अक्षर आकार:

श्रीकृष्णाष्टकम्

Shri Krishnashtakam

श्रीकृष्णाष्टकम्

त्रिभुवनालिसरोजसरोवरं परममोदपयःसुपयोनिधिम् । विमलयोगिमनोऽलिकुशेशयं यदुकुलैकमणिन्तमहम्भजे ॥ १॥ जलजपीठमुखामरदेशिकं भवविरिञ्चिसुरेन्द्रकृतस्तवम् । निखिलकामितशीकरतोयदं यदुकुलैकमणिन्तमहम्भजे ॥ २॥ अदितिजाम्बुजपुञ्जदिवाकरं दितिजकञ्जतुषारजवोपमम् । विगतमोहमजञ्जननान्तकं यदुकुलैकमणिन्तमहम्भजे ॥ ३॥ त्रिजगदम्बुरुहोदितभास्करं सकलसत्त्वहृदब्जकृतालयम् । स्वजनमोहमहार्णवपोतकं यदुकुलैकमणिन्तमहम्भजे ॥ ४॥ श्रुतिमयोज्ज्वलकौस्तुभमालिकं रवमुकभूतमयास्त्रचतुष्टयम् । सभुवनाण्डकदम्बकमेखलं यदुकुलैकमणिन्तमहम्भजे ॥ ५॥ दिनकरादिविभासकभासकं श्रुतिमुखाक्षगणाक्षमनक्षकम् । ज्वलनमारुतश्क्रमदापहं यदुकुलैकमणिन्तमहम्भजे ॥ ६॥ जलधिजाननकञ्जमधुव्रतं रुचिररूपविकृष्टवराङ्गनम् । यतिवरादरगीतचरित्रकं यदुकुलैकमणिन्तमहम्भजे ॥ ७॥ क्रतुपतिङ्कुपतिञ्जगताम्पतिं पतिपतिंविपतिङ्कमलापतिम् । फणिपतिङ्गजगोकुलगोपतिं यदुकुलैकमणिन्तमहम्भजे ॥ ८॥ यदुपतेरिदमष्टकमद्भुतं वृजिनशुष्कवनोग्रदवानलम् । पठतियस्तुसमाहितचेतसा सलभतेऽखिलयोगफलन्द्रुतम् ॥ ९॥ ॥ इति श्रीस्वामिब्रह्मानन्दविरचितं श्रीकृष्णाष्टकं सम्पूर्णम् ॥ (द्रुतविलम्बितं वृत्तं) समानार्थी शब्दाः ज - ब्रह्मा, यतिवर - शुकादयः, कु - पृथिवी, विगतः पतिर्यस्मात्, विपतिं - गरुडास्यवा, फणिपती - शेषः, गज - गजेन्द्रः