अक्षर आकार:

जन्मवैफल्यनिरूपणाष्टकम्

janmavaiphalyanirUpaNAShTakam

जन्मवैफल्यनिरूपणाष्टकम्

नाश्रितो वल्लभाधीशो न च दृष्टा सुबोधिनी । नाराधि राधिकानाथो वृथा तज्जन्म भूतले ॥ १॥ न गृहीतं हरेर्नाम नात्माद्यखिलमर्पितम् । न कृष्णसेवा विहिता वृथातज्जन्म भूतले ॥ २॥ न लीलाचिन्तनं नैव दीनता विरहात् हरेः । ल वा कृष्णाश्रयः पूर्णो वृथा तज्जन्म भूतले ॥ ३॥ न नीता वार्तया घस्राः साधवो नैव सेविताः । न गोविन्दगुणा गीता वृथा तज्जन्म भूतले ॥ ४॥ न कृष्णरूपसौन्दर्यमनो नैव विरागिता । न दुःसङ्गपरित्यागो वृथा तज्जन्म भूतले ॥ ५॥ न भक्तिः पुष्टिमार्गीया न निःसाधनता हृदि । न विस्मृतिः प्रपञ्चस्य वृथा तज्जन्म भूतले ॥ ६॥ न धर्मपरता नैव धर्ममार्गे मनोगतिः । न भक्तिर्ज्ञानवैराग्ये वृथा तज्जन्म भूतले ॥ ७॥ न निजस्वामिविरहपरितापो न भावना । न दैन्यं परमं यस्य वृथा तज्जन्म भृतले ॥ ८॥ इति श्रीहरिरायवर्यविरचितं जन्मवैफल्यनिरूपणाष्टकम् ॥