पद्मेऽरुणबिम्बलिप्सुः ॥ १८॥ श्रीरागपुत्रा ऊचुः परिकरीकृतपीतपटं हरिं शिखिकिरीटनतीकृतकन्धरम् । लगुडवेणुकरं चलकुण्डलं पटुतरं नतवेषधरं भजे ॥ १९॥ हिण्डोलरागिण्य ऊचुः अतसीकुसुमोपमेयकान्तिर्यमुनाकूलकदम्बमध्यवर्ती । नवगोपवधूविहारशाली वनमाली वितनोतु मङ्गलानि ॥ २०॥ हिण्डोलपुत्रा ऊचुः - हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारी । इति त्वां च मत्वा जगन्नाथदेवं यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥ २१॥ श्रीनारद उवाच - इति रागकृतं ध्यानं यः श‍ृणोति पठेत्सदा । तन्नेत्रगोचरो याति भगवान् भक्तवत्सलः ॥ २२॥ इति गर्गसंहितायां विश्वजित्खण्डे पञ्चचत्वारिंशदध्यायान्तर्गतं रागगणानां स्तवम् । Garga Samhita, Vishwajitkhanda, Adhaya 45