अक्षर आकार:

कामासिकाष्टकम्

Kamasikashtakam

कामासिकाष्टकम्

श्रीवेदान्तदेशिकृतम् । (काञ्च्यां) श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात्कश्चिदद्भुतकेसरी ॥ १॥ तपनेन्द्वग्निनयनः तापानपचिनोतु नः । तापनीयरहस्यानां सारः कामासिकाहरिः ॥ २॥ आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् । वेगोपकण्ठसङ्गाद्विमुक्तवैकुण्ठबहुमतिमुपासे ॥ ३॥ बन्धुमखिलस्य जन्तोर्बन्धुरपर्यङ्कबन्धरमणीयम् । विषमविलोचनमीडे वेगवतीपुलिनकेलिनरसिंहम् ॥ ४॥ स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः पर्यङ्कस्थिरधारणाप्रकटितप्रत्यङ्मुखावस्थितिः । प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन् कामानातनुतादशेष जगतां कामासिका केसरी ॥ ५॥ विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली निरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः । अवन्तु मदनासिका मनुजपञ्चवक्त्रस्य मां अहम्प्रथमिका मिथः प्रकटिताहवा बाहवः ॥ ६॥ सटापटलभीषणे सरभसाट्टहासोद्भटे स्फुरत्क्रुधिपरिस्फुटभ्रुकुटिकेऽपि वक्त्रे कृते । कृपाकपटकेसरिन् दनुजडिम्भदत्तस्तना सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥ ७॥ त्वयि रक्षति रक्षकैः किमन्यैस्त्वयि चारक्षति रक्षकैः किमन्यैः । इति निश्चितधीः श्रयामि नित्यं नृहरे वेगवतीतटाश्रयं त्वाम् ॥ ८॥ इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः श्रीवेङ्कटेशरचितैस्त्रिदशेन्द्रवन्द्यः । दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी कामासिकानरहरिर्वितनोतु कामान् ॥ ९॥ इति श्रीवेदान्तदेशिकृतं कामासिकाष्टकं सम्पूर्णम् ।