अक्षर आकार:

श्रीजगन्नाथस्य ज्वरपञ्चकं

Shri Jagannatha Jvarapanchakam

श्रीजगन्नाथस्य ज्वरपञ्चकं

स्नानाधिक्यान्मनुसुततनौ जायते हि ज्वरादि- र्दारोर्देहे प्रभवति कथं सोपि चित्रेषु चित्रम् । वार्ता सत्यं त्रिभुवनपतिः श्रीजगन्नाथदेवः स्नानाद् रुग्णो विषमविषयस्तल्पशायी गृहान्तः ॥ १॥ रोगाक्रान्ताद् विकलहृदयो रत्नवेदीं न याति पीडाग्रस्तो भजति च गदं दर्शनं नो ददाति । वैद्यादेशाज्ज्वरसुशमनं हौषधीयं प्रलेपं देहे दत्त्वा विरसवदनाः सेवकास्तं यतन्ते ॥ २॥ हाहाकारः सकलजगति व्याधिनाशः कदा स्याद् भक्ता दुःखात् सजलनयना द्वारदेशं नमन्ति । भावग्राही मनुजमनसो भावनां सोप्यजानात् दूतैर्भक्तान् वदति परमो यात चालारनाथम् ॥ ३॥ रोगे नष्टे कतिपयदिने दिव्यनेत्रोत्सवो मे यूयं सर्वे प्रमुदितमुखाः दर्शनं प्राप्स्यथैव । तस्मिन् काले मम च नगरे स्यन्दनीयां सुयात्रां दृष्ट्वा हृष्टाः सुफलनिकरं नेष्यथ स्वेच्छया वै ॥ ४॥ तापायाधिकवारिणा सुरभिणा स्नात्वा मुदा श्रीहरि- र्हैमाद् रोगगतो महौषधिचयं तच्छान्तये सेवते । हे भक्ता! यदि दारुदेह उदकात् प्राप्नोति कष्टं महत् तापात्तापितमानवा बहुजलस्नानेन रुग्णा न किम् ॥ ५॥ इति श्रीव्रजकिशोरत्रिपाठीविरचितं श्रीजगन्नाथस्य ज्वरपञ्चकं सम्पूर्णम् ।