अक्षर आकार:

श्रीकृष्णलीलास्तुतिः

shrIkRRiShNalIlAstutiH

श्रीकृष्णलीलास्तुतिः

निगमतरोः प्रतिशाखं मृगितं च मया परं ब्रह्म । मिलितमिदानीमङ्के गोकुलपङ्केरुहाक्षीणाम् ॥ १॥ तप्तं तपोभिरन्यैः फलितं च तद्गोपबालानाम् । आसां यत्कुचकुम्भे नीलनिचोलायते परम्ब्रह्म ॥ २॥ श्रुतिमपरे स्मृतिमपरे भारतमन्ये भजन्तु भवभीताः । अहमपि नन्दं वन्दे यस्यालिन्दे परम्ब्रह्म ॥ ३॥ किं कथयामः कस्मै कस्य मनः प्रत्ययमाधत्ते । रमयति गोपवधूटीकुञ्जकुटीरे परम्व्रह्म ॥ ४॥ नीतन्नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली । इति समुदीर्य लुठन्तं भूमौ बालं नमामि गोपालं सम्पूर्णम् । ५॥ पश्यत बलमबलानामनाविले हृद्बिले बबन्धुर्याः । तनुदृष्टिपातरश्म्याऽऽकृष्टममूर्तं परम्ब्रह्म ॥ ६॥ एतत्त्वामहमर्थयामि सततं रे चित्त चिन्तातुर मा चिन्तां कुरु चञ्चलेषु विषयेष्वागारदारादिषु । गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय ॥ ७॥ ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते । अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं कालिन्दीपुलिनेषु तत्किमपि यन्नीलं तमो धावति ॥ ८॥ इति श्रीकृष्णलीलास्तुतिः समाप्ता ।