अक्षर आकार:

कृष्णाश्रयः

kRRiShNAshrayaH

कृष्णाश्रयः

सर्वमार्गेषु नष्टेषु कलौ च खलधर्मिणि । पाषण्डप्रचुरे लोके कृष्ण एव गतिर्मम ॥ १॥ म्लेच्छाकान्तेषु देशेषु पापैकनिलयेषु च । सत्पीडाव्यग्रलोकेषु कृष्ण एव गतिर्मम ॥ २॥ गङ्गादितीर्थवर्येषु दुष्टैरेवावृतेष्विह । तिरोहिताधिदैवेषु कृष्ण एव गतिर्मम ॥ ३॥ अहङ्कारविमूढेषु सत्सु पापानुवर्तिषु । लोभपूजार्थयलेषु कृष्ण एव गतिर्मम ॥ ४॥ अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु । तिरोहितार्थदैवेषु कृष्ण एव गतिर्मम ॥ ५॥ नानावादविनष्टेषु सर्वकर्मव्रतादिषु । पाषण्डैकप्रयत्नेषु कृष्य एव गतिर्मम ॥ ६॥ अजामिलादिदोषाणां नाशकोऽनुभवे स्थितः । ज्ञापिताखिलमाहात्म्यः कृष्ण एव गतिर्मम ॥ ७॥ प्राकृताः सकला देवा गणितानन्दकं बृहत् । पूर्णानन्दो हरिस्तस्मात्कृष्ण एव गतिर्मम ॥ ८॥ विवेकधैर्यभक्त्यादिरहितस्य विशेषतः । पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम ॥ ९॥ सर्वसामर्थ्यसहितः सर्वत्रैवाखिलार्थकृत् । शरणस्थसमुद्धारं कृष्णं विज्ञापयाम्यहम् ॥ १०॥ कृष्णाश्रयमिदं स्तोत्रं यः पठेत्कृष्णसन्निधौ । तस्याश्रयो भवेत्कृष्ण इति श्रीवल्लभोऽब्रवीत् ॥ ११॥ इति श्रीवल्लभाचार्यविरचितं कृष्णाश्रयस्तोत्रं समाप्तम् ।