अक्षर आकार:

जगन्नाथ पंचकम्

jagannAtha panchakam

जगन्नाथ पंचकम्

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् । वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १॥ फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् । दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २॥ उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् । भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३॥ नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थं सर्वालंकारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन । भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवंद्यं वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि ॥ ४॥ दोर्भ्यां शोभितलांगलं समुसलं कादम्बरीचञ्चलं रत्नाढ्यं वरकुण्डलं भुजबलैराकांतभूमण्डलम् । वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं संग्रामे चपलं शशांकधवलं श्रीकामपालं भजे ॥ ५॥ इति श्रीजगन्नाथपञ्चकं समाप्तम् ॥