अक्षर आकार:

श्रीकृष्णस्तवराजः

Shri Krishnastavarajah

श्रीकृष्णस्तवराजः

कृष्णदासविरचितः अनन्तकन्दर्पकलाविलासं किशोरचन्द्रं रसिकेन्द्रशेखरम् । श्यामं महासुन्दरतानिधानं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ १॥ अनन्तविद्युद्युतिचारुपीतं कौशेयसंवीतनितम्बबिम्बम् । अनन्तमेघच्छविदिव्यमूर्तिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ २॥ महेन्द्रचापच्छविपिच्छचूढं कस्तूरिकाचित्रकशोभिमालम् । मन्दादरोद्घूर्णविशालनेत्रं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ३॥ भ्राजिष्णुगल्लं मकराङ्कितेन विचित्ररत्नोज्ज्वलकुण्डलेन । कोटीन्दुलावण्यमुखारविन्दं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ४॥ वृन्दाटवीमञ्जुलकुञ्जवाद्यं श्रीराधया सार्धमुदारकेलिम् । आनन्दपुञ्जं ललितादिदृश्यं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ५॥ महार्हकेयूरककङ्कणश्रीग्रैवेयहारावलिमुद्रिकाभिः । विभूषितं किङ्किणिनूपुराभ्यां श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ६॥ विचित्ररत्नोज्ज्वलदिव्यवासाप्रगीतरामागुणरूपलीलम् । मुहुर्मुहुः प्रोदितरोमहर्षं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ७॥ श्रीराधिकेयाधरसेवनेन माद्यन्तमुच्चै रतिकेलिलोलम् । स्मरोन्मदान्धं रसिकेन्द्रमौलिं श्रीकृष्णचन्द्रं शरणं गतोऽस्मि ॥ ८॥ अङ्के निधाय प्रणयेन राधां मुहुर्मुहुश्चुम्बिततन्मुखेन्दुम् । विचित्रवेषैः कृततद्विभूषणं श्रीकृष्णचन्द्रं शरण गतोऽस्मि ॥ ९॥ इति कृष्णदासविरचितः श्रीकृष्णस्तवराजः सम्पूर्णः ।