अक्षर आकार:

श्रीकृष्णशरणाष्टकम्

shrIkRiShNasharaNAShTakam

श्रीकृष्णशरणाष्टकम्

द्विदलीकृतदृक्स्वास्यः पन्नगीकृतपन्नगः । कृशीकृतकृशानुश्च श्रीकृष्णः शरणं मम ॥ १॥ फलीकृतफलार्थी च कुस्सितीकृतकौरवः । निर्वातीकृतवातारिः श्रीकृष्णः शरणं मम ॥ २॥ कृतार्थीकृतकुन्तीजः प्रपूतीकृतपूतनः । कलङ्कीकृतकंसादिः श्रीकृष्णः शरणं मम ॥ ३॥ सुखीकृतसुदामा च शङ्करीकृतशङ्करः । सितीकृतसरिन्नाथः श्रीकृष्णः शरणं मम ॥ ४॥ छलीकृतबलिद्यौर्यो निधनीकृतधेनुकः । कन्दर्पीकृतकुब्जादिः श्रीकृष्ण शरणं मम ॥ ५॥ महेन्द्रीकृतमाहेयः शिथिलीकृतमैथिलः । आनन्दीकृतनन्दाद्यः श्रीकृष्णः शरणं मम ॥ ६॥ वराकीकृतराकेशो विपक्षीकृतराक्षसः । सन्तोषीकृतसद्भक्तः श्रीकृष्णः शरणं मम ॥ ७॥ जरीकृतजरासन्धः कमलीकृतकार्मुकः । प्रभ्रष्टीकृतभीष्मादिः श्रीकृष्णः शरणं मम ॥ ८॥ श्रीकृष्णः शरणं ममाष्टकमिदं प्रोत्थाय यः सम्पठेत् स श्रीगोकुलनायकस्य पदवी संयाति भूमीतले । पश्यत्येव निरन्तरं तरणिजातीरस्थकेली प्रभोः सम्प्राप्नोति तदीयतां प्रतिदिनं गोपीशतैरावृताम् ॥ ९॥ ॥ इति श्रीदेवकीनन्दनात्मज श्रीरघुनाथप्रभुकृतं श्रीकृष्णशरणाष्टकं सम्पूर्णम् ॥