अक्षर आकार:

श्रीकृष्णस्तुतिर्मङ्गलम्

Shri Krishnastutirmangalam

श्रीकृष्णस्तुतिर्मङ्गलम्

नमः परमकल्याण नमस्ते विश्वमङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ १॥ नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ २॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ ४॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ५॥ राधिकाऽऽलिङ्गिताङ्गाय नमो रासविहारिणे । राजीवायतनेत्राय रसिकेशाय ते नमः ॥ ६॥ मुग्धगोपवधूत्तुङ्गकुचमण्डलमर्दिने । मुरलीगानलोलाय मुकुन्दायास्तु मङ्गलम् ॥ ७॥ नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गलम् । येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ ८॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ ९॥ नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचनः । सञ्चरन् क्वणितकिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ॥ १०॥ इति श्रीकृष्णस्तुतिः - मङ्गलं सम्पूर्णम् ।