अक्षर आकार:

श्रीजगन्मोहनाष्टकम्

Shri Jaganmohanashtakam

श्रीजगन्मोहनाष्टकम्

श्रीविश्वनाथचक्रवर्तिविरचितं गुञ्जावलीवेष्टितचित्रपुष्पचूडावलन्मञ्जुलनव्यपिच्छम् । गोरोचनाचारुतमालपत्रं वन्दे जगन्मोहनमिष्टदेवम् ॥ १॥ भ्रूवल्गनोन्मादितगोपनारीकटाक्षबाणावलिविद्धनेत्रम् । नासाग्रराजन्मणिचारुमुक्तं वन्दे जगन्मोहनमिष्टदेवम् ॥ २॥ आलोलवक्रालककान्तिचुम्बिगण्डस्थलप्रोन्नतचारहास्यम् । वामप्रगण्डोच्चलकुण्डलान्तं वन्दे जगन्मोहनभिष्टदेवम् ॥ ३॥ बन्धूकबिम्बद्युतिनिन्दिकुञ्चत्प्रान्ताधरभ्राजितवेणुवक्त्रम् । किञ्चित्तिरश्चीनशिरोधिभातं वन्दे जगन्मोहनमिष्टदेवम् ॥ ४॥ अकुण्ठरेखात्रयराजिकण्ठखेलत्स्वरालिश्रुतिरागराजिम् । वक्षःस्फुरत्कौस्तुभमुन्नतांसं वन्दे जगन्मोहनमिष्टदेवम् ॥ ५॥ आजानुराजद्वलयाङ्गदाञ्चिस्मरार्गलाकारसुवृत्तबाहुम् । अनर्घमुक्तामणिपुष्पमालं वन्दे जगन्मोहनमिष्टदेवम् ॥ ६॥ श्वासैजदश्वत्थदलाभतुन्दमध्यस्थरोमावलिरम्यरेखम् । पीताम्बरं मञ्जुलकिङ्किणीकं वन्दे जगन्मोहनमिष्टदेवम् ॥ ७॥ व्यत्यस्तपादं मणिनूपुराढ्यं श्यामं त्रिभङ्गं सुरशाखिमूले । श्रीराधया सार्धमुदारलीलं वन्दे जगन्मोहनमिष्टदेवम् ॥ ८॥ श्रीमज्जगन्मोहनदेवमेतत्पद्याष्टकेन स्मरतो जनस्य । प्रेमा भवेद्येन तदङ्घ्रिसाक्षात्सेवामृतेनैव निमज्जनं स्यात् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिविरचितं श्रीजगन्मोहनाष्टकं सम्पूर्णम् ।