अक्षर आकार:

श्रीकृष्णस्तुतिःगुह्यक

Shri Krishnastutihguhyaka

श्रीकृष्णस्तुतिःगुह्यक

गुह्यककृता कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ १॥ त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रयेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ २॥ त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३॥ गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ४॥ तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ५॥ यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः ॥ ६॥ स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णोऽम्शभागेन साम्प्रतं पतिराशिषाम् ॥ ७॥ नमः परमकल्याण नमः परममङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ८॥ अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ९॥ वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ १०॥ इति श्रीमद्भागवतान्तर्गतं गुह्यककृता श्रीकृष्णस्तुतिः समाप्ता ।