अक्षर आकार:

श्रीजगन्नाथदण्डकम्

shrIjagannAthadaNDakam

श्रीजगन्नाथदण्डकम्

जय जय नारायण अपारभवसागरोत्तारपरायण सनकस- नन्दनसनातनप्रभृतियोगिवरविचिन्त्यमानदिव्यतत्त्व स्वमाया- विलसिताध्यासपरिणमिताशेषभूततत्त्च त्रितत्त्व त्रिदण्डधर त्रिणाचिकेत त्रिमधुत्रिसुपर्णोपगीयमानदिव्यज्ञान च्छन्दोमय स्वासनसुपर्णप्रिय भक्तप्रिय भक्तजनैकवत्सल स्वमायाजाल- व्यवहितात्मस्वरूप विश्वरूप विश्वप्रकाश विश्वतोमुख विश्वतोऽक्षि- विश्वतःश्रवण विश्वतः पादशिरोग्रीव विश्वहस्तनासारसना- त्वक्वेशलोमलिङ्ग सर्वलोकात्मक सर्वलोकसुखावह सर्वलोकोपकारक सर्वलोकनमस्कृत लीलाविलासितकोटिपद्मोद्भवरुद्रेन्द्रमरुदश्विसाध्य- सिद्धगणप्रणताशेषसुरासुरत्रिभुवनगुरो न कस्यापि ज्ञानगोचर नमस्ते नमस्ते । (श्रीस्कन्दपुराणे) इति श्रीजगन्नाथदण्डकं सम्पूर्णम् । महाविष्णुस्तुतिः ब्रह्मर्षय ऊचुः - नमस्ते देवदेवानामादिभूत सनातन । पुरुषाय पुराणाय नमस्ते परमात्मने ॥ १॥ जरामरणरोगादिविहीनायामलात्मने । ब्रह्मणां पतये तुभ्यं जगतां पतये नमः ॥ २॥ लोकालोकस्वरूरपाय लोकानां पतये नमः । शङ्खचक्रगदापद्मपाणये विष्णवे नमः ॥ ३॥ नमो हिरण्यगर्भाय श्रीपते भूपते नमः । नगः स्वयम्भुवे तुभ्यं सूत्रात्मादिस्वरूपिणे ॥ ४॥ विराट्प्रजापतेः साक्षाज्जनकाय नमो नमः । विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः ॥ ५॥ जाग्रत्स्वप्नस्वरूपाय नमः सुप्त्यात्मने नमः । अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत ॥ ६॥ तुरीयाय विशुद्धाय तुर्यातीताय ते नमः । प्रथमाय समस्तस्य जगतः परमात्मने ॥ ७॥ ओङ्कारैकस्वरूपाय शिवाय शिवद प्रभो । सर्वविज्ञानसम्पन्न नमो विज्ञानदायिने ॥ ८॥ जगतां योनये तुभ्यं वेधसे विश्वरूपिणे । नित्यशुद्धाय बुद्धाय मुक्ताय सुरवरूपिणे ॥ ९॥ नमो वाचामतीताय मनोऽगम्याय ते नमः । अप्रमेयाय शान्ताय स्वयम्भानाय साक्षिणे ॥ १०॥ नगः पुंसे पुराणाय श्रेयःप्राप्त्येकहेतवे । आकाशादिप्रपञ्चाय नमस्तद्रूप शङ्कर ॥ ११॥ मायारूपाय मायायाः सत्ताहेतो जनार्दन । नमः प्रद्युम्नरूपाय नमः सङ्कर्षणात्मने ॥ १२॥ ममोऽनिरुद्धरूपाय वासुदेवाय ते नमः । योगाय योगगम्याय योगिनामिष्टसिद्धिद ॥ १३॥ नमस्ते मत्स्यरूपाय नमस्ते कूर्मरूपिणे । नमस्तुभ्यं वराहाय नारसिंहाय ते नमः ॥ १४॥ नमो वामनरूपाय नमो रामत्रयात्मने । नमः कृष्णाय सर्वज्ञ नमस्ते कल्किरूपिणे ॥ १५॥ कर्मिणां फलरूपाय कर्मरूपाय ते नमः । कर्मकर्त्रे नमस्तुभ्यं नमस्ते कर्मसाक्षिणे ॥ १६॥ नमो विज्ञप्तिरूपाय नमो वेदान्तरूपिणे । गुपात्रयात्मने तुभ्यं नमो निर्गुणरूपिणे ॥ १७॥ अद्भुतायामरेशाय शिवप्राप्त्येकहेतवे । नमो नक्षत्ररूपाय नमस्ते सोमरूपिणे ॥ १८॥ नमः सूर्यात्मने तुभ्यं नमो वज्रधराय ते । नमस्ते पद्मनाभाय नमस्ते शार्ङ्गपाणये ॥ १९॥ नमस्तुभ्यं विशालाक्ष नमः श्रीधर नायक । नमः संसारतप्तानां तापनाशैकहेतवे ॥ २०॥ श्रौतस्मार्तैकनिष्ठानामचिरादेव मुक्तिद । अन्येषामपि सर्वेषां संसारैकप्रदाव्यय ॥ २१॥ नमोऽसुरविमर्दाय नमो विद्याधरार्चित । क्षीरोदशायिने तुभ्यं नमो वैकुण्ठवासिने । नमो रागाभिभूतानां वैराग्यप्लवदायिने ॥ २२॥ इति सूतसंहितायां महाविष्णुस्तुतिः समाप्ता ।