अक्षर आकार:

श्रीकृष्णस्तुतिः सङ्कीर्णा

Shri Krishnastutihsankirna

श्रीकृष्णस्तुतिः सङ्कीर्णा

(सङ्कीर्णश्लोकाः) इन्दीवरदलश्याममिन्दरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ १॥ देवः पायादपायान्नः स्मरेन्दीवरलोचनः । संसारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ २॥ पान्तु वो जलदश्यामाः शार्ङ्गिज्याघातकर्कशाः । त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ ३॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ४॥ हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ५॥ देहि मत्कन्दुकं राधे परिधाननिगूहितम् । इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥ ६॥ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः ॥ ७॥ मीमांसार्णवसोमं लसदर्कं तर्कपद्मस्य । वेदान्तविपिनसिंहं वन्दे गोविन्दसाभिधं ब्रह्म ॥ ८॥ अवलोकितमनुमोदितमालिङ्गितमङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ ९॥ मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्यसनी । ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ १०॥ कठिनतरदामवेष्टनलेखासन्देहदायिनो यस्य । राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ॥ ११॥ खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुग्नविनतबाहुषु गोपेषु हसन्हरिर्जयति ॥ १२॥ नीतं नवनवनीतं कियदिति पृष्टो यशोदया कृष्णः । इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु ॥ १३॥ राधामधुसूदनयोरनुदिनमुपचीयमानस्य । प्रणयतरोरिव कुसुमं मिथोऽवलोकस्मितं पायात् ॥ १४॥ श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः । अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥ १५॥ तप्तं कैर्न तपोभिः फलितं तद्गोपबालानाम् । लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥ १६॥ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ १७॥ स्तनन्धयन्तं जननी मुखाब्जं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् । स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ १८॥ भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति ॥ १९॥ विहाय पीयूषरसं मुनीश्वरा ममाङ्घ्रिराजीवरसं पिबन्ति किम् । इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु वः ॥ २०॥ विलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम् । लीलारविन्देन तया सरोषं पायाद्विटः कोऽप्यभिहन्यमानः ॥ २१॥ स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ॥ २२॥ कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रमः । मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥ २३॥ अतसीकुसुमोपमेयकान्तर्यमुनातीरकदम्बमध्यवर्ती । नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलं वः ॥ २४॥ गायन्तीनां गोपसीमन्तिनीनां स्फीताकाङ्क्षामक्षिरोलम्बमालाम् । निश्चाञ्चल्यामात्मवक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ २५॥ पुञ्जीभूतं प्रेम गोपाङ्गनानां मूर्तीभूतं भागधेयं यदूनाम् । एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे सन्निधत्ताम् ॥ २६॥ आनन्दमादधतमायतलोचनानां आनीलमावलितकन्धरमात्तवंशम् । आपादमामुकुटमाकलितामृतौघं आकारमाकलयताममुमान्तरं नः ॥ २७॥ त्वां पातु नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोशबन्धः । राधाकपोलमकरीलिखनेषु योऽयं कर्णावतंसकमलं विपुलीचकार ॥ २८॥ उत्फुल्लमानसरसीरुहचारुमध्य- निर्यन्मधुव्रतभरद्युतिहारिणीभिः । राधाविलोचनकटाक्षपरम्पराभिः दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ २९॥ गोवर्धनोद्धरणहृष्टसमस्तगोप- नानास्तुतिश्रवणलज्जितमानसस्य । स्मृत्वा वराहवपुरिन्दुकलाप्रकाश- दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः ॥ ३०॥ अभिनवनवनीतप्रीतमाताम्रवेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम् । हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं कञ्चिदीडे ॥ ३१॥ अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः । दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छ- च्छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः ॥ ३२॥ कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासप्रियाहसितो हरिः ॥ ३३॥ ललितगमना नार्यो राजन्मनोजनितान्तभाः सुरतिसदृशस्ताः सन्मुख्यो भवानपि तद्ब्रुवे । वनभुवमितो गेहादेको न गच्छतु मां विने- त्यसकृदुदितः पुत्रः पित्रा जयत्यनघो हरिः ॥ ३४॥ देवः पायात्पयसि विमले यामुने मज्जतीनां याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरलसवलितैरुन्मिषत्पञ्चबाणैः गोपस्त्रीणां नयनकुसुमैरञ्चितः केशवो नः ॥ ३५॥ वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि । आभीराणां मधुरमुरलीनादसम्मोहितानां मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥ ३६॥ शिरश्छायां कृष्णः क्षणमकृत राधाचरणयोः भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयोरप्यनुनय- प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥ ३७॥ अवेमव्यापाराकलनमतुरी स्पर्शमचिरा- ?? दनुन्मीलत्तन्तु प्रकरघटनायासमसकृत् । विषीदत्पाञ्चाली विपदपनयैकप्रणयिनः पटानां निर्माणं पतगघतिकेतोरवतु वः ॥ ३८॥ ?? कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः । अभूद्वक्त्रेन्दौ यन्निहितनयनः कम्पितभुजः तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति ॥ ३९॥ संसक्तानिव पातुमौपनिषदव्याहारमाध्वीरसा- नुन्मार्ष्टुं व्रजसुन्दरीकुचतटीपाटीररेणूनिव । उन्मीलन्मुरळीनिनादबहुलामोदोपसीदद्गवी जिह्वालीढमलीकवल्लवशिशोः पादाम्बुजं पातु वः ॥ ४०॥ कृष्णो गोरसचौर्यमम्ब कुरुते किं कृष्ण मातः सुरा- पानं न प्रकरोमि राम किमिदं नाहं परस्त्रीरतः । किं गोविन्द वदत्यसौ हलधरो मिथ्येति तां व्याहरन् गोपीगोपकदम्बकं विहसयन्मुग्धो मुकुन्दोऽवतु ॥ ४१॥ मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः । भ्रूसंज्ञाविनिवारितोऽपि बहुशो जल्पन्यशोदाग्रतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः ॥ ४२॥ कासि त्वं वद चौर्यकारिणि कुतः कस्त्वं पुरो यामिकः किं ब्रूषे मुषितौ सुवर्णकलशौ भूपस्य केन त्वया । कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यतां इत्युक्ते धृतवल्लवीकुचयुगस्त्वां पातु पीताम्बरः ॥ ४३॥ कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ ४४॥ कृष्ण त्वं नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः । तद्याचेऽञ्जलिना भवन्तमधुना वृन्दावनं मद्विना मा यासीरिति नन्दगोपवचसा नम्रो हरिःपातु वः ॥ ४५॥ कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः । कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता बाला वत्सगतिं विवेक्तुमिति सञ्जल्पन्हरिः पातु वः ॥ ४६॥ स्वामी मुग्धतरो वनं घनमिदं बालाऽहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः । तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥ ४७॥ मातः किं यदुनाथ देहि चषकं किं तेन पातुं पयः तन्नास्त्यद्य कदास्ति तन्निशि निशा का वान्धकारोदये । आमील्याक्षियुगं निशाप्युपगता देहीति मातुः पुनः वक्षोजाम्बरकर्षणोद्यतकरः कृष्णः स पुष्णातु नः ॥ ४८॥ अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं सद्यःप्रस्नुतदुग्धदिग्धमपरं हस्तेन सम्मार्जतः । मात्रा चाङ्गुलिलालितस्य चिबुके स्मेरायमाणे मुखे विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥ ४९॥ गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथाप्रस्थानखेदालसां आश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं हरिः पातु वः ॥ ५०॥ रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितुः वाचा पञ्चवटीवने निवसतस्तामाहरद्रावणः । कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ ५१॥ कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रजलतां तामेव पुष्पान्वितां इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥ ५२॥ पीठे पीठनिषण्णबालकगले तिष्ठन्सगोपालको यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य घण्टारवम् । वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ ५३॥ पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचो निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदिशन्क्रीडाविटः पातु वः ॥ ५४॥ दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिः गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥ ५५॥ केयं भाग्यवती तवोरसि मणी ब्रूषेऽग्रवर्णं विना कृत्वास्याः प्रथमं विना क्व सहजो वर्णो मणेस्तादृशः । स्त्रीरूपं कथमस्य लिङ्गनियमात्पृच्छामि वध्वाकृतिं मुग्धे त्वत्प्रतिबिम्बमित्यपलपन् राधां हरिः पातु वः ॥ ५६॥ यां दृष्ट्वा यमुनापिपासुरनिशं व्यूहो गवां गाहते विद्युत्त्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते । उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः कान्तं कालियशासनस्य वपुषः सा पावनी पातु वः ॥ ५७॥ श्रीमद्गोपवधूस्वयङ्ग्रहपरिष्वङ्गेषु तुङ्गस्तन- व्यामर्दाद्गलितेऽपि चन्दनरजस्यङ्गे वहन्सौरभम् । कश्चिज्जागरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनादरसिको जाराग्रणीः पातु वः ॥ ५८॥ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसङ्गमसौभगं च सततं मत्प्रेयसीनां पुरः । प्राप्तं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः ॥ ५९॥ कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति विकासिते च वदने दृष्ट्वा समस्तं जगत् माता यस्य जगाम विस्मयपदं पायात्स वः श्रीपतिः ॥ ६०॥ अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः । सासूयं कमलालया सुरगणः सानन्दमुद्यद्भयं राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः ॥ ६१॥ कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेः अक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ ६२॥ कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते । भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ ६३॥ रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवां अभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति- र्व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः पातु वः ॥ ६४॥ साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित- भ्रूवल्लीकमलीकदर्शितभुजामूलार्धदृष्टस्तनम् । गोपीनां निभृतं निरीक्ष्य ललितं काञ्चिच्चिरं चिन्तयन् अन्तर्मुग्धमनोहरो हरतु वः क्लेशं नवः केशवः ॥ ६५॥ तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चरद्- गीतस्थानकृतावधानललनालक्षैर्न संलक्षिताः । सम्मुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु- स्पन्दं पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥ ६६॥ वृष्टिव्याकुलगोकुलावनरसादुद्धृत्य गोवर्धनं बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बतः । कन्दर्पेण तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ ६७॥ राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली- नेपथ्योचितनीलरत्नमवनीभारावतारक्षमः । स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ६८॥ किं विभ्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ६९॥ सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरात् आनम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम् । स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ७०॥ प्रातर्नीलनिचोलमच्युतमुरःसंवीतपीतांशुकं राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले । व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ ७१॥ प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् । पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनाद्- व्यामोहेन जितं जितं जितमभूद्व्यालोलकोलाहलः ॥ ७२॥ त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोऽञ्चलं राधायाः स्तनकोरको परिलसन्नेत्रो हरिः पातु वः ॥ ७३॥ वामांसस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छविं वंशीगीतिभवस्त्रिभङ्गवपुषं भ्रूलास्यलीलापरम् । किञ्चित्स्रस्तशिखण्डशेखरमतिस्निग्धालिनीलालकं राधादिप्रमदाशतावृतमहं वन्दे किशोराकृतिम् ॥ ७४॥ अन्तर्मोहनमौलिघूर्णनवलन्मन्दारविस्रंसनः स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् । दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः कंसरिपोर्व्यपोहयतु वोऽश्रेयांसि वंशीरवः ॥ ७५॥ मौलौ केकिशिखण्डनी मधुरिमाधाराधरे वंशिनी पीनांसे वनमालिनी हृदि लसत्कारुण्यकल्लोलिनी । श्रोण्यां पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी लीला काचन मोहनी विजयते वृन्दावनावासिनी ॥ ७६॥ मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां शैलेयागुरुसक्तचित्रतिलकां शश्वन्मनोहारिणीम् । लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥ ७७॥ अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूतलं किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम् ॥ ७५॥ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ७६॥ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा । इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ ७७॥ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् । सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मतं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः ॥ ७८॥ राधामोहनमन्दिरं जिगमिषोश्चन्द्रावलीमन्दिरात् राधे क्षेममिति प्रियस्य वचनं श्रुत्वाऽऽह चन्द्रावली । क्षेमं कंस ततः प्रियः प्रमुदितः कंसः क्व दृष्टस्त्वया राधा क्वेति तयोः प्रसन्नमनसोर्हासोद्गमः पातु वः ॥ ७९॥ दृष्टः क्वापि स केशवो व्रजवधूमादाय काञ्चिद्गतः सर्वा एव हि वञ्चिताः खलु वयं सोऽन्वेषणीयो यदि । द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः ॥ ८०॥ किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव । इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ ८१॥ स्वप्नासादितदर्शनामनुनयन्प्राणेश्वरीमादरात् अंसेऽस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोऽप्यश्रुभिः । प्रत्याय्यस्त्वमतो मया ननु हरे कोऽयं क्रमव्यत्ययः पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकरं शार्ङ्गिणः ॥ ८२॥ अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलसल्लीलया कैटभारिः व्यातन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान् ॥ ८३॥ अङ्गुल्या कः कपाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो नहि धरणिधरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहिमर्दी किमुत खगपतिर्नो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ८४॥ वृन्दारण्ये चरन्ती विभुरपि सततम्भूर्भुवःस्वः सृजन्ती नन्दोद्भूताऽप्यनादिः शिशुरपि निगमैर्लक्षिता वीक्षितापि । विद्युल्लेखावनद्धोन्नमदमलमहाम्भोदसच्छायकाया माया पायादपायादविदितमहिमा कापि पैताम्बरी वः ॥ ८५॥ नामोदस्ताखिलामोदमनियमयुजां यः प्रकामोदवाह श्यामो दर्पाढ्यधामोदयमिलितयशोधारया मोदते यः । वामोदन्यासदामोदरतरलदृशां दत्तकामोदयो यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो वः ॥ ८६॥ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोऽङ्गनाभिः गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ ८७॥ जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ८८॥ सुपर्णः स्वर्णाद्रौ रचितमणिश‍ृङ्गे जलधिजा- मुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः । त्रिलोकीकस्तूरितिलककमनीयो व्रजवधू- विहारी श्रीकृष्णो दिशतु भवतां शर्म सततम् ॥ ८९॥ क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके । त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बलात् लसत्पुलकपञ्जरो जयति गोकुले केशवः ॥ ९०॥ मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैः नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ ९१॥ कौन्तेयस्य सहायतां करुणया गत्वा विनीतात्मनो येनोल्लङ्घितसत्पथः कुरुपतिश्चक्रे कृतान्तातिथिः । त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सम्पदे साधूनामसुराधिनाथमथनः स्ताद्देवकीनन्दनः ॥ ९२॥ आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यसि स्वेदाम्भःकणदन्तुरं तव मुखं हेतस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयन् तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ ९३॥ इति श्रीकृष्णस्तुतिः समाप्ता ।