अक्षर आकार:

कृष्णस्तोत्रम्दानव

Krishnastotramdanava

कृष्णस्तोत्रम्दानव

दानवकृतं वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः । राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ॥ १॥ बलिभक्तिवशो वीरः सर्वेशो भक्तवत्सलः । शीघ्रं त्वं हिंस मां पापं शापाद्गर्दभरूपिणम् ॥ २॥ मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम् । मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ॥ ३॥ षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा । जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ॥ ४॥ त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम् । वेदानां रक्षिता नाथ हिरण्याक्षनिषूदनः ॥ ५॥ त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे । प्रह्लादानुग्रहार्थाय देवानां रक्षणाय च ॥ ६॥ त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे । नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयोः ॥ ७॥ शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे । विश्वाधारश्च शेषस्त्वमंशेनापि सहस्रदृक् ॥ ८॥ रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे । दशकन्धरहन्ता च सिन्धौ सेतुविधायकः ॥ ९॥ कलया परशुरामश्च जमदग्निसुतो महान् । त्रिःसप्तकृत्वो भूपानां निहन्ता जगतीपते ॥ १०॥ अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः । मातृज्ञानप्रदाता च योगशास्त्रविधायकः ॥ ११॥ अंशेन ज्ञानिनां श्रेष्ठौ नरनारायणावृषी । त्वं च धर्मसुतो भूत्वा लोकविस्तारकारकः ॥ १२॥ अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् । सर्वेषामवताराणां बीजरूपः सनातनः ॥ १३॥ यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः । प्राणाधिदेवो गोपीनां राधाप्राणाधिकः प्रियः ॥ १४॥ वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः । अयोनिसम्भवः श्रीमान् पृथिवीभारहारकः ॥ १५॥ पूतनायै मातृगतिप्रदाता च कृपानिधिः । बककेशिप्रलम्बानां ममापि मोक्षकारकः ॥ १६॥ स्वेच्छामय गुणातीत भक्तानां भयभञ्जन । प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ॥ १७॥ हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात् । मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धर्तुं त्वमर्हसि ॥ १८॥ वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः । किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खरः ॥ १९॥ एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः । दृष्ट्वा पादारविन्दं ते कः पुनर्भवनं व्रजेत् ॥ २०॥ ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि । सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ॥ २१॥ इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः । प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ॥ २२॥ इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् । सालोक्यसार्ष्टिसामीप्यं लीलया लभते हरेः ॥ २३॥ इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम् । विद्यां श्रियं सुकवितां पुत्रपौत्रान् यशो लभेत् ॥ २४॥ इति दानवकृतं कृष्णस्तोत्रं सम्पूर्णम् ।