अक्षर आकार:

श्रीजगन्नाथाचार्यप्रपत्तिः

shrIjagannAthAchAryaprapattiH

श्रीजगन्नाथाचार्यप्रपत्तिः

भारद्वाजकुलारविन्दतरणी सौशील्यप्रेमास्पदं, श्रीबलरामपदारविन्दसहितं श्रीरामदेशिकगुरुम् । ध्यानं पूजनं सर्वदा रघुपतिं श्रीजानकीविग्रहमं, श्रीजगन्नाथं भजामि पादकैङ्कर्यसेवारतम् ॥ १॥ हे जगदीश जगत्त्रये च गुरवे नाथो जगन्नाथो मां, रामदेशिकगुरोराज्ञया बहुदिनं शहडोलवासं कृतम् । अर्चककार्यरतं विराटनगरे सम्मानं सम्पादितं, श्रीदेशिकनिर्देशं धार्यमखिलं श्रीचित्रकूटागतम् ॥ २॥ श्रीबलरामप्रपन्नभारनिहितं गद्दीस्थनवमे पदं, शन्तं सौम्यस्वभावं धैर्यवपुषा संस्थानं सञ्चालितम् । सर्वे शिष्यगणाः प्रसन्नमनसा छात्रादि कोषाधिपं, श्रीजगन्नाथं प्रहर्षादेव यजने चातिथ्यसेवादिकम् ॥ ३॥ सरलं शान्तरसं स्वभावमृदुलं विश्वासप्रेमास्पदं, सर्वान् सर्वगुणेषु दान्तः निपुणः प्रस्तावमनुमोदितम् । लङ्कानाम पुराणकार्यनिरते यो सम्मतिसन्मतिः, स्वामिन् स्वप्राधिकारन्यस्तमखिलं श्रीरोहिणीश्वरम् ॥ ४॥ साधुस्वभावेन न विग्रहो क्वचित् येनाशस्थानकृतम्प्रयत्नः, ये चाश्रमे कार्यं कुर्वन्ति नित्यं स्वच्छन्दरूपेण सदा चरन्ति । प्रपन्न श्रीरोहिणिदण्डहस्ते विहाय मे कोऽपि यो पूर्वं तस्करः, अधिकारसम्प्राप्तः श्रीरोहिणीश्वरो सर्वान् वहिष्कृत्य तस्करीकृतम् ॥ ५॥ जरमोहरा जन्मभूमिः नगरे अमरपाटेन । जगन्नाथ जगन्नाथो जातो वंशमुदारधीः ॥ ६॥ वैराग्यबालकलेन तीर्थसेवी जितेन्द्रियः । रामदेशिकपदं प्राप्तमन्त्रदीक्षा गृहीतवान् ॥ ७॥ प्रहर्षमतुलं लेभे यजने साधुसेवने । जगन्नाथपदे नौमि भागवताचार्य कर्म हे ॥ ८॥ इति श्रीजगन्नाथस्वामि प्रपत्तिः ॥