अक्षर आकार:

श्रीकृष्णषट्कम्

Shri Krishnashatkam

श्रीकृष्णषट्कम्

(श्रीकालटिक्षेत्रे) भगवत्पदकरपङ्कजपूजितपदपद्म शङ्खचक्रधर । यदुनन्दन नतनन्दन पाहि सदा मां कृपापयोराशे ॥ १॥ नवनीतादप्यधिकं मृदु मम हृदयं प्रणम्ररक्षायाम् । इति बोधयितुं धत्से नवनीतं किं करे कृष्ण ॥ २॥ गोगोपमुक्तिदं त्वां गोभारहरं कृपापयोराशिम् । गोपीजनार्चितपदं गोप्राप्त्यै नौमि देवकीसूनुम् ॥ ३॥ गोवर्धनमन्दरधरधरणाद्गर्वायसे वृथा शौरे । यद्यस्ति शक्तिरधुना धर मां धरणीरमार्चिताङ्घ्रियुग ॥ ४॥ अल्पबलकैटभादीन् हत्वा गर्वं वृथा कुरुषे । मोहाभिधानमसुरं जहि शीघ्रं शक्तिरस्ति यदि कृष्ण ॥ ५॥ शङ्करगुरुवरकरवरकमलार्चिताङ्घ्रियुग कृष्णा । किङ्करवरजनवृन्दं तोषय तोयालिशयनकमलेश ॥ ६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकृष्णषट्कं सम्पूर्णम् ।