अक्षर आकार:

श्रीकृष्णारार्तिका

Shrikrishna ArArtikA

श्रीकृष्णारार्तिका

शरणागतभीतिनिवृत्तिपरं परपक्षतमोनिकरांशुनिधिम् । निधिसेवितपादसरोजयुगं युगधर्मनिवर्त्तककालफलम् ॥ १॥ करजोल्लिखितप्रमदोच्चकुचं कुचकुङ्कुमलिप्तयशोहृदयम् । हृदयस्थितगोकुलवासिजनं जनसञ्चितपुण्यचयैकफलम् ॥ २॥ फलदानपरातिसमर्थभुजं भुजदण्डगृहीतकुचाग्रमणिम् । मणिशोभितहस्तधृताद्रिवरं वरगोपवधूचयसंवलितम् ॥ ३॥ वलितप्रमदायुतरासकरं करपद्मयुगाहितवेणुवरम् । वरभक्तिशिरःस्थितपद्मकरं करमर्दितयादवयूथरिपुम् ॥ ४॥ रिपुयूथभुजङ्गमदर्पहरं हरपूजितरम्यसरोजपदम् । पदपद्मयुगार्चनदत्तपदं पदपद्मनखस्थितभक्तिरसम् ॥ ५॥ रसपूरितगोपवधूशारणं शरणागतघोषजनाभयदम् । भयदाधशिरोहरखड्गधरं धरणीकृतपुण्यचयैकफलम् ॥ ६॥ फलहेतुविमर्द्दितदुष्टखरं खरमुक्तिदपादसरोजवरम् । वरबर्हिशिखण्डिकयुक्तकचं कचपाशिनिवेशितपुष्पचयम् ॥ ७॥ घोषाधिपतिं कमलाधिपतिं वन्दे तमहं मथुराधिपतिम् ॥ ८॥ इति श्रीविठ्ठलेशविरचिता श्रीकृष्णारार्तिका समाप्ता ।