अक्षर आकार:

ककारादि श्रीकृष्णसहस्रनामस्तोत्रम्

Kakaradi Shrikrishna Sahasranamastotram

ककारादि श्रीकृष्णसहस्रनामस्तोत्रम्

व्यास उवाच- कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादान्न संशयः । यतो मया परं ज्ञानं ब्रह्मगीतात्मकं श्रुतम् ॥ १॥ परं तु येन मे जन्म न भवेत्कर्हिचिन्मुने । पूर्णब्रह्मैकविज्ञानविरहो न च जायते ॥ २॥ येन मे दृढविश्वासो भक्तावुत्पद्यते हरेः । कालपाशविनिर्मुक्तिः कर्मबन्धविमोचनम् ॥ ३॥ जन्ममृत्युजराव्याधिक्लेशक्षोभनिवारणम् । कलिकालभयध्वंसो ब्रह्मज्ञानं दृढं हृदि ॥ ४॥ कीर्तिः श्रीः सन्मतिः शान्तिर्भक्तिर्मुक्तिश्च शाश्वती । जायते तदुपायं मे वद वेदविदां वर ॥ ५॥ नारद उवाच- तत्त्वमेकं त्रिलोकेषु पूर्णानन्दो जगद्गुरुः । दैवतं सर्वदेवानां प्राणिनां मुक्तिकारणम् ॥ ६॥ तारणं भवपाथोधेर्दुःखदारिद्र्यहारणम् । तद्रूपं सर्वदा ध्येयं योगिभिर्ज्ञानिभिस्तथा ॥ ७॥ ज्ञेयमेव सदा सिद्धैः सिद्धान्तेन दृढीकृतम् । वेदान्ते गीतमाप्तानां हितकृत्कष्टनाशनम् ॥ ८॥ सर्वेषामेव जीवानां कर्मपाशविमोचनम् । सत्यज्ञानदयासिन्धोः कादिनामसहस्रकम् ॥ ९॥ अतिगुह्यतरं लोके नाकेऽपि ब्रह्मवादिनाम् । कालपाशविनिर्मुक्तेर्हेतुभूतं सनातनम् ॥ १०॥ कामार्तिशमनं पुंसां दुर्बुद्धिक्षयकारकम् । सर्वव्याध्याधिहरणं शरणं साधुवादिनाम् ॥ ११॥ कपटच्छलपाखण्डक्रोधलोभविनाशनम् । अज्ञानाधर्मविध्वंसि श्रितानन्दविवर्धनम् ॥ १२॥ विज्ञानोद्दीपनं दिव्यं सेव्यं सर्वजनैरिह । पठनीयं प्रयत्नेन सर्वमन्त्रैकदोहनम् ॥ १३॥ मोहमात्सर्यमूढानामगोचरमलौकिकम् । पूर्णानन्दप्रसादेन लभ्यमेतत्सुदुर्लभम् ॥ १४॥ पुर्णानन्दः स्वयं ब्रह्म भक्तोद्धाराय भूतले । अक्षराकारमाविश्य स्वेच्छयाऽनन्तविक्रमः ॥ १५॥ कृष्णनाम्नात्र विख्यातः स्वयं निर्वाणदायकः । अत एवात्र वर्णानां ककारस्तन्मयो मतः ॥ १६॥ कादिनामानि लोकेऽस्मिन्दुर्लभानि दुरात्मनाम् । भक्तानां सुलभानीह निर्मलानां यतात्मनाम् ॥ १७॥ ज्ञेय एव स्वयं कृष्णो ध्येय एव निरन्तरम् । अमेयोऽप्यनुमानेन मेय एवात्मभावतः ॥ १८॥ ब्रह्मगीतादिभिर्गेयः सेवनीयो मुमुक्षभिः । कृष्ण एव गतिः पुंसां संसारेऽस्मिन्सुदुस्तरे ॥ १९॥ कालास्ये पतितं सर्वं कालेन कवलीकृतम् । कालाधीनं कालसंस्थं कालोत्पन्नं जगत्त्रयम् ॥ २०॥ स कालस्तस्य भृत्योऽस्ति तदधीनस्तदुद्भवः । तस्मात्सर्वेषु कालेषु कृष्ण एव गतिर्नृणाम् ॥ २१॥ अन्ये देवास्त्रिलोकेषु कृष्णाश्रयपरायणाः । कृष्णमाश्रित्य तिष्ठन्ति कृष्णस्यानुचरा हि ते ॥ २२॥ यथा सूर्योदये सर्वास्तारकाः क्षीणकान्तयः । सर्वे देवास्तथा व्यास हतवीर्या हतौजसः ॥ २३॥ न कृष्णादितरत्तत्त्वं न कृष्णादितरत्सुखम् । न कृष्णादितरज्ज्ञानं न कृष्णादितरत्पदम् ॥ २४॥ कृष्ण एव जगन्मित्रं कृष्ण एव जगद्गुरुः । कृष्ण एव जगत्त्राता कृष्ण एव जगत्पिता ॥ २५॥ कृष्ण कृष्णेति ये जीवाः प्रवदन्ति निरन्तरम् । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ २६॥ कृष्णे तुष्टे जगन्मित्रं कृष्णे रुष्टे हि तद्रिपुः । कृष्णात्मकं जगत्सर्वं कृष्णमाश्रित्य तिष्ठति ॥ २७॥ यथा सूर्योदये सर्वे पदार्थज्ञानिनो नराः । कृष्णसूर्योदयेऽन्तःस्थे तथाऽऽत्मज्ञानिनो बुधाः ॥ २८॥ तस्मात्त्वं सर्वभावेन कृष्णस्य शरणं व्रज । नान्योपायस्त्रिलोकेषु भवाब्धिं तरितुं सताम् ॥ २९॥ श्रीव्यास उवाच- कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादादतन्द्रितः । यस्माच्छ्रुतं मया ज्ञानं श्रीकृष्णस्य महात्मनः ॥ ३०॥ परं तु श्रेतुमिच्छामि त्वत्तो ब्रह्मविदां वर । नैवास्ति त्वत्समो ज्ञानी त्रिषु लोकेषु कुत्रचित् ॥ ३१॥ कथं मे करुणासिन्धुः प्रसन्नो जायते हरिः । केनोपायेन तद्भक्तिर्निश्चला जायते मयि ॥ ३२॥ केनोपायेन तद्दास्यं सखित्वं देवदुर्लभम् । तदधीनत्वमेवाथ तत्स्वरूपैकता तथा ॥ ३३॥ एतन्मे वद देवर्षे सर्वशास्त्रार्थदोहनम् । विना कृष्णं गतिर्नाऽस्ति कृष्ण एव गतिर्मम ॥ ३४॥ नारद उवाच- श्रीकृष्णः करुणासिन्धुर्दीनबन्धुर्जगद्गुरुः । कादिनामहस्रेण विना नान्यैश्च साधनैः ॥ ३५॥ प्रसन्नो जायते नूनं तस्मात्तानि वदामि ते । अवाच्यान्यपि ते वच्मि त्रिषु लोकेषु कुत्रचित् ॥ ३६॥ न प्रसिद्धानि दुष्टानां दुर्लभानि महीतले । सुलभानीह भक्तानां भाविष्यन्ति तदाज्ञया ॥ ३७॥ पुरा सारस्वते कल्पे रम्ये वृन्दावने निशि । निजभक्तहितार्थाय वेणुनादं हरिः स्वयम् ॥ ३८॥ चकारोच्चैर्मनोहारी विहारी वैरनाशनः । तदा गोपीजनः सर्वः सहसोत्थाय विह्वलः ॥ ३९॥ निशीथे सकलं त्यक्त्वाऽगच्छद्वेणुवशीकृतः । तेन सार्धं कृता क्रीडा स्वप्नवद्रासमण्डले ॥ ४०॥ तत्रान्तर्धानमगमत्तच्चित्तमपहृत्य सः । तदा ता गोपिकाः सर्वाः दिङ्मूढा इव गोगणाः ॥ ४१॥ समीपस्थमपि भ्रान्त्या तं नापश्यन्नरोत्तमम् । इतस्ततो विचिन्वन्त्यः कस्तूरीमृगवद्वने ॥ ४२॥ अत्यन्तव्याकुलीभूताः खण्डिताः श्रुतयो यथा । ब्रह्मज्ञानाद्यथा विप्राः कालमायावशनुगाः ॥ ४३॥ तथैता गोपिका व्यास कृष्णदर्शनलालसाः । अत्यन्तविरहाक्रान्तास्तच्चित्तास्तत्परायणाः ॥ ४४॥ भ्रमरीकीटवल्लीना नान्यत्पश्यन्ति तद्विना । विरहानलदग्धाङ्ग्यः कामान्धा भयविह्वलाः ॥ ४५॥ स्वात्मानं न विदुर्दीना ज्ञानहीना नरा इव । तल्लीनमानसाकारा विकारादिविवर्जिताः ॥ ४६॥ तदातिकृपया कृष्णो भक्ताधीनो निरङ्कुशः । आविर्बभूव तत्रैव यथा सूर्यो निशात्यये ॥ ४७॥ तदा ता गोपिकाः सर्वा दृष्ट्वा प्राणपतिं हरिम् । जन्मान्तरनिभं हित्वा विरहाग्निं सुदुःसहम् ॥ ४८॥ तवावतारवन्मत्वा हर्षनिर्भरमानसाः । पद्मिन्य इव कृष्णार्कं दृष्ट्वा विकसितास्तदा ॥ ४९॥ पपुर्नेत्रपुटैरेनं न च तृप्तिमुपाययुः । क्रीडायाः शान्तिमापन्ना मत्वा कृष्णं जगद्गुरुम् ॥ ५०॥ तं प्रत्यूचुः प्रीतियुक्ता विरक्ता विरहानलात् । आसक्तास्तत्पदे नित्यं विरक्ता इव योगिनः ॥ ५१॥ गोप्य ऊचुः- हे नाथ याहि नो दीनास्त्वन्नाथास्त्वत्परायणाः । तवालम्बेन जीवन्त्यस्तव दास्यो वयं सदा ॥ ५२॥ केनोपायेन भो कृष्ण न भवेद्विरहस्तव । न भवेत्पुनरावृत्तिर्न च संसारवासना ॥ ५३॥ त्वयि भक्तिर्दृढा केन सखीत्वं जायते तव । तदुपायं हि नो ब्रूहि कृपां कृत्वा दयानिधे ॥ ५४॥ श्रीकृष्ण उवाच- अत्यन्तदुर्लभःप्रश्नस्त्वदीयः कलिनाशनः । न कदापि मया प्रोक्तः कस्याप्यग्रे व्रजाङ्गनाः ॥ ५५॥ तथाप्यत्यन्तभावेन युष्मद्भक्त्या वशीकृतः । रहस्यं कथयाम्यद्य मदीयं मद्गतिप्रदम् ॥ ५६॥ कादिनामसहस्राख्यमविख्यातं धरातले । गुह्याद्गुह्यतरं गोप्यं वेदशास्त्रार्थदोहनम् ॥ ५७॥ अलौकिकमिदं पुंसां सद्यः श्रेयस्करं सताम् । शब्दब्रह्ममयं लोके सूर्यवच्चित्प्रकाशनम् ॥ ५८॥ संसारसागरे घोरे प्लवतुल्यं मनीषिणाम् । सर्वसिद्धिप्रदं पुंसामज्ञानार्णवशोषणम् ॥ ५९॥ जातिस्मृतिप्रदं विद्यावर्धनं मोहनाशनम् । ब्रह्मज्ञानरहस्यं मे कादिनामसहस्रकम् ॥ ६०॥ तदेवाहं प्रवक्ष्यामि श‍ृणुध्वं भक्तिपूर्वकम् । यस्य स्मरणमात्रेण जीवन्मुक्तिः प्रजायते ॥ ६१॥ ॐ अस्य श्रीपुराणपुरुषोत्तमश्रीकृष्णकादिसहस्रनाममन्त्रस्य नारद ऋषिः अनुष्टुप्छन्दः, सर्वात्मस्वरूपी श्रीपरमात्मा देवता । ॐ इति बीजं, नम इति शक्तिः, कृष्णायेति कीलकं, धर्मार्थकाममोक्षार्थे श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ कालात्मेत्यङ्गुष्ठाभ्यां नमः । ॐ कीर्तिवर्द्धन इति तर्जनीभ्यां नमः । ॐ कूटस्थसाक्षीति मध्यमाभ्यां नमः । ॐ कैवल्यज्ञानसाधन इति अनामिकाभ्यां नमः । ॐ कौस्तुभोद्भासितोरस्क इति कनिष्ठकाभ्यां नमः । ॐ कन्दर्पज्वरनाशन इति करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । ॐ कालात्मेति हृदयाय नमः । ॐ कीर्तिवर्धन इति शिरसे स्वाहा । ॐ कूटस्थसाक्षीति शिखायै वषट् । ॐ कैवल्यज्ञानसाधन इति कवचाय हुम् । ॐ कौस्तुभोद्भासितोरस्क इति नेत्रत्रयाय वौषट् । ॐ कन्दर्पज्वरनाशन इत्यस्त्राय फट् । अथ ध्यानम् । वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् । कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥ ६२॥ श्रीकृष्ण उवाच- ॐ कृष्णः कृष्णात्मकः कृष्णस्वरूपः कृष्णनामधृत् । कृष्णाङ्गः कृष्णदैवत्यः कृष्णारक्तविलोचनः ॥ ६३॥ कृष्णाश्रयः कृष्णवर्त्त्मा कृष्णालक्ताभिरक्षकः । कृष्णेशप्रीतिजनकः कृष्णेशप्रियकारकः ॥ ६४॥ कृष्णेशारिष्टसंहर्ता कृष्णेशप्राणवल्लभः । कृष्णेशानन्दजनकः कृष्णेशायुर्विवर्द्धनः ॥ ६५॥ कृष्णेशारिसमूहघ्नः कृष्णेशाभीष्टसिद्धिदः । कृष्णाधीशः कृष्णकेशः कृष्णानन्दविवर्द्धनः ॥ ६६॥ कृष्णागरुसुगन्धाढ्यः कृष्णागरुसुगन्धवित् । कृष्णागरुविवेकज्ञः कृष्णागरुविलेपनः ॥ ६७॥ कृतज्ञः कृतकृत्यात्मा कृपासिन्धुः कृपाकरः । कृष्णानन्दैकवरदः कृष्णानन्दपदाश्रयः ॥ ६८॥ कमलावल्लभाकारः कलिघ्नः कमलापतिः । कमलानन्दसम्पन्नः कमलासेविताकृतिः ॥ ६९॥ कमलामानसोल्लासी कमलामानदायकः । कमलालङ्कृताकारः कमलाश्रितविग्रहः ॥ ७०॥ कमलामुखपद्मार्कः कमलाकरपूजितः । कमलाकरमध्यस्थः कमलाकरतोषितः ॥ ७१॥ कमलाकरसंसेव्यः कमलाकरभूषितः । कमलाकरभावज्ञः कमलाकरसंयुतः ॥ ७२॥ कमलाकरपार्श्वस्थः कमलाकररूपवान् । कमलाकरशोभाढ्यः कमलाकरपङ्कजः ॥ ७३॥ कमलाकरपापघ्नः कमलाकरपुष्टिकृत् । कमलारूपसौभाग्यवर्द्धनः कमलेक्षणः ॥ ७४॥ कमलाकलिताङ्घ्र्यब्जः कमलाकलिताकृतिः । कमलाहृदयानन्दवर्द्धनः कमलाप्रियः ॥ ७५॥ कमलाचलचित्तात्मा कमलालङ्कृताकृतिः । कमलाचलभावज्ञः कमलालिङ्गिताकृतिः ॥ ७६॥ कमलामलनेत्रश्रीः कमलाचलमानसः । कमलापरमानन्दवर्द्धनः कमलाननः ॥ ७७॥ कमलानन्दसौभाग्यवर्द्धनः कमलाश्रयः । कमलाविलसत्पाणिः कमलामललोचनः ॥ ७८॥ कमलामलभालश्रीः कमलाकरपल्लवः । कमलेशः कमलभूः कमलानन्ददायकः ॥ ७९॥ कमलोद्भवभीतिघ्नः कमलोद्भवसंस्तुतः । कमलाकरपाशाढ्यः कमलोद्भवपालकः ॥ ८०॥ कमलासनसंसेव्यः कमलासनसंस्थितः । कमलासनरोगघ्नः कमलासनपापहा ॥ ८१॥ कमलोदरमध्यस्थः कमलोदरदीपनः । कमलोदरसम्पन्नः कमलोदरसुन्दरः ॥ ८२॥ कनकालङ्कृताकारः कनकालङ्कृताम्बरः । कनकालङ्कृतागारः कनकालङ्कृतासनः ॥ ८३॥ कनकालङ्कृतास्यश्रीः कनकालङ्कृतास्पदः । कनकालङ्कृताङ्घ्र्यब्जः कनकालङ्कृतोदरः ॥ ८४॥ कनकाम्बरशोभाढ्यः कनकाम्बरभूषणः । कनकोत्तमभालश्रीः कनकोत्तमरूपधृक् ॥ ८५॥ कनकागारमध्यस्थः कनकागारकारकः । कनकाचलमध्यस्थः कनकाचलपालकः ॥ ८६॥ कनकाचलशोभाढ्यः कनकाचलभूषणः । कनकैकप्रजाकर्ता कनकैकप्रदायकः ॥ ८७॥ कलाननः कलरवः कलस्त्रीपरिवेष्टितः । कलहंसपरित्राता कलहंसपराक्रमः ॥ ८८॥ कलहंससमानश्रीः कलहंसप्रियङ्करः । कलहंसस्वभावस्थः कलहंसैकमानसः ॥ ८९॥ कलहंससमारूढः कलहंससमप्रभः । कलहंसविवेकज्ञः कलहंसगतिप्रदः ॥ ९०॥ कलहंसपरित्राता कलहंससुखास्पदः । कलहंसकुलाधीशः कलहंसकुलास्पदः ॥ ९१॥ कलहंसकुलाधारः कलहंसकुलेश्वरः । कलहंसकुलाचारी कलहंसकुलप्रियः ॥ ९२॥ कलहंसकुलत्राता कलहंसकुलात्मकः । कवीशः कविभावस्थः कविनाथः कविप्रियः ॥ ९३॥ कविमानसहंसात्मा कविवंशविभूषणः । कविनायकसंसेव्यः कविनायकपालकः ॥ ९४॥ कविवंशैकवरदः कविवंशशिरोमणिः । कविवंशविवेकज्ञः कविवंशप्रबोधकः ॥ ९५॥ कविवंशपरित्राता कविवंशप्रभाववित् । कवित्वामृतसंसिद्धः कवित्वामृतसागरः ॥ ९६॥ कवित्वाकारसंयुक्तः कवित्वाकारपालकः । कवित्वाद्वैतभावस्थः कवित्वाश्रयकारकः ॥ ९७॥ कवीन्द्रहृदयानन्दी कवीन्द्रहृदयास्पदः । कवीण्द्रहृदयान्तःस्थः कवीन्द्रज्ञानदायकः ॥ ९८॥ कवीन्द्रहृदयाम्भोजप्रकाशैकदिवाकरः । कवीन्द्रहृदयाम्भोजाह्लादनैकनिशाकरः ॥ ९९॥ कवीन्द्रहृदयाब्जस्थः कवीन्द्रप्रतिबोधकः । कवीन्द्रानन्दजनकः कवीन्द्राश्रितपङ्कजः ॥ १००॥ कविशब्दैकवरदः कविशब्दैकदोहनः । कविशब्दैकभावस्थः कविशब्दैककारणः ॥ १०१॥ कविशब्दैकसंस्तुत्यः कविशब्दैकभूषणः । कविशब्दैकरसिकः कविशब्दविवेकवित् ॥ १०२॥ कवित्वब्रह्मविख्यातः कवित्वब्रह्मगोचरः । कविवाणीविवेकज्ञः कविवाणीविभूषणः ॥ १०३॥ कविवाणीसुधास्वादी कविवाणीसुधाकरः । कविवाणीविवेकस्थः कविवाणीविवेकवित् ॥ १०४॥ कविवाणीपरित्राता कविवाणीविलासवान् । कविशक्तिप्रदाता च कविशक्तिप्रवर्तकः ॥ १०५॥ कविशक्तिसमूहस्थः कविशक्तिकलानिधिः । कलाकोटिसमायुक्तः कलाकोटिसमावृतः ॥ १०६॥ कलाकोटिप्रकाशस्थः कलाकोटिप्रवर्तकः । कलानिधिसमाकारः कलानिधिसमन्वितः ॥ १०७॥ कलाकोटिपरित्राता कलाकोटिप्रवर्धनः । कलानिधिसुधास्वादी कलानिधिसमाश्रितः ॥ १०८॥ कलङ्करहिताकारः कलङ्करहितास्पदः । कलङ्करहितानन्दः कलङ्करहितात्मकः ॥ १०९॥ कलङ्करहिताभासः कलङ्करहितोदयः । कलङ्करहितोद्देशः कलङ्करहिताननः ॥ ११०॥ कलङ्करहितश्रीशः कलङ्करहितस्तुतिः । कलङ्करहितोत्साहः कलङ्करहितप्रियः ॥ १११॥ कलङ्करहितोच्चारः कलङ्करहितेन्दिरयः । कलङ्करहिताकारः कलङ्करहितोत्सवः ॥ ११२॥ कलङ्काङ्कितदुष्टघ्नः कलङ्काङ्कितधर्महा । कलङ्काङ्कितकर्मारिः कलङ्काङ्कितमार्गहृत् ॥ ११३॥ कलङ्काङ्कितदुर्द्दर्शः कलङ्काङ्कितदुःसहः । कलङ्काङ्कितदूरस्थः कलङ्काङ्कितदूषणः ॥ ११४॥ कलहोत्पत्तिसंहर्ता कलहोत्पत्तिकृद्रिपुः । कलहातीतधामस्थः कलहातीतनायकः ॥ ११५॥ कलहातीततत्त्वज्ञः कलहातीतवैभवः । कलहातीतभावस्थः कलहातीतसत्तमः ॥ ११६॥ कलिकालबलातीतः कलिकालविलोपकः । कलिकालैकसंहर्ता कलिकालैकदूषणः ॥ ११७॥ कलिकालकुलध्वंसी कलिकालकुलापहः । कलिकालभयच्छेत्ता कलिकालमदापहः ॥ ११८॥ कलिक्लेशविनिर्मुक्तः कलिक्लेशविनाशनः । कलिग्रस्तजनत्राता कलिग्रस्तनिजार्तिहा ॥ ११९॥ कलिग्रस्तजगन्मित्रः कलिग्रस्तजगत्पतिः । कलिग्रस्तजगत्त्राता कलिपाशविनाशनः ॥ १२०॥ कलिमुक्तिप्रादाता कः कलिमुक्तकलेवरः । कलिमुक्तमनोवृत्तिः कलिमुक्तमहामतिः ॥ १२१॥ कलिकालमतातीतः कलिधर्मविलोपकः । कलिधर्माधिपध्वंसी कलिधर्मैकखण्डनः ॥ १२२॥ कलिधर्माधिपालक्ष्यः कलिकालविकारहा । कलिकर्मकथातीतः कलिकर्मकथारिपुः ॥ १२३॥ कलिकष्टैकशमनः कलिकष्टविवर्ज्जितः । कलिघ्नः कलिधर्मघ्नः कलिधर्माधिकारिहा ॥ १२४॥ कर्मवित्कर्मकृत्कर्मी कर्मकाण्डैकदोहनः । कर्मस्थः कर्मजनकः कर्मिष्ठः कर्मसाधनः ॥ १२५॥ कर्मकर्ता कर्मभर्ता कर्महर्ता च कर्मजित् । कर्मजातजगत्त्राता कर्मजातजगत्पतिः ॥ १२६॥ कर्मजातजगन्मित्रः कर्मजातजगद्गुरुः । कर्मभूतभवच्छात्रः कर्मभूतभवातिहा ॥ १२७॥ कर्मकाण्डपरिज्ञाता कर्मकाण्डप्रवर्त्तकः । कर्मकाण्डपरित्राता कर्मकाण्डप्रमाणकृत् ॥ १२८॥ कर्मकाण्डविवेकज्ञः कर्मकाण्डप्रकारकः । कर्मकाण्डविवेकस्थः कर्मकाण्डैकदोहनः ॥ १२९॥ कर्मकाण्डरताभीष्टप्रदाता कर्मतत्परः । कर्मबद्धजगत्त्राता कर्मबद्धजगद्गुरुः ॥ १३०॥ कर्मबन्धार्तिशमनः कर्मबन्धविमोचनः । कर्मिष्ठद्विजवर्यस्थः कर्मिष्ठद्विजवल्लभः ॥ १३१॥ कर्मिष्ठद्विजजीवात्मा कर्मिष्ठद्विजजीवनः । कर्मिष्ठद्विजभावज्ञः कर्मिष्ठद्विजपालकः ॥ १३२॥ कर्मिष्ठद्विजजातिस्थः कर्मिष्ठद्विजकामदः । कर्मिष्ठद्विजसंसेव्यः कर्मिष्ठद्विजपापहा ॥ १३३॥ कर्मिष्ठद्विजबुद्धिस्थः कर्मिष्ठद्विजबोधकः । कर्मिष्ठद्विजभीतिघ्नः कर्मिष्ठद्विजमुक्तिदः ॥ १३४॥ कर्मिष्ठद्विजदोषघ्नः कर्मिष्ठद्विजकामधुक् । कर्मिष्ठद्विजसम्पूज्यः कर्मिष्ठद्विजतारकः ॥ १३५॥ कर्मिष्ठारिष्टसंहर्ता कर्मिष्ठाभीष्टसिद्धिदः । कर्मिष्ठादृष्टमध्यस्थः कर्मिष्ठादृष्टवर्धनः ॥ १३६॥ कर्ममूलजगद्धेतुः कर्ममूलनिकन्दनः । कर्मबीजपरित्राता कर्मबीजविवर्द्धनः ॥ १३७॥ कर्मद्रुमफलाधीशः कर्मद्रुमफलप्रदः । कस्तूरीद्रवलिप्ताङ्गः कस्तूरीद्रववल्लभः ॥ १३८॥ कस्तूरीसौरभग्राही कस्तूरीमृगवल्लभः । कस्तूरीतिलकानन्दी कस्तूरीतिलकप्रियः ॥ १३९॥ कस्तूरीतिलकाश्लेषी कस्तूरीतिलकाङ्कितः । कस्तूरीवासनालीनः कस्तूरीवासनाप्रियः ॥ १४०॥ कस्तूरीवासनारूपः कस्तूरीवासनात्मकः । कस्तूरीवासनान्तःस्थः कस्तूरीवासनास्पदः ॥ १४१॥ कस्तूरीचन्दनग्राही कस्तूरीचन्दनार्चितः । कस्तूरीचन्दनागारः कस्तूरीचन्दनान्वितः ॥ १४२॥ कस्तूरीचन्दनाकारः कस्तूरीचन्दनासनः । कस्तूरीचर्चितोरस्कः कस्तूरीचर्विताननः ॥ १४३॥ कस्तूरीचर्वितश्रीशः कस्तूरीचर्चिताम्बरः । कस्तूरीचर्चितास्यश्रीः कस्तूरीचर्चितप्रियः ॥ १४४॥ कस्तूरीमोदमुदितः कस्तूरीमोदवर्द्धनः । कस्तूरीमोददीप्ताङ्गः कस्तूरीसुन्दराकृतिः ॥ १४५॥ कस्तूरीमोदरसिकः कस्तूरीमोदलोलुपः । कस्तूरीपरमानन्दी कस्तूरीपरमेश्वरः ॥ १४६॥ कस्तूरीदानसन्तुष्टः कस्तूरीदानवल्लभः । कस्तूरीपरमाह्लादः कस्तूरीपुष्टिवर्द्धनः ॥ १४७॥ कस्तूरीमुदितात्मा च कस्तूरीमुदिताशयः । कदलीवनमध्यस्थः कदलीवनपालकः ॥ १४८॥ कदलीवनसञ्चारी कदलीवनवल्लभः । कदलीदर्शनानन्दी कदलीदर्शनोत्सुकः ॥ १४९॥ कदलीपल्लवास्वादी कदलीपल्लवाश्रयः । कदलीफलसन्तुष्टः कदलीफलदायकः ॥ १५०॥ कदलीफलसम्पुष्टः कदलीफलभोजनः । कदलीफलवर्याशी कदलीफलतोषितः ॥ १५१॥ कदलीफलमाधुर्यवल्लभः कदलीप्रियः । कपिध्वजसमायुक्तः कपिध्वजपरिस्तुतः ॥ १५२॥ कपिध्वजपरित्राता कपिध्वजसमाश्रितः । कपिध्वजपदान्तस्थः कपिध्वजजयप्रदः ॥ १५३॥ कपिध्वजरथारूढः कपिध्वजयशःप्रदः । कपिध्वजैकपापघ्नः कपिध्वजसुखप्रदः ॥ १५४॥ कपिध्वजारिसंहर्ता कपिध्वजभयापहः । कपिध्वजमनोऽभिज्ञः कपिध्वजमतिप्रदः ॥ १५५॥ कपिध्वजसुहृन्मित्रः कपिध्वजसुहृत्सखः । कपिध्वजाङ्गनाराध्यः कपिध्वजगतिप्रदः ॥ १५६॥ कपिध्वजाङ्गनारिघ्नः कपिध्वजरतिप्रदः । कपिध्वजकुलत्राता कपिध्वजकुलारिहा ॥ १५७॥ कपिध्वजकुलाधीशः कपिध्वजकुलप्रियः । कपीन्द्रसेविताङ्घ्र्यब्जः कपीन्द्रस्तुतिवल्लभः ॥ १५८॥ कपीन्द्रानन्दजनकः कपीन्द्राश्रितविग्रहः । कपीन्द्राश्रितपादाब्जः कपीन्द्राश्रितमानसः ॥ १५९॥ कपीन्द्राराधिताकारः कपीन्द्राभीष्टसिद्धिदः । कपीन्द्रारातिसंहर्ता कपीन्द्रातिबलप्रदः ॥ १६०॥ कपीन्द्रैकपरित्राता कपीन्द्रैकयशःप्रदः ॥ १६१॥ कपीन्द्रानन्दसम्पन्नः कपीन्द्रानन्दवर्द्धनः । कपीन्द्रध्यानगम्यात्मा कपीन्द्रज्ञानदायकः ॥ १६२॥ कल्याणमङ्गलाकारः कल्याणमङ्गलास्पदः । कल्याणमङ्गलाधीशः कल्याणमङ्गलप्रदः ॥ १६३॥ कल्याणमङ्गलागारः कल्याणमङ्गलात्मकः । कल्याणानन्दसपन्नः कल्याणानन्दवर्धनः ॥ १६४॥ कल्याणानन्दसहितः कल्याणानन्ददायकः ॥ १६५॥ कल्याणानन्दसन्तुष्टः कल्याणानन्दसंयुतः । कल्याणीरागसङ्गीतः कल्याणीरागवल्लभः ॥ १६६॥ कल्याणीरागरसिकः कल्याणीरागकारकः । कल्याणीकेलिकुशलः कल्याणीप्रियदर्शनः ॥ १६७॥ कल्पशास्त्रपरिज्ञाता कल्पशास्त्रार्थदोहनः । कल्पशास्त्रसमुद्धर्ता कल्पशास्त्रपरिस्तुतः ॥ १६८॥ कल्पकोटिशतातीतः कल्पकोटिशतोत्तरः । कल्पकोटिशतज्ञानी कल्पकोटिशतप्रभुः ॥ १६९॥ कल्पवृक्षसमाकारः कल्पवृक्षसमप्रभः । कल्पवृक्षसमोदारः कल्पवृक्षसमस्थितः ॥ १७०॥ कल्पवृक्षपरित्राता कल्पवृक्षसमावृतः । कल्पवृक्षवनाधीशः कल्पवृक्षवनास्पदः ॥ १७१॥ कल्पान्तदहनाकारः कल्पान्तदहनोपमः । कल्पान्तकालशमनः कल्पान्तातीतविग्रहः ॥ १७२॥ कलशोद्भवसंसेव्यः कलशोद्भववल्लभः । कलशोद्भवभीतिघ्नः कलशोद्भवसिद्धिदः ॥ १७३॥ कपिलः कपिलाकारः कपिलप्रियदर्शनः । कर्द्दमात्मजभावस्थः कर्द्दमप्रियकारकः ॥ १७४॥ कन्यकानीकवरदः कन्यकानीकवल्लभः । कन्यकानीकसंस्तुत्यः कन्यकानीकनायकः ॥ १७५॥ कन्यादानप्रदत्राता कन्यादानप्रदप्रियः । कन्यादानप्रभावज्ञः कन्यादानप्रदायकः ॥ १७६॥ कश्यपात्मजभावस्थः कश्यपात्मजभास्करः । कश्यपात्मजशत्रुघ्नः कश्यपात्मजपालकः ॥ १७७॥ कश्यपात्मजमध्यस्थः कश्यपात्मजवल्लभः । कश्यपात्मजभीतिघ्नः कश्यपात्मजदुर्लभः ॥ १७८॥ कश्यपात्मजभावस्थः कश्यपात्मजभाववित् । कश्यपोद्भवदैत्यारिः कश्यपोद्भवदेवराट् ॥ १७९॥ कश्पयानन्दजनकः कश्यपानन्दवर्द्धनः । कश्यपारिष्टसंहर्ता कश्यपाभीष्टसिद्धिदः ॥ १८०॥ कर्तृकर्मक्रियातीतः कर्तृकर्मक्रियान्वयः । कर्तृकर्मक्रियालक्ष्यः कर्तृकर्मक्रियास्पदः ॥ १८१॥ कर्तृकर्मक्रियाधीशः कर्तृकर्मक्रियात्मकः । कर्तृकर्मक्रियाभासः कर्तृकर्मक्रियाप्रदः ॥ १८२॥ कृपानाथः कृपासिन्धुः कृपाधीशः कृपाकरः । कृपासागरमध्यस्थः कृपापात्रः कृपानिधिः ॥ १८३॥ कृपापात्रैकवरदः कृपापात्रभयापहः । कृपाकटाक्षपापघ्नः कृतकृत्यः कृतान्तकः ॥ १८४॥ कदम्बवनमध्यस्थः कदम्बकुसुमप्रियः । कदम्बवनसञ्चारी कदम्बवनवल्लभः ॥ १८५॥ कर्पूरामोदमुदितः कर्पूरामोदवल्लभः । कर्पूरवासनासक्तः कर्पूरागरुचर्चितः ॥ १८६॥ करुणारसंसम्पूर्णः करुणारसवर्धनः । करुणाकरविख्यातः करुणाकरसागरः ॥ १८७॥ कालात्मा कालजनकः कालाग्निः कालसंज्ञकः । कालः कालकलातीतः कालस्थः कालभैरवः ॥ १८८॥ कालज्ञः कालसंहर्ता कालचक्रप्रवर्तकः । कालरूपः कालनाथः कालकृत्कालिकाप्रियः ॥ १८९॥ कालैकवरदः कालः कारणः कालरूपभाक् । कालमायाकलातीतः कालमायाप्रवर्तकः ॥ १९०॥ कालमायाविनिर्मुक्तः कालमायाबलापहः । कालत्रयगतिज्ञाता कालत्रयपराक्रमः ॥ १९१॥ कालज्ञानकलातीतः कालज्ञानप्रदायकः । कालज्ञः कालरहितः कालाननसमप्रभः ॥ १९२॥ कालचक्रैक हेतुस्थः कालरात्रिदुरत्ययः । कालपाशविनिर्मुक्तः कालपाशविमोचनः ॥ १९३॥ कालव्यालैकदलनः कालव्यालभयापहः । कालकर्मकलातीतः कालकर्मकलाश्रयः ॥ १९४॥ कालकर्मकलाधीशः कालकर्मकलात्मकः । कालव्यालपरिग्रस्तनिजभक्तैकमोचनः ॥ १९५॥ काशिराजशिरश्छेत्ता काशीशप्रियकारकः । काशीस्थार्तिहरः काशीमध्यस्थः काशिकाप्रियः ॥ १९६॥ काशीवासिजनानन्दी काशीवासिजनप्रियः । काशीवासिजनत्राता काशीवासिजनस्तुतः ॥ १९७॥ काशीवासिविकारघ्नः काशीवासिविमोचनः । काशीवासिजनोद्धर्ता काशीवासकुलप्रदः ॥ १९८॥ काशीवास्याश्रिताङ्घ्र्यब्जः काशीवासिसुखप्रदः । काशीस्थाभीष्टफलदः काशीस्थारिष्टनाशनः ॥ १९९॥ काशीस्थद्विजसंसेव्यः काशीस्थद्विजपालकः । काशीस्थद्विजसद्बुद्धिप्रदाता काशिकाश्रयः ॥ २००॥ कान्तीशः कान्तिदः कान्तः कान्तारप्रियदर्शनः । कान्तिमान्कान्तिजनकः कान्तिस्थः कान्तिवर्धनः ॥ २०१॥ कालागरुसुगन्धाढ्यः कालागरुविलेपनः । कालागरुसुगन्धज्ञः कालागरुसुगन्धकृत् ॥ २०२॥ कापट्यपटलच्छेत्ता कायस्थः कायवर्धनः । कायभाग्भयभीतिघ्नः कायरोगापहारकः ॥ २०३॥ कार्यकारणकर्तृस्थः कार्यकारणकारकः । कार्यकारणसम्पन्नः कार्यकारणसिद्धिदः ॥ २०४॥ काव्यामृतरसास्वादी काव्यामृतरसात्मकः । काव्यामृतरसाभिज्ञः कार्यामृतरसप्रियः ॥ २०५॥ कादिवर्णैकजनकः कादिवर्णप्रवर्तकः । कादिवर्णविवेकज्ञः कादिवर्णविनोदवान् ॥ २०६॥ कादिहादिमनुज्ञाता कादिहादिमनुप्रियः । कादिहादिमनूद्धारकारकः कादिसंज्ञकः ॥ २०७॥ कालुष्यरहिताकारः कालुष्यैकविनाशनः । कारागृहविमुक्तात्मा कारागृहविमोचनः ॥ २०८॥ कामात्मा कामदः कामी कामेशः कामपूरकः । कामहृत्कामजनकः कामिकामप्रदायकः ॥ २०९॥ कामपालः कामभर्ता कामकेलिकलानिधिः । कामकेलिकलासक्तः कामकेलिकलाप्रियः ॥ २१०॥ कामबीजैकवरदः कामबीजसमन्वितः । कामजित्कामवरदः कामक्रीडातिलालसः ॥ २११॥ कामार्तिशमनः कामालङ्कृतः कामसंस्तुतः । कामिनीकामजनकः कामिनीकामवर्धनः ॥ २१२॥ कामिनीकामरसिकः कामिनीकामपूरकः । कामिनीमानदः कामकलाकौतूहलप्रियः ॥ २१३॥ कामिनीप्रेमजनकः कामिनीप्रेमवर्धनः । कामिनीहावभावज्ञः कामिनीप्रीतिवर्धनः ॥ २१४॥ कामिनीरूपरसिकः कामिनीरूपभूषणः । कामिनीमानसोल्लासी कामिनीमानसास्पदः ॥ २१५॥ कामिभक्तजनत्राता कामिभक्तजनप्रियः । कामेश्वरः कामदेवः कामबीजैकजीवनः ॥ २१६॥ कालिन्दीविषसंहर्ता कालिन्दीप्राणजीवनः । कालिन्दीहृदयानन्दी कालिन्दीनीरवल्लभः ॥ २१६॥ कालिन्दीकेलिकुशलः कालिन्दीप्रीतिवर्धनः । कालिन्दीकेलिरसिकः कालिन्दीकेलिलालसः ॥ २१८॥ कालिन्दीनीरसङ्खेलद्गोपीयूथसमावृतः । कालिन्दीनीरमध्यस्थः कालिन्दीनीरकेलिकृत् ॥ २१९॥ कालिन्दीरमणासक्तः कालिनागमदापहः । कामधेनुपरित्राता कामधेनुसमावृतः ॥ २२०॥ काञ्चनाद्रिसमानश्रीः काञ्चनाद्रिनिवासकृत् । काञ्चनाभूषणासक्तः काञ्चनैकविवर्धनः ॥ २२१॥ काञ्चनाभश्रियासक्तः काञ्चनाभश्रियाश्रितः । कार्तिकेयैकवरदः कार्तवीर्यमदापहः ॥ २२२॥ किशोरीनायिकासक्तः किशोरीनायिकाप्रियः । किशोरीकेलिकुशलः किशोरीप्राणजीवनः ॥ २२३॥ किशोरीवल्लभाकारः किशोरीप्राणवल्लभः । किशोरीप्रीतिजनकः किशोरीप्रियदर्शनः ॥ २२४॥ किशोरीकेलिसंसक्तः किशोरीकेलिवल्लभः । किशोरीकेलिसंयुक्तः किशोरीकेलिलोलुपः ॥ २२५॥ किशोरीहृदयानन्दी किशोरीहृदयास्पदः । किशोरीशः किशोरात्मा किशोरः किंशुकाकृतिः ॥ २२६॥ किंशुकाभरणालक्ष्यः किंशुकाभरणान्वितः । कीर्तिमान्कीर्तिजनकः कीर्तनीयपराक्रमः ॥ २२७॥ कीर्तनीययशोराशिः कीर्तिस्थः कीर्तनप्रियः । कीर्तिश्रीमतिदः कीशः कीर्तिज्ञः कीर्तिवर्धनः ॥ २२८॥ क्रियात्मकः क्रियाधारः किर्याभासः क्रियास्पदः । कीलालामलचिद्वृत्तिः कीलालाश्रयकारणः ॥ २२९॥ कुलधर्माधिपाधीशः कुलधर्माधिपप्रियः । कुलधर्मपरित्राता कुलधर्मपतिस्तुतः ॥ २३०॥ कुलधर्मपदाधारः कुलधर्मपदाश्रयः । कुलधर्मपतिप्राणः कुलधर्मपतिप्रियः ॥ २३१॥ कुलधर्मपतित्राता कुलधर्मैकरक्षकः । कुलधर्मसमासक्तः कुलधर्मैकदोहनः ॥ २३२॥ कुलधर्मसमुद्धर्ता कुलधर्मप्रभाववित् । कुलधर्मसमाराध्यः कुलधर्मधुरन्धरः ॥ २३३॥ कुलमार्गरतासक्तः कुलमार्गरताश्रयः । कुलमार्गसमासीनः कुलमार्गसमुत्सुकः ॥ २३४॥ कुलधर्माधिकारस्थः कुलधर्मविवर्धनः । कुलाचारविचारज्ञः कुलाचारसमाश्रितः ॥ २३५॥ कुलाचारसमायुक्तः कुलाचारसुखप्रदः । कुलाचारातिचतुरः कुलाचारातिवल्लभः ॥ २३६॥ कुलाचारपवित्राङ्गः कुलाचारप्रमाणकृत् । कुलवृक्षैकजनकः कुलवृक्षविवर्धनः ॥ २३७॥ कुलवृक्षपरित्राता कुलवृक्षफलप्रदः । कुलवृक्षफलाधीशः कुलवृक्षफलाशनः ॥ २३८॥ कुलमार्गकलाभिज्ञः कुलमार्गकलान्वितः । कुकर्मनिरतातीतः कुकर्मनिरतान्तकः ॥ २३९॥ कुकर्ममार्गरहितः कुकर्मैकनिषूदनः । कुकर्मरहिताधीशः कुकर्मरहितात्मकः ॥ २४०॥ कुकर्मरहिताकारः कुकर्मरहितास्पदः । कुकर्मरहिताचारः कुकर्मरहितोत्सवः ॥ २४१॥ कुकर्मरहितोद्देशः कुकर्मरहितप्रियः । कुकर्मरहितान्तस्थः कुकर्मरहितेश्वरः ॥ २४२॥ कुकर्मरहितस्त्रीशः कुकर्मरहितप्रजः । कुकर्मोद्भवपापघ्नः कुकर्मोद्भवदुःखहा ॥ २४३॥ कुतर्करहिताधीशः कुतर्करहिताकृतिः । कूटस्थसाक्षी कूटात्मा कूटस्थाक्षरनायकः ॥ २४४॥ कूटस्थाक्षरसंसेव्यः कूटस्थाक्षरकारणः । कुबेरबन्धुः कुशलः कुम्भकर्णविनाशनः ॥ २४५॥ कूर्माकृतिधरः कूर्मः कूर्मस्थावनिपालकः । कुमारीवरदः कुस्थः कुमारीगणसेवितः ॥ २४६॥ कुशस्थलीसमासीनः कुशदैत्यविनाशनः । केशवः क्लेशसंहर्ता केशिदैत्यविनाशनः ॥ २४७॥ क्लेशहीनमनोवृत्तिः क्लेशहीनपरिग्रहः । क्लेशातीतपदाधीशः क्लेशातीतजनप्रियः ॥ २४८॥ क्लेशातीतशुभाकारः क्लेशातीतसुखास्पदः । क्लेशातीतसमाजस्थः क्लेशातीतमहामतिः ॥ २४९॥ क्लेशातीतजनत्राता क्लेशहीनजनेश्वरः । क्लेशहीनस्वधर्मस्थः क्लेशहीनविमुक्तिदः ॥ २५०॥ क्लेशहीननराधीशःक्लेशहीननरोत्तमः । क्लेशातिरिक्तसदनः क्लेशमूलनिकन्दनः ॥ २५१॥ क्लेशातिरिक्तभावस्थः क्लेशहीनैकवल्लभः । क्लेशहीनपदान्तस्थः क्लेशहीनजनार्द्दनः ॥ २५२॥ केसराङ्कितभालश्रीः केसराङ्कितवल्लभः । केसरालिप्तहृदयः केसरालिप्तसद्भुजः ॥ २५३॥ केसराङ्कितवासश्रीः केसराङ्कितविग्रहः । केसराकृतिगोपीशः केसरामोदवल्लभः ॥ २५४॥ केसरामोदमधुपः केसरामोदसुन्दरः । केसरामोदमुदितः केसरामोदवर्धनः ॥ २५५॥ केसरार्चितभालश्रीः केसरार्चितविग्रहः । केसरार्चितपादाब्जः केसरार्चितकुण्डलः ॥ २५६॥ केसरामोदसम्पन्नः केसरामोदलोलुपः । केतकीकुसुमासक्तःकेतकीकुसुमप्रियः ॥ २५७॥ केतकीकुसुमाधीशःकेतकीकुसुमाङ्कितः । केतकीकुसुमामोदवर्धनः केतकीप्रियः ॥ २५८॥ केतकीशोभिताकारः केतकीशोभिताम्बरः । केतकीकुसुमामोदवल्लभः केतकीश्वरः ॥ २५९॥ केतकीसौरभानन्दी केतकीसौरभप्रियः । केयूरालङ्कृतभुजः केयूरालङ्कृतात्मकः ॥ २६०॥ केयूरालङ्कृतश्रीशःकेयूरप्रियदर्शनः । केदारेश्वरसंयुक्तः केदारेश्वरवल्लभः ॥ २६१॥ केदारेश्वरपार्श्वस्थः केदारेश्वरभक्तपः । केदारकल्पसारज्ञः केदारस्थलवासकृत् ॥ २६२॥ केदाराश्रितभीतिघ्नः केदाराश्रितमुक्तिदः । केदारावासिवरदः केदाराश्रितदुःखहा ॥ २६३॥ केदारपोषकः केशः केदारान्नविवर्द्धनः । केदारपुष्टिजनकः केदारप्रियदर्शनः ॥ २६४॥ कैलासेशसमाजस्थः कैलासेशप्रियङ्करः । कैलासेशसमायुक्तः कैलासेशप्रभाववित् ॥ २६५॥ कैलासाधीशत्रुघ्नः कैलासपतितोषकः । कैलासाधीशसहितः कैलासाधीशवल्लभः ॥ २६६॥ कैवल्यमुक्तिजनकः कैवल्यपदवीश्वरः । कैवल्यपदवीत्राता कैवल्यपदवीप्रियः ॥ २६७॥ कैवल्यज्ञानसम्पन्नः कैवल्यज्ञानसाधनः । कैवल्यज्ञानगम्यात्मा कैवल्यज्ञानदायकः ॥ २६८॥ कैवल्यज्ञानसंसिद्धः कैवल्यज्ञानदीपकः । कैवल्यज्ञानविख्यातः कैवल्यैकप्रदायकः ॥ २६९॥ क्रोधलोभभयातीतः क्रोधलोभविनाशनः । क्रोधारिः क्रोधहीनात्मा क्रोधहीनजनप्रियः ॥ २७०॥ क्रोधहीनजनाधीशः क्रोधहीनप्रजेश्वरः । कोपतापोपशमनः कोपहीनवरप्रदः ॥ २७१॥ कोपहीननरत्राता कोपहीनजनाधिपः । कोपहीननरान्तःस्थः कोपहीनप्रजापतिः ॥ २७२॥ कोपहीनप्रियासक्तः कोपहीनजनार्तिहा । कोपहीनपदाधीशः कोपहीनपदप्रदः ॥ २७३॥ कोपहीननरस्वामी कोपहीनस्वरूपधृक् । कोकिलालापसङ्गीतः कोकिलालापवल्लभः ॥ २७४॥ कोकिलालापलीनात्मा कोकिलालापकारकः । कोकिलालापकान्तेशः कोकिलालापभाववित् ॥ २७५॥ कोकिलागानरसिकः कोकिलावरवल्लभः । कोटिसूर्यसमानश्रीः कोटिचन्द्रामृतात्मकः ॥ २७६॥ कोटिदानवसंहर्ता कोटिकन्दर्पदर्पहा । कोटिदेवेन्द्रसंसेव्यः कोटिब्रह्मार्चिताकृतिः ॥ २७७॥ कोटिब्रह्माण्डमध्यस्थः कोटिविद्युत्समद्युतिः । कोट्यश्वमेधपापघ्नः कोटिकामेश्वराकृतिः ॥ २७८॥ कोटिमेघसमोदारः कोटिवह्निसुदुःसहः । कोटिपाथोधिगम्भीरः कोटिमेरुसमस्थिरः ॥ २७९॥ कोटिगोपीजनाधीशः कोटिगोपाङ्गनावृतः । कोटिदैत्येशदप्रघ्नः कोटिरुद्रपराकर्मः ॥ २८०॥ कोटिभक्तार्तिशमनः कोटिदुष्टविमर्दनः । कोटिभक्तजनोद्धर्ता कोटियज्ञफलप्रदः ॥ २८१॥ कोटिदेवर्षिसंसेव्यः कोटिब्रह्मर्षिमुक्तिदः । कोटिराजर्षिसंस्तुत्यः कोटिब्रह्माण्डमण्डनः ॥ २८२॥ कोट्याकाशप्रकाशात्मा कोटिवायुमहाबलः । कोटितेजोमयाकारः कोटिभूमिसमक्षमी ॥ २८३॥ कोटिनीरसमस्वच्छः कोटिदिग्ज्ञानदायकः । कोटिब्रह्माण्डजनकः कोटिब्रह्माण्डपालकः ॥ २८४॥ कोटिब्रह्माण्डसंहर्ता कोटिब्रह्माण्डबोधकः । कोटिवाक्पतिवाचालः कोटिशुक्रकवीश्वरः ॥ २८५॥ कोटिद्विजसमाचारः कोटिहेरम्बविघ्नहा । कोटिमानसहंसात्मा कोटिमानससंस्थितः ॥ २८६॥ कोटिच्छलकरारातिः कोटिदाम्भिकनाशनः । कोटिशून्यपथच्छेत्ता कोटिपाखण्डखण्डनः ॥ २८७॥ कोटिशेषधराधारः कोटिकालप्रबोधकः । कोटिवेदान्तसंवेद्यः कोटिसिद्धान्तनिश्चयः ॥ २८८॥ कोटियोगीश्वराधीशः कोटियोगैकसिद्धिदः । कोटिधामाधिपाधीशः कोटिलोकैकपालकः ॥ २८९॥ कोटियज्ञैकभोक्ता च कोटियज्ञफलप्रदः । कोटिभक्तहृदन्तस्थः कोटिभक्ताभयप्रदः ॥ २९०॥ कोटिजन्मार्तिशमनः कोटिजन्माघनाशनः । कोटिजन्मान्तरज्ञानप्रदाता कोटिभक्तपः ॥ २९१॥ कोटिशक्तिसमायुक्तः कोटिचैतन्यबोधकः । कोटिचक्रावृताकारः कोटिचक्रप्रवर्तकः ॥ २९२॥ कोटिचक्रार्चनत्राता कोटिवीरावलीवृतः । कोटितीर्थजलान्तस्थः कोटितीर्थफलप्रदः ॥ २९३॥ कोमलामलचिद्वृत्तिः कोमलामलमानसः । कौस्तुभोद्भासितोरस्कः कौस्तुभोद्भासिताकृतिः ॥ २९४॥ कौरवानीकसंहर्ता कौरवार्णवकुम्भभूः । कौन्तेयाश्रितपादाब्जः कौन्तेयाभयदायकः ॥ २९५॥ कौन्तेयारातिसंहर्ता कौन्तेयप्रतिपालकः । कौन्तेयानन्दजनकः कौन्तेयप्राणजीवनः ॥ २९६॥ कौन्तेयाचलभावज्ञः कौन्तेयाचलमुक्तिदः । कौमुदीमुदिताकारः कौमुदीमुदिताननः ॥ २९७॥ कौमुदीमुदितप्राणः कौमुदीमुदिताशयः । कौमुदीमोदमुदितः कौमुदीमोदवल्लभः ॥ २९८॥ कौमुदीमोदमधुपः कौमुदीमोदवर्धनः । कौमुदीमोदमानात्मा कौमुदीमोदसुन्दरः ॥ २९९॥ कौमुदीदर्शनानन्दी कौमुदीदर्शनोत्सुकः । कौसल्यापुत्रभावस्थः कौसल्यानन्दवर्धनः ॥ ३००॥ कंसारिः कंसहीनात्मा कंसपक्षनिकन्दनः । कङ्कालः कङ्कवरदः कण्टकक्षयकारकः ॥ ३०१॥ कन्दर्पदर्पशमनः कन्दर्पाभिमनोहरः । कन्दर्पकामनाहीनः कन्दर्पज्वरनाशनः ॥ ३०२॥ कन्दर्पज्वरनाशन ॐ नम इति इति श्रीसर्वसौभाग्यवर्धनं श्रीपतिप्रियम् । नाम्नामक्षरकादीनां सहस्रं परिकीर्तितम् ॥ ३०३॥ सर्वापराधशमनं रहस्यं श्रुतिगोचरम् । कलिकालैकदमनं क्रूरशत्रुनिकन्दनम् ॥ ३०४॥ क्रूरपापसमूहघ्नं क्रूरकर्मविनाशनम् । क्रूरासुरौघसंहारकारकं क्लेशनाशनम् ॥ ३०५॥ कुमार्गदलनं कष्टहरणं कल्मषापहम् । कुबुद्धिशमनं क्रोधकन्दनं कान्तिवर्द्धनम् ॥ ३०६॥ कुविद्यादमनं काममर्दनं कीर्तिदायकम् । कुतर्कनाशनं कान्तं कुपथार्णवशोषणम् ॥ ३०७॥ कोटिजन्मार्जितारिष्टहरं कालभयापहम् । कोटिजन्मार्जिताज्ञाननाशनैकदिवाकरम् ॥ ३०८॥ कापट्यपटलध्वंसिकार्पण्यैकहुताशनम् । कालुष्यभावशमनं कीर्तिश्रीमतिदं सताम् ॥ ३०९॥ कोपोपतापशमनं कंसारिस्मृतिदायकम् । कुलाचारविचारस्थं कुलधर्मप्रवर्तकम् ॥ ३१०॥ कुलधर्मरताभीष्टसिद्धिदं कुलदीपकम् । कुत्सामार्गनिराकर्तृ कुपथाचारवर्जितम् ॥ ३११॥ कल्याणमङ्गलागारं कल्पवृक्षसमं सताम् । कौटिल्यभावशमनं काशीवासफलप्रदम् ॥ ३१२॥ अतिगुह्यतरं पुंसां भोगमोक्षैकसाधनम् । अत्यन्तस्नेहभावेन युष्मदग्रे प्रकाशितम् ॥ ३१३॥ न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन । पाप्यग्रे कुटिलाग्रे च राग्यग्रे पिशुनाय वै ॥ ३१४॥ द्रोह्यग्रे मलिनाघ्रे च कपट्यग्रे विशेषतः । लम्पटाग्रेऽभिमान्यग्रे काम्यते क्रोधिने तथा ॥ ३१५॥ लोभ्यग्रे तस्कराग्रे च गर्वाहङ्कारभाजिने । संसारासक्तचित्ताग्रे वाद्यग्रे घातिनेऽपि वा ॥ ३१६॥ मताभिमानिने गोप्यं मदीयं स्तोत्रमुत्तमम् । वाच्यं शान्ताय भक्ताय निर्मलाय दयालवे ॥ ३१७॥ सन्तोषिणे सुशीलाय सुपात्राय द्विजातये । विवेकिने ज्ञानिने च मद्भक्ताय विशेषतः ॥ ३१८॥ य इदं श‍ृणुते नित्यं पठतेऽहर्निशं जनः । माहात्म्यं तस्य पुण्यस्य मया वक्तुं न शक्यते ॥ ३१९॥ एकवरमिदं स्तोत्रं यः श‍ृणोति नरोत्तमः । भोगमोक्षप्रधानः स भविष्यति न संशयः ॥ ३२०॥ किं पुनः पठनादस्य सर्वसिद्धः करे स्थिता । भोगार्थी लभते भोगान्योगार्थी योगसाधनाम् ॥ ३२१॥ कामार्थी लभते कामान्प्रजार्थी लभते प्रजाम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमव्ययम् ॥ ३२२॥ द्रव्याथी लभते द्रव्यं प्रियार्थी लभते प्रियम् । मानार्थी लभते मानं राज्यार्थी राज्यमुत्तमम् ॥ ३२३॥ ज्ञानार्थी लभते ज्ञानं सुखार्थी लभते सुखम् । कीर्त्यर्थी लभते कीर्तिं ब्रह्मार्थी ब्रह्म निर्गुणम् ॥ ३२४॥ पुष्ट्यर्थी लभते पुष्टिं तुष्ट्यर्थी तुष्टिमात्मनि । निरीहो लभते नूनं मत्पदं देवदुर्लभम् ॥ ३२५॥ किं दानैः किं व्रतैस्तीर्थैर्यज्ञयागादिभिस्तथा । अस्य श्रवणमात्रेण सर्वयज्ञफलं लभेत् ॥ ३२६॥ नातः परतरं ज्ञानं नातः परतरं तपः । नातः परतरं ध्यानं नातः परतरो जपः ॥ ३२७॥ नातः परतरा सिद्धिर्नातः परतरो मखः । नातः परतरं द्रव्यं नातः परतरा क्रिया ॥ ३२८॥ य इदं पठते भक्त्या श‍ृणुयाद्वा समाहितः । स ज्ञानी स तपस्वी च स ध्यानी जयतत्परः ॥ ३२९॥ स सिद्धो भाग्यवान् श्रीमान् क्रियावान्बुद्धिमानपि । जितं तेन जगत्सर्वं येनेदं पठितं श्रुतम् ॥ ३३०॥ किं पुनर्भक्तिभावेन भोगमोक्षप्रदं द्रुतम् । कोटिजन्मार्जितैः पुण्यैर्लभ्यते भाग्यतो यदा ॥ ३३१॥ तदा भाग्योदयः पुंसां नात्र कार्या विचारणा । सारात्सारतरं शास्त्रं तत्रापि ज्ञानदायकम् ॥ ३३२॥ ज्ञानाद्ध्यानं परं श्रेष्ठं तत्रापि लयता यथा । तथैवेदं महास्तोत्रं विना मत्कृपया किल ॥ ३३३॥ दुर्लभं त्रिषु लोकेषु सर्वसिद्धिप्रदं सताम् । यथा भक्तिस्त्रिलोकेषु दुर्लभा मम देहिनाम् ॥ ३३४॥ तथैवेदं महास्तोत्रं सद्यः सायुज्यदायकम् । सर्वापराधशमनं लोके कल्पद्रुमप्रभम् ॥ ३३५॥ यथा सुदर्शनं लोके दुष्टदैत्यनिबर्हणम् । तथैवेदं परं स्तोत्रं कामादिकभयापहम् ॥ ३३६॥ अस्यैकावर्तनात्पापं नश्यत्याजन्मसञ्चितम् । दशावर्तनतः पुंसां शतजन्मान्तरार्चितम् ॥ ३३७॥ शतावर्तनमात्रेण देवरूपो भवेन्नरः । आवर्तनसहस्रैश्च मद्गतिं लभतेऽचलाम् ॥ ३३८॥ लक्षतो मम सायुज्यं दशलक्षात्स्वयं हरिः । तस्मान्नैव प्रदातव्यं मदीयं स्तोत्रमुत्तमम् ॥ ३३९॥ पुत्रकामोऽयुतान्पाठान्कारयित्वा ममालये । सहस्रनामभिर्दिव्यैर्जुहुयाद्घृतपायसैः ॥ ३४०॥ शर्करामधुसंयुक्तैर्बिल्वीदलसमन्वितः । ब्राह्मणान्भोजयेद्भक्त्या नामसङ्ख्यामितानिह ॥ ३४१॥ राज्यकामोऽयुतान्नित्यं पठेद्वा पाठयेद्द्विजान् । शिवालये सहस्रैश्च होमयेदाज्यपायसैः ॥ ३४२॥ ब्राह्मणान्भोजयेन्नूनमयुतैकं यथाविधि । दक्षिणां दापयेच्छक्त्या वित्तशाढ्यं न कारयेत् ॥ ३४३॥ सहस्रमेकं कन्यार्थी पठेद्वा पाठयेत्किल । देव्यालये तथा नित्यं धनकामोऽपि पाठयेत् ॥ ३४४॥ कीर्तिकामोऽयुतं भाक्त्या पठेद्वृन्दावने सदा । जयकामो हि दुर्गायां शत्रुसंहारकारकः । आयुः कामो नदीतीरे ज्ञानार्थी पर्वतोपरि ॥ ३४५॥ मोक्षार्थी भक्तिभावेन मन्दिरे मम सन्निधौ । पाठसङ्ख्यान्द्विजान्भोज्यान्पायसैः शर्कराप्लुतैः ॥ ३४६॥ जुहुयाद्घृतधाराभिर्मम प्रीतिविवर्धनैः । सर्वकामप्रदं नाम्नां सहस्रं मम दुर्लभम् ॥ ३४७॥ कामनारहितानां च मुक्तिदं भवसागरात् । इदं सहस्रनामाख्यं स्तोत्रमानन्दवर्द्धनम् ॥ ३४८॥ सर्वापराधशमनं पठितव्यमहर्निशम् । अन्यथा न गतिर्नूनं त्रिषु लोकेषु कुत्रचित् ॥ ३४९॥ वैष्णवानां विशेषेण वैष्णवा मामका जनाः । दुर्लभं दुष्टजीवानां मदीयं स्तोत्रमद्भुतम् ॥ ३५०॥ लोकेऽस्मिन्दुर्लभो गोप्यो मुक्तिमार्गो मनीषिणम् । सुलभो मम भक्तानां स्तोत्रेणानेन निश्चितम् ॥ ३५१॥ तावद्गर्जन्ति पापानि तावद्गर्जन्ति शत्रवः । तावद्गर्जति दारिद्र्यं यावत्स्तोत्रं न लभ्यते ॥ ३५२॥ किमत्र बहुनोक्तेन त्वदग्रे गोपिका मया । मम प्राणाधिकं स्तोत्रं सदाऽऽनन्दविवर्धनम् ॥ ३५३॥ अत्यन्तस्नेहभावेन त्वदीयेन व्रजाङ्गनाः । मया प्रकाशितं स्तोत्रं त्वद्भक्त्याऽहं वशीकृतः ॥ ३५४॥ एवमुक्त्वा हृषीकेशः शरणागतवत्सलः । प्रहसन्सहसोत्थाय क्रीडां चक्रे पुनर्जले ॥ ३५५॥ नारद उवाच- एतद्गुह्यतरं स्तोत्रं दुर्लभं देहधारिणाम् । मया तदाज्ञया प्रोक्तं तवाग्रे व्यासभावन ॥ ३५६॥ त्वयैतन्नैव वक्तव्यं कस्याग्रेऽपि विनाऽऽज्ञया । स्वशिष्याग्रे शुकाग्रे वा गोपनीयं धरातले ॥ ३५७॥ एतदेव स्वयं साक्षादगतीनां गतिप्रदः । बुद्ध्याविष्टनिजांशेन पूर्णानन्दः स्वलीलया ॥ ३५८॥ कलिग्रस्तान् जनान्स्वीयानुद्धर्तुं करुणानिधिः । स्वयमेवात्र विख्यातं करिष्यति न संशयः ॥ ३५९॥ एतद्दिव्यसहस्रनाम परमानन्दैकसंवर्धनं लोकेस्मिन्किल कादिनामरचनालङ्कारशोभान्वितम् । येषां कर्णपुटे पतिष्यति महाभाग्यादिहालौकिकं तेषां नैव किमप्यलभ्यमचिरात्कल्पद्रुमाभं सताम् ॥ ३६०॥ इति श्रीब्रह्माण्डपुराणेऽध्यात्मकभागवते श्रुतिरहस्ये ककारादि श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम् ।