अक्षर आकार:

जगन्मङ्गलकवचस्तोत्रम्

jaganma~Ngalakavachastotram

जगन्मङ्गलकवचस्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीराधारमणाय नमः ॥ श्रीसनत्कुमार उवाच । ब्रूहि मे कवचं ब्रह्मन् जगन्मङ्गलमङ्गलम् । पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥ १॥ ब्रह्मोवाच । श‍ृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । श्रीकृष्णेनैव कथितं मह्यं च कृपया पुरा ॥ २॥ मया दत्तं च धर्माय तेन नारायणर्षये । ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥ ३॥ अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहम् । यद्धृत्वा पठनात्सिद्धाः सिद्ध्यादि प्राप्नुवन्ति च ॥ ४॥ एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः । ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयम् ॥ ५॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । ओं राधेशो मे शिरः पातु कण्ठं राधेश्वरः स्वयम् ॥ ६॥ गोपीशश्चक्षुषी पातु तालुं च भगवान्स्वयम् । गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥ ७॥ गलं गदाधरः पातु स्कन्धं कृष्णः स्वयम्प्रभुः । वक्षःस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥ ८॥ नाभिं पातु पद्मनाभः कङ्कालं कंससूदनः । पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥ ९॥ पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयम् । नासां च नखरं पातु नरसिंहः स्वयम्प्रभुः ॥ १०॥ सर्वेश्वरश्च सर्वाङ्गं सततं मधुसूदनः । प्राच्यां पातु च रामश्च वह्नौ वंशीधरः स्वयम् ॥ ११॥ पातु दामोदरो दक्षे नैरृत्ये च नरोत्तमः । पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥ १२॥ अनन्तश्चोत्तरे पातु ऐशान्यामीश्वरः स्वयम् । जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥ १३॥ पातु वृन्दावनेशश्च मां भक्तं शरणागतम् । इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ १४॥ सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् । इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥ १५॥ हरिदास्यमवाप्नोति गोलोके वासमुत्तमम् । इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥ १६॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मनारदसंवादे जगन्मङ्गलकवचं समाप्तम् ।