अक्षर आकार:

श्रीकृष्णचन्द्राष्टकम् २

Shri Krishnachandrashtakam 2

श्रीकृष्णचन्द्राष्टकम् २

श्रीकेवलरामप्रणीतम् वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ । उपयमुनमटन्तौ वेणुनादं सृजन्तौ भज हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ १॥ कलयसि भवरीतिं नैव चेद्भूरिभूतिं यमकृतनिगृहीतिं तर्हि कृत्वा विनीतिम् । जहिहि मुहुरनीतिं जायमानप्रतीतिं कुरु मधुरिपुगीतिं रे मनो मान्यगीतिम् ॥ २॥ द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं सदसि परिभवन्तं लीलया हन्त सान्तम् । स्वजनमसुखयन्तं कंसमाराद्भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥ ३॥ करधृतनवनीतः स्तेयतस्तस्य भीतः पशुपगणपरीतः श्रीयशोदागृहीतः । निखिलनिगमगीतः कालमायाद्यभीतः कनकसदुपवीतः श्रीशुकादिप्रतीतः ॥ ४॥ सकलजननियन्ता गोसमूहानुगन्ता व्रजविलसदनन्ताभीरुगेहेषु रन्ता । असुरनिकरहन्ता शक्रयागावमन्ता जयति विजयियन्ता वेदमार्गाभिमन्ता ॥ ५॥ सुकृतिविहितसेवो निर्जितानेकदेवो भवविधिकृतसेवः प्रीणिताशेषदेवः । स्म नयति वसुदेवो गोकुलं यं मुदे वो भवतु स यदुदेवः सर्वदा वासुदेवः ॥ ६॥ करकजधृतशैले प्रोल्लसत्पीतचैले ?? मय् बे चोर्रेच्त् रुचिरनवघनाभे शोभने पद्मनाभे । विकचकुसुमपुञ्जे शोभमाने निकुञ्जे स्थितवति कुरु चेतः प्रीतिमन्यत्र नेतः ॥ ७॥ विषयविरचिताशे प्राप्तसंसारपाशे- ऽनवगतनिजरूपे सृष्टकर्मण्यपूपे । सुकृतकृतिविहीने श्रीहरे भक्तिहीने मयि कृतय समन्तौ केवले दीनजन्तौ ॥ ८॥ इति श्रीकेवलरामप्रणीतं श्रीकृष्णचन्द्राष्टकं सम्पूर्णम् ।