अक्षर आकार:

श्रीकृष्णाष्टकम्

Shri Krishnashtakam

श्रीकृष्णाष्टकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ गीताचार्याय विद्महे । भक्तमित्राय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ परमात्मस्वरूपाय नारायणाय विष्णवे । परिपूर्णावताराय श्रीकृष्णाय नमो नमः ॥ १॥ देवकीप्रियपुत्राय यशोदालालिताय च । वासुदेवाय देवाय नन्दनन्दाय ते नमः ॥ २॥ गोपिकानन्दलीलाय नवनीतप्रियाय च । वेणुगानाभिलोलाय राधाकृष्णाय ते नमः ॥ ३॥ गोविन्दाय मुकुन्दाय कंसादिरिपुदारिणे । मातापितृसुनन्दाय द्वारकापतये नमः ॥ ४॥ रुक्मिणीप्रियनाथाय रुग्मपीताम्बराय च । सत्यभामासमेताय सत्कामाय नमो नमः ॥ ५॥ पाण्डवप्रियमित्राय पाञ्चालीमानरक्षिणे । पार्थानुग्रहकाराय पार्थसारथये नमः ॥ ६॥ गीतोपदेशबोधाय विश्वरूपप्रकाशिने । वेदान्तसारसत्याय वेदनादाय ते नमः ॥ ७॥ सदासक्तसुरक्षाय सदामानसवासिने । सदात्मानन्दपूर्णाय श्रीकृष्णाय नमो नमः ॥ ८॥ त्यागब्रह्मसुगीताय गीतपुष्पार्चिताय च । मनोवाक्कायपूर्णाय श्रीकृष्णाय सुमङ्गलम् ॥ ९॥ कृष्णाष्टकमिदं पुण्यं कृष्णप्रेर्यं शुभप्रदम् । पुष्पार्चनसुपद्यं च श्रीकृष्णसुकृपावहम् ॥ १०॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीकृष्णाष्टकं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan