अक्षर आकार:

श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

shrIkRRiShNAShTottarashatanAmastotram

श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

अगस्त्य उवाच स्तोत्रं तत्ते प्रवक्ष्यामि यस्यार्थं त्वमिहागतः । वाराहाद्यवताराणां चरितं पापनाशनम् ॥ २.३६.११॥ सुखदं मोक्षदं चैव ज्ञानविज्ञानकारणम् । श्रुत्वा सर्वं धरा वत्स प्रहृष्टा तं धराधरम् ॥ २.३६.१२॥ उवाच प्रणता भूयो ज्ञातुं कृष्णविचेष्टितम् । धरण्युवाच अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् ॥ २.३६.१३॥ तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः । जयोपाधिनियुक्तानि सन्ति नामान्यनेकशः ॥ २.३६.१४॥ तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् । तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ॥ २.३६.१५॥ नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते । शेष उवाच वसुन्धरे वरारोहे जनानामस्ति मुक्तिदम् ॥ २.३६.१६॥ सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्नं सर्वतीर्थफलप्रदम् ॥ २.३६.१७॥ समस्तजपयज्ञानां फलदं पापनाशनम् । श‍ृणु देवि प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ॥ २.३६.१८॥ सहस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ २.३६.१९॥ तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् । नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥ २.३६.२०॥ छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः । श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥ २.३६.२१॥ वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः । श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः ॥ २.३६.२२॥ चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः । देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥ २.३६.२३॥ यमुनावेगसंहारी बलभद्रप्रियानुजः । पूतनाजीवितहरः शकटासुरभञ्जनः ॥ २.३६.२४॥ नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः । नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥ २.३६.२५॥ नवनीतलवाहारी मुचुकुन्दप्रसादकृत् । षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥ २.३६.२६॥ शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः । वत्सपालनसञ्चारी धेनुकासुरमर्द्दनः ॥ २.३६.२७॥ तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामला कृतिः ॥ २.३६.२८॥ गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २.३६.२९॥ वनमाली पीतवासाः पारिजातापहरकः । गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥ २.३६.३०॥ अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारकानाथको बली ॥ २.३६.३१॥ वृन्दावनान्तसञ्चारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ॥ २.३६.३२॥ कुब्जाकृष्टाम्बरधरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ २.३६.३३॥ संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ २.३६.३४॥ शिशुपालशिरस्छेत्ता दुर्योधनकुलान्तकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ २.३६.३५॥ सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ २.३६.३६॥ जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ २.३६.३७॥ युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ २.३६.३८॥ कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः । दामोदरो यज्ञभोक्ता दानवेद्रविनाशनः ॥ २.३६.३९॥ नारायणः परं ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ २.३६.४०॥ पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः । सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः ॥ २.३६.४१॥ इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २.३६.४२॥ स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् । कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥ २.३६.४३॥ अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् । दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २.३६.४४॥ पठतां श‍ृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ २.३६.४५॥ धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥ २.३६.४६॥ बालरोगग्रहादीनां शमनं शान्तिकारकम् । अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ २.३६.४७॥ असिद्धसाधकं भद्रे जपादिकरमात्मनाम् । कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥ २.३६.४८॥ नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने । इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् ॥ २.३६.४९॥ सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् । पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥ २.३६.५०॥ निषेव्य भोगानन्तेऽपि कृष्णासायुज्यमाप्नुयात् । verses 21 through 50 also appear in NaradapancharAtra अगस्त्य उवाच एतावदुक्तो भागवाननन्तो मूर्त्तिस्तु संकर्षणसंज्ञिता विभो ॥ २.३६.५१॥ धराधरोऽलं जगतां धरायै निर्दिश्य भूयो विरराम मानदः । ततस्तु सर्वे सनकादयो ये समास्थितास्तत्परितः कथादृताः । आनन्दपूर्णाम्बुनिधौ निमग्नाः सभाजयामासुरहीश्वरं तम् ॥ २.३६.५२॥ ऋषय ऊचुः नमो नमस्तेऽखिलविश्वाभावन प्रपन्नभक्तार्त्तिहराव्ययात्मन् । धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते ॥ २.३६.५३॥ कृष्णामृतं नः परिपायितं विभो विधूतपापा भवता कृता वयम् । भवादृशा दीनदयालवो विभो समुद्धरन्त्येव निजान्हि संनतान् ॥ २.३६.५४॥ एवं नमस्कृत्य फणीशपादयोर्मनो विधायाखिलकामपूरयोः । प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः ॥ २.३६.५५॥ इति तेऽभिहितं राम स्तोत्रं प्रेमामृताभिधम् । कृष्णस्य राधाकान्तस्य सिद्धिदम् ॥ २.३६.५६॥ incomplete metrically इदं राम महाभाग स्तोत्रं परमदुर्लभम् । श्रुतं साक्षाद्भगवतः शेषात्कथयतः कथाः ॥ २.३६.५७॥ यावन्ति मन्त्रजालानि स्तोत्राणि कवचानि च ॥ २.३६.५८॥ त्रैलोक्ये तानि सर्वाणि सिद्ध्यन्त्येवास्य शीलनात् । वसिष्ठ उवाच एवमुक्त्वा महाराज कृष्णप्रेमामृतं स्तवम् । यावद्व्यरंसीत्स मुनिस्तावत्स्वर्यानमागतम् ॥ २.३६.५९॥ चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः । अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा । अगस्त्यचरणौ नत्वा समारुरुहतुर्मुदा ॥ २.३६.६०॥ दिव्यदेहधरौ भूत्वा शङ्खचक्रादिचिह्नितौ । गतौ च वैष्णवं लोकं सर्वदेवनमस्कृतम् । पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा ॥ २.३६.६१॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायः ॥ ३६॥ The stotra part appears in Naradapancharatra as well that was