अक्षर आकार:

श्रीकृष्णशरणाष्टकम्

shrIkRiShNasharaNAShTakam

श्रीकृष्णशरणाष्टकम्

सर्वसाधनहीनस्य पराधीनस्य सर्वतः । पापपीनस्य दीनस्य श्रीकृष्णः शरणं मम ॥ १॥ संसारसुखसम्प्राप्तिसन्मुखस्य विशेषतः । वहिर्मुखस्य सततं श्रीकृष्णः शरणं मम ॥ २॥ सदा विषयकामस्य देहारामस्य सर्वथा । दुष्टस्वभाववामस्य श्रीकृष्णः शरणं मम ॥ ३॥ संसारसर्वदुष्टस्य धर्मभ्रष्टस्य दुर्मतेः । लौकिकप्राप्तिकामस्य श्रीकृष्णः शरणं मम ॥ ४॥ विस्मृतस्वीयधर्मस्य कर्ममोहितचेतसः । स्वरूपज्ञानशून्यस्य श्रीकृष्णः शरणं मम ॥ ५॥ संसारसिन्धुमग्नस्य भग्नभावस्य दुष्कृतेः । दुर्भावलग्नमनसः श्रीकृष्णः शरणं मम ॥ ६॥ विवेकधैर्यभक्त्यादिरहितस्य निरन्तरम् । विरुद्धकरणासक्तेः श्रीकृष्णः शरणं मम ॥ ७॥ विषयाक्रान्तदेहस्य वैमुख्यहृतसन्मतेः । इन्द्रियाश्वगृहितस्य श्रीकृष्णः शरणं मम ॥ ८॥ एतदष्टकपाठेन ह्येतदुक्तार्थभावनात् । निजाचार्यपदाम्भोजसेवको दैन्यमाप्नुयात् ॥ ९॥ ॥ इति हरिदासवर्यविरचितं श्रीकृष्णशरणाष्टकं सम्पूर्णम् ॥