श्रीकृष्णप्रातःस्मरणम्
(श्रीनिम्बार्काचार्यविरचितं)
प्रातः स्मरामि युगकेलिरसाभिषिक्तं
वृन्दावनं सुरमणीयमुदारवृक्षम् ।
सौरीप्रवाहवृतमात्मगुणप्रकाशं
युग्मान्ध्रिरेणुकणिकाञ्चितसर्वसत्त्वम् ॥ १॥
प्रातः स्मरामि दधिघोषविनीतनिद्रं
निद्रावसानरमणीयमुखानुरागम् ।
उन्निद्रपद्मनयनं नवनीरदाभं
हृद्यानवद्यललनाञ्चितवामभागम् ॥ २॥
प्रातः स्मरामि शयनोत्थितयुग्मरूपं
सर्वेश्वरं सुखकरं रसिकेशभूषम् ।
अन्योन्यकेलिरसचिह्नचमत्कृताङ्गं
सख्यावृतं सुरतकाममनोहरञ्च ॥ ३॥
प्रातर्भजे सुरतसारपयोधिचिह्न-
गण्डस्थलेन नयनेन च सन्दधानौ ।
रत्याद्यशेषशुभदौ समुपेतकामौ
श्रीराधिकावरपुरन्दरपुण्यपुञ्जौ ॥ ४॥
प्रातर्धरामि हृदयेन हृदीक्षणीयं
युग्मस्वरूपमनिशं सुमनोरमञ्च ।
लावण्यधामललनाभिरुपेयमानं
उत्थाप्यमानमनुमेयमशेषवेषैः ॥ ५॥
प्रातर्ब्रवीमि युगलौ वपुषाभिरामौ
राधामुकुन्दपशुपालसुतौ वरिष्ठौ ।
गोविन्दचन्द्रवृषभानुसुतावरिष्ठौ
सर्वेश्वरौ स्वजनपालनतत्परेशौ ॥ ६॥
प्रातर्नमामि युगलाङ्घ्रिसरोजकोशं
अष्टाङ्गयुक्तवपुषा भवदुःखदारम् ।
वृन्दावने सुविचरन्तमुदारचिह्नं
लक्ष्म्या उरोजधृतकुङ्कुमरागपुष्टम् ॥ ७॥
प्रातर्नमामि वृषभानुसुतापदाब्जं
नेत्रालिभिः परिणुतं व्रजसुन्दरीणाम् ।
प्रेमातुरेण हरिणा सुविशारदेन
श्रीमद्व्रजेशतनयेन सदाभिवन्द्यम् ॥ ८॥
सञ्चिन्तनीयमनुमृग्यमभीष्टदोहं
संसारतापशमनं चरणं महार्हम् ।
नन्दात्मजस्य सततं मनसा गिरा च
संसेवयामि वपुषा प्रणयेन रम्यम् ॥ ९॥
इति श्रीनिम्बार्काचार्यविरचितं
श्रीकृष्णप्रातःस्मरणं सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):