अक्षर आकार:

श्रीकृष्णलहरीस्तोत्रम्

Shri Krishnalaharistotram

श्रीकृष्णलहरीस्तोत्रम्

वासुदेवानन्दसरस्वतीकृतम् कदा वृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ १॥ कदा कालिन्दीयैर्हरिचरणमुद्राङ्किततटैः स्मरन्गोपीनाथं कमलनयनं सस्मितमुखम् । अहो पूर्णानन्दाम्बुजवदन भक्तैकललन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ २॥ कदाचित्खेलन्तं व्रजपरिसरे गोपतनयैः कुतश्चित्सम्प्राप्तं किमपि लसितं गोपललनम् । अये राधे किं वा हरसि रसिके कञ्चुकयुगं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ३॥ कदाचिद्गोपीनां हसितचकितस्निग्धनयनं स्थितं गोपीवृन्दे नटमिव नटन्तं सुललितम् । सुराधीशैः सर्वैः स्तुतपदमिदं श्रीहरिमिति प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ४॥ कदाचित्सच्छायाश्रितमभिमहान्तं यदुपतिं समाधिस्वच्छायाञ्चल इव विलोलैकमकरम् । अये भक्तोदाराम्बुजवदन नन्दस्य तनय प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ५॥ कदाचित्कालिन्द्यास्तटतरुकदम्बे स्थितममुं स्मयन्तं साकूतं हृतवसनगोपीसुतपदम् । अहो शक्रानन्दाम्बुजवदन गोवर्धनधर प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ६॥ कदाचित्कान्तारे विजयसखमिष्टं नृपसुतं वदन्तं पार्थेति नृपसुत सखे बन्धुरिति च । भ्रमन्तं विश्रान्तं श्रितमुरलिमास्यं हरिममी प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ७॥ कदा द्रक्ष्ये पूर्णं पुरुषममलं पङ्कजदृशं अहो विष्णो योगिन् रसिकमुरलीमोहन विभो । दयां कर्तुं दीने परमकरुणाब्धे समुचितं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ८॥ इति वासुदेवानन्दसरस्वतीकृतम् श्रीकृष्णलहरीस्तोत्रं सम्पूर्णम् ।