अक्षर आकार:

श्रीकृष्णचरितम्

Shri Krishna Charitam

श्रीकृष्णचरितम्

(अनुष्टुप्) वसुदेव-देवकी-नन्द-यशोदानन्ददायकम् । वन्दे योगीश्वरं कृष्णं गीतापीयूषदायकम् ॥ १॥ कंस-कारागृहे जन्म यस्य बाल्यं च गोकुले । द्वारकायां कर्मयोगस्तं कृष्णं प्रणमाम्यहम् ॥ २॥ पूतना-धेनुकादीन् यः कंस-प्रेरित-राक्षसान् । जघान लीलया वन्दे तमहं यदु-नन्दनम् ॥ ३॥ गोकुलं बाललीलाभिस्तोषयन्तं सुरेश्वरम् । रक्षन्तं धेनुपान् धेनूर्नमाम्यच्युतमीश्वरम् ॥ ४॥ सान्दीपनिं गुरुं भक्त्या यस्तुतोष यदूत्तमः । शिष्योत्तमं तमादर्शं वन्देऽहं भक्तितः सदा ॥ ५॥ पार्थान् युधिष्ठिरादीन् यः सत्यधर्मपथे स्थितान् । आधारं दत्तवान् तस्मै दीनाधाराय ते नमः ॥ ६॥ मोहपङ्के निमग्नं तं विषीदन्तं रणेऽर्जुनम् । कर्तव्यं यो दिदेशस्तं यदुश्रेष्ठं नमाम्यहम् ॥ ७॥ सतां संरक्षणार्थाय दुष्टान् दण्डयितुं तथा । स्वर्गादवातरद् यो वै तस्मै कृष्णाय ते नमः ॥ ८॥ शिशुपाल-जरासन्ध-कंस-चाणूर-मुष्टिकान् । योऽहन् नमामि तं कृष्णं राजनीतिविशारदम् ॥ ९॥ पाण्डवा रक्षिता येन समाश्वस्ता च द्रौपदी । निहताः कौरवास्तस्मै गोविन्दाय नमो नमः ॥ १०॥ यो वेदोपनिषत्सारं गीताख्यं जगते ददौ । तस्मै पूर्णावताराय श्रीकृष्णाय नमो नमः ॥ ११॥ शङ्क-चक्र-गदा-पद्म-धारिणं श्यामसुन्दरम् । श्रीकृष्णं सगुणं द्रष्टुं काङक्षते मम मानसम् ॥ १२॥ विश्वाधारं वासुदेवं सर्वव्यापिनमीश्वरम् । सच्चिदानन्दमूर्ति त्वां वन्देऽहं सादरं प्रभो ॥ १३॥ श्रीकृष्णचरितं दिव्यं श्रुत्वाऽऽचरति यस्तथा । सफलं जन्म तस्यास्ति निश्चिताऽत्र मतिर्मम ॥ १४॥ इति श्री आपटीकरविरचितं श्रीकृष्णचरितं सम्पूर्णम् ।