अक्षर आकार:

श्रीहयग्रीवसहस्रनामस्तोत्रम्

hayagrIvasahasranamastotram

श्रीहयग्रीवसहस्रनामस्तोत्रम्

॥ श्रीः ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये । यस्य द्विरदवक्राद्याः पारिषद्याः परश्शतं विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ श्रीकाश्यपः - तात मे श्रीहयग्रीवनाम्नां साहस्रमुत्तमम् । अध्येतुं जायते काङ्क्षा तत्प्रसीद मयि प्रभो ॥ १॥ इतिपृष्टस्ततोवाच ब्रह्मा लोक पितामहः । श्रेयसामपि च श्रेयः काश्यपेह विशाम्पते ॥ २॥ अमत्या विहितं पापं मूलतो हि विनश्यति । रहस्यानां रहस्यं च पावनानां च पावनम् ॥ ३॥ प्रायश्चित्ते कृते तस्य कर्तान निरयी भवेत् । कामतस्तु कृते पापे प्रायश्चित्तशतेन च ॥ ४॥ तन्न नश्यति तत्कर्ता व्यवहार्यस्तु जायते । एवं दुरपनोदानां बुद्धिपूर्वमहांहसाम् ॥ ५॥ आवर्जनकराणामप्यन्ते निष्कृतिरीरिता । प्रणम्य मानवतया मन्त्ररत्नानुकीर्तनम् ॥ ६॥ हंसनामसहस्रस्यपठनं शिरसान्वहम् । प्रणम्य भगवद्भक्तपादोदक निषेवणम् ॥ ७॥ तदेतत्त्त्रितयं सर्वपापसङ्घातनाशनम् । इतीदं परमं गुह्यं हंसो हयशिराहरिः ॥ ८॥ वेदोपदेशसमये मां निबोध्योपदिष्टवान । अनेन मन्त्ररत्नेन महाश्वशिरसो हरेः ॥ ९॥ सहस्रनामभिस्तुल्या निष्कृतिर्नेतरांहसाम् । अनन्यभगवद्भक्तपादोदकनिषेवणम् ॥ १०॥ एतद्द्वयोपदेशाङ्गमादौ स्वीकार्यमिष्यते । इत्युक्त्वाऽनन्तगरुडविष्वक्सेनपदोदकम् ॥ ११॥ आदौ मां प्राशयन्नन्ते परिशोष्येकृतांहसि । आत्मनो नामसाहस्रं सर्षिच्छन्दोऽधिदैवतम् ॥ १२॥ सन्यासमुद्रिकाभेदं मह्यं साङ्गमुपादिशत् । यथावत्तदिदं वत्स दद्यां ते श‍ृणु तत्त्वतः ॥ १३॥ यत्प्राप्यात्यन्तिकी वृत्त्या निवृत्त्या मोक्षमेष्यति । हयास्यनामसाहस्रस्तोत्रराजस्य वैभवम् ॥ १४॥ ऋषिश्श्रीमान् हयग्रीवो विद्यामूर्तिस्स्वयं हरिः । देवता च स एवास्य छन्दोनुष्टुबिति श्रुतम् ॥ १५॥ हंसो हंसोऽहमित्येते बीजं शक्तिस्तुकीलकम् । हंसीं हंसोऽहमित्येते प्राग्जप्या मनवस्त्रयः ॥ १६॥ एकैकस्य दशावृत्तिरितिसङ्ख्याविधीयते । प्रणवत्रयमन्त्रं स्यात्कवचं श्रीश्श्रियो भवेत् ॥ १७॥ श्रीविभूषण इत्येतद्धृदयं परिकीर्तितम् । परोरजाः परं ब्रह्मेत्यपि योनिरुदाहृता ॥ १८॥ विद्यामूर्तिरिति ध्यानं विश्वात्मेति च गद्यते । विश्वमङ्गलनाम्नोऽस्य विनियोगो यथारुचि ॥ १९॥ भ्रूनेत्राश्रोत्रनासाहन्वोष्ठतालूरदे क्रमात् । षोडशस्वरविन्यासो दक्षिणारम्भमिष्यते ॥ २०॥ जिह्वातलेऽपि तन्मूले स्वरावन्त्यौ च विन्यसेत् । तदा तालुद्वयन्याससखायोस्तु परित्यजेत् ॥ २१॥ अयं हि विद्याकामानामाद्यस्त्वन्य फलैषिणाम् । दोःपत्सक्थ्यङ्गुलीशीर्षे वर्गान्कचटतान्न्यसेत् ॥ २२॥ पार्श्वयोस्तु वफौ पृष्टोदरयोस्तु बभौ न्यसेत् । मकारं हृदये न्यस्य जीवे वा पञ्चविंशके ॥ २३॥ नाभिपायूदरे गुह्ये यरलवान्विनिक्षिपेत् । शषौ कुण्डलयोश्शीर्षं हारे च कटिसूत्रके ॥ २४॥ सहौ हृदब्जे हर्दे च लमापादशिखे न्यसेत् । क्षञ्च शीर्षादि पादान्तं मातृकान्यास एष तु ॥ २५॥ अस्य श्रीहयग्रीवसहस्रनाम स्तोत्रमहामन्त्रस्य श्रीहयग्रीव ऋषिः । अनुष्टुप् छन्दः । श्रीहयग्रीव परमात्मा देवता । हंस इति बीजम् । हंसोहमिति शक्तिः । हंसां हंसीमिति कीलकम् । ॐ ॐ ओमित्यस्त्रम् । श्रीः श्रियः इति कवचम् । श्रीविभूषण इति हृदयम् । परोरजाः परं ब्रह्मेति योनिः । विद्यामूर्तिर्विश्वात्मा इति ध्यानम् । हंसामङ्गुष्ठाभ्यां नमः । हंसीं तर्जनीभ्यां नमः । हंसूं मध्यमाभ्यां नमः । हंसों अनामिकाभ्यां नमः । हंसौं कनिष्ठिकाभ्यां नमः । हंसः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ हंसां ज्ञानाय हृदयाय नमः । हंसीं ऐश्वर्याय शिरसे स्वाहा । हंसूं शक्तयै शिखायै वषट् । हंसों बलाय कवचाय हुं । हंसौं तेजसे नेत्राभ्यां वौषट् । हंसः वीर्यायास्त्राय फट् ओमिति दिग्बन्धः ॥ अथ मातृकान्यासः - ॐ अम् आम् भ्रुवोः । इम् ईम् नेत्रयोः । उम् ऊम् श्रोत्रयोः । ऋम् ॠम् नासिकयोः । लृम् लॄम् कपोलयोः । एम् ऐम् ओष्ठयोः । ॐ औम् दन्तपङ्क्त्योः । अम् जिह्वातले । अः जिह्वामूले । कवर्गं दक्षिणे बाहूमूले कूर्परे मणिबन्धे करतले हस्ताग्रे । चवर्गं वामे बाहूमूले कूर्परे मणिबन्धे करतले हस्ताग्रे । टवर्गं दक्षिणे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे । तवर्गं वामे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे । पफौ पार्श्वयोः । बभौ पृष्ठोदरयोः । मं हृदि । यं रं लं वं नाभौ पायौ उदरे गुह्ये । शषौ हस्तयोः । सहौ शीर्षे कट्याम् । लक्षौ हृदब्जे हार्दे उति मातृकान्यासः ॥ अथ ध्यानम् ॥ विद्यामूर्तिमखण्डचन्द्रवलयश्वेतारविन्दस्थितं हृद्याभं स्फटिकाद्रिनिर्मलतनुं विद्योतमानंश्रिया । वामाङ्कस्थितवल्लभां प्रति सदाव्याख्यान्तमाम्नायवा- गर्थानादिमपूरुषं हयमुखं ध्यायामि हंसात्मकम् ॥ १॥ विश्वात्मा विशदप्रभाप्रतिलसद्वाग्देवतामण्डलो देवो दक्षिणपाणियुग्मविलसद्बोधाङ्कचक्रायुधः । वामोदग्रकरे दरं तदितरेणाश्लिष्य दोष्णा रमां हस्ताग्रे धृतपुस्तकस्स दयतां हंसो हिरण्यच्छदः ॥ २॥ अथ सहस्रनामस्तोत्रप्रारम्भः । ॐ - श्रीं हंसो हमै मों क्लीं श्रीश्श्रियश्श्रीविभूषणः । परोरजाः परं ब्रह्म भूर्भुवस्सुवरादिमः ॥ १॥ भास्वान्भगश्च भगवान्स्वस्तिस्वाहा नमस्स्वधा । श्रौषड्वौषढलं हुं फट् हुं ह्रीं क्रों ह्लौं यथा तथा ॥ २॥ कर्कग्रीवः कलानाथः कामदः करुणाकरः । कमलाध्युषितोत्सङ्गः क्षये कालीवशानुगः ॥ ३॥ निषच्छोपनिषच्चाथ नीचैरुच्चैस्समं सह । शश्वद्युगपदह्वाय शनैरेको बहुध्रुवः ॥ ४॥ भूतभृद्भूरिदस्साक्षी भूतादिः पुण्यकीर्तनः । भूमा भूमिरधोन्नद्धः पुरुहूतः पुरुष्टुतः ॥ ५॥ प्रफुल्लपुण्डरीकाक्षः परमेष्ठी प्रभावनः । प्रभुर्भगःसतां बन्धुर्भयध्वंसी भवापनः ॥ ६॥ उद्यन्नुरुशयाहुं कृदुरुगाय उरुक्रमः । उदारस्त्रियुगस्त्र्यात्मा निदानं नलयो हरिः ॥ ७॥ हिरण्यगर्भो हेमाङ्गो हिरण्यश्मश्रुरीशिता । हिरण्यकेशो हिमहा हेमवासा हितैषणः ॥ ८॥ आदित्यमण्डलान्तस्थो मोदमानस्समूहनः । सर्वात्मा जगदाधारस्सन्निधिस्सारवान्स्वभूः ॥ ९॥ गोपतिर्गोहितो गोमी केशवः किन्नरेश्वरः । मायी मायाविकृतिकृन्महेशानो महामहाः ॥ १०॥ ममा मिमी मुमू मृमॄं म्लुम्लूं मेमैं तथैव च । मोमौं बिन्दुर्विसर्गश्च ह्रस्वोदीर्घः प्लुतस्स्वरः ॥ ११॥ उदात्तश्चानुदात्तश्च स्वरितः प्रचयस्तथा । कं खं गं घं ङं च चं छं जं झं ञं टं ठमेव च ॥ १२॥ डं ढं णं तं थं च दं च धं नं पं फं बमेव च भं मं यं रं लं च वं च शं षं सं हं ळमेव च ॥ १३॥ क्षं यमों व्यञ्जनो जिह्वामूलीयोऽर्धविसर्गवान् । उपध्मानीय इति च संयुक्ताक्षर एव च ॥ १४॥ पदं क्रिया कारकश्च निपातो गतिरव्ययः । सन्निधिर्योग्यताऽऽकाङ्क्षा परस्परसमन्वयः ॥ १५॥ वाक्यं पद्यं सम्प्रदायो भावश्शब्दार्थलालितः । व्यञ्जना लक्षणा शक्तिः पाको रीतिरलङ्कृतिः ॥ १६॥ शय्या फ्रौढध्वनिस्तद्वत्काव्यं सर्गः क्रिया रुचिः । नानारूपप्रबन्धश्च यशः पुण्यं महद्धनम् ॥ १७॥ व्यवहारपरिज्ञानं शिवेतरपरिक्षयः । सदः परमनिर्वाणं प्रियपथ्योपदेशकः ॥ १८॥ संस्कारः प्रतिभा शिक्षा ग्रहणं धारणं श्रमः । आसुतास्वादिमा चित्रं विस्तारश्चित्रसंविधिः ॥ १९॥ पुराणमितिहासश्च स्मृतिसूत्रं च संहिता । आचार आत्मना तुष्टिराचार्याज्ञानतिक्रमः ॥ २०॥ श्रीमान्श्रीगीःश्रियः कान्तश्श्रीनिधिश्श्रीनिकेतनः । श्रेयान्हयाननश्रीदश्श्रीमयश्श्रितवत्सलः ॥ २१॥ हंसश्शुचिषदादित्यो वसुश्चन्द्रोऽन्तरिक्षसत् । होता च वेदिषद्योनिरतिथिर्द्रोणसद्धविः ॥ २२॥ नृषन्मृत्युश्च वरसदमृतं चर्तसद्वृषः । व्योमसद्विविधस्कोटशब्दार्थव्यङ्ग्यवैभवः ॥ २३॥ अब्जा रसस्वादुतमो गोजा गेयो मनोहरः । ऋतजास्सकलं भद्रमद्रिजास्थैर्यमुत्तमम् ॥ २४॥ ऋतं समज्ञात्वनृतं बृहत्सूक्ष्मवशानुगः । सत्यं ज्ञानमनन्तं यत्तत्सद्ब्रह्ममयोऽच्युतः ॥ २५॥ अग्रेभवन्नगो नित्यः परमः पुरुषोत्तमः । योगनिद्रापरस्स्वामी निध्यानवरनिर्वृनः ॥ २६॥ रसो रस्यो रसयिता रसवान् रसिकप्रियः । आनन्दो नन्दयन्सर्वानानन्दी हयकन्धरः ॥ २७॥ कालः काल्यश्च कालात्मा कालाभ्युत्थितजागरः । कलासाचिव्यकृत्कान्ताकथितव्याधिकार्यकः ॥ २८॥ दृङ्न्यञ्चनोदञ्चनोद्यल्लयसर्गो लघुक्रियः । विद्यासहायो वागीशो मातृकामण्डलीकुतः ॥ २९॥ हिरण्यं हंसमिथुनमीशानश्शक्तिमान् जयी । ग्रहमेथी गुणी श्रीभूनीलालीलैकलालस ॥ ३०॥ अङ्केनोदूह्य वाग्देवीमाचार्यकमुपाश्रयः । वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्परः ॥ ३१॥ ल्हौं ह्लं हं हं हयो हं सूं हंसां हंसीं हसूं हसौम् । हसूं हं हरिणो हारी हरिकेशो हरेडितः ॥ ३२॥ सनातनो निर्बीजस्सन्नव्यक्तो हृदयेशयः । अक्षरः क्षरजीवेशः क्षमी क्षयकरोऽच्युतः ॥ ३३॥ कर्ताकारयिताऽकार्यं कारणं प्रकृतिः कृतिः । क्षयक्षयमनामार्थो विष्णुर्जिष्णुर्जगन्मयः ॥ ३४॥ सङ्कुचन्विकचन्स्थाणुनिर्विकारो निरामयः । शुद्धो बुद्धः प्रबुद्धश्च स्निग्धो मुग्धस्समुद्धतः ॥ ३५॥ सङ्कल्पदो बहुभवत्सर्वात्मा सर्वनामभृत् । सहस्रशीर्षस्सर्वज्ञस्सहस्राक्षस्सहस्रपात् ॥ ३६॥ व्यक्तोविराट्स्वराट्सम्राड्विष्वग्रूपवपुर्विधुः । मायावी परमानन्दो मान्यो मायातिगो महान् ॥ ३७॥ वटपत्रशयो बालो ललन्नाम्नायसूचकः । मुखन्यस्तकरग्रस्तपादाग्रपटलः प्रभुः ॥ ३८॥ नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्विकतामसः । महार्णवाम्बुपर्यङ्कः पद्मनाभः परात्परः ॥ ३९॥ ब्रह्मभूर्ब्रह्मभयहृद्धरिरोमुपदेशकृत् । मधुकैटभनिर्माता मत्तब्रह्ममदापहः ॥ ४०॥ वेधोविलासवागानिर्दयासारो मृषार्थदः । नारायणास्त्रनिर्मातामधुकैटभमर्दनः ॥ ४१॥ वेदकर्ता वेदभर्ता वेदहर्ता विदांवरः । पुङ्खानुपुङ्खहेषाढ्यः पूर्णषाड्गुण्यविग्रहः ॥ ४२॥ लालामृतकणव्याजवान्तनिर्दोषवर्णकः । उल्लोलस्वानधीरोद्यदुच्चैर्हलहलध्वनिः ॥ ४३॥ कर्णादारभ्य कल्क्यात्मा कविः क्षीरार्णवोपमः । शङ्ख चक्रगदी खड्गी शार्ङ्गी निर्भयमुद्रकः ॥ ४४॥ चिन्मुद्राचिह्नितो हस्ततलविन्यस्तपुस्तकः । विद्यानाम्नीं श्रियं शिष्यां वेदयन्निजवैभवम् ॥ ४५॥ अष्टार्ण्यम्योऽष्टभुजोव्यष्टिसृष्टिकरः पिता । अष्टैश्वर्यप्रदोहृष्यदष्टमूर्तिपितृस्तुतः ॥ ४६॥ अनीतवेदपुरुषो विधिवेदोपदेशकृत् । वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमान् ॥ ४७॥ सर्वकर्मसमाराध्यस्सर्ववेदमयो विभुः । सर्वार्थतत्त्वव्याख्याता चतुष्षष्टिकलाधिपः ॥ ४८॥ शुभयुक्सुमुखश्शुद्धस्सुरूपस्सुगतस्सुधीः । सुव्रतिस्संहृतिश्शूरस्सुतपाः सुष्टुतिस्सुहृत् ॥ ४९॥ सुन्दरस्सुभगस्सौम्यस्सुखदस्सुहृदां प्रियः । सुचरित्रस्सुखतरश्शुद्धसत्वप्रदायकः ॥ ५०॥ रजस्तमोहरो वीरोविश्वरक्षाधुरन्धरः । नरनारायणाकृत्या गुरुशिष्यत्वमास्थितः ॥ ५१॥ परावरात्मा प्रबलः पावनः पापनाशनः । दयाघनः क्षमासारो वात्सल्यैकविभूषणः ॥ ५२॥ आदिकूर्मो जगद्भर्ता महापोत्री महीधरः । स्तद्भित्स्वामी हरिर्यक्षो हिरण्यरिपुरैच्छिकः ॥ ५३॥ प्रह्लादपालकस्सर्वभयहर्ता प्रियंवदः । श्रीमुखालोकनस्रंसत्क्रौञ्चकः कुहकाञ्चनः ॥ ५४॥ छत्री कमण्डलुधरो वामनो वदतां वरः । पिशुनात्मा शनोदृष्टिलोपनो बलिमर्दनः ॥ ५५॥ उरुक्तमो बलिशिरोन्यस्ताङ्घ्रिर्बलिमर्दनः । जामदग्न्यः परशुभृत्कृत्तक्षत्त्रकुलोत्तमः ॥ ५६॥ रामोऽभिरामश्शान्तात्मा हरकोदण्डखण्डनः । शरणागतसन्त्राता सर्वायोध्यकमुक्तिदः ॥ ५७॥ सङ्कर्षणोमदोदग्रो बलवान्मुसलायुधः । कृष्णाक्लेशहरः कृष्णो महाव्यसनशान्तिदः ॥ ५८॥ अङ्गारितोत्तरागर्भप्राणदः पार्थसारथिः । गीताचार्यो धराभारहारी षट्पुरमर्दनः ॥ ५९॥ कल्की विष्णुयशस्सूनुः कलिकालुष्यनाशनः । साधुदुष्कृत्परित्राणविनाशविहितोदयः ॥ ६०॥ वैकुण्ठे परमे तिष्ठन् सुकुमारयुवाकृतिः । विश्वोदयस्थितिध्वंससङ्कल्पेन स्वयं प्रभुः ॥ ६१॥ मदनानां च मदनो मणिकोटीरमानितः । मन्दारमालिकापीडो मणिकुण्डलमण्डितः ॥ ६२॥ सुस्निग्धनीलकुटिलकुन्तलः कोमलाकृतिः । सुललाटस्स्तुतिलकस्सुभ्रूकस्सुकपोलकः ॥ ६३॥ सिद्धासदसदालोकसुधास्यन्दीरदच्छदः । तारकाकोरकाकारविनिर्मितरदच्छदः ॥ ६४॥ सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदः । विष्टब्धोविपुलग्रीवोनिभृतोच्चैश्श्रवस्थितिः ॥ ६५॥ समावृत्तावदातोरुमुक्ताप्रालम्बभूषणः । रत्नाङ्गदी वज्रनिष्की नीलरत्नाङ्ककङ्कणः ॥ ६६॥ हरिन्मणिगणाबद्धश‍ृङ्खलाकङ्कणोर्मिकः । सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकः ॥ ६७॥ श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृतः । पट्टतन्तुग्रथनवत्पवित्रनरशोभितः ॥ ६८॥ पीनवक्षामहास्कन्धो विपुलोरुकटीतटः । कौस्तुभी वनमाली च कान्त्याचन्द्रायुतोपमः ॥ ६९॥ मन्दारमालिकामोदी मञ्जुवागमलच्छविः । दिव्यगन्धो दिव्यरसो दिव्यतेजा दिवस्पतिः ॥ ७०॥ वाचालो वाक्पतिर्वक्ता व्याख्याता वादिनां प्रियः । भक्तहृन्मधुरो वादिजिह्वाभद्राननस्थितिः ॥ ७१॥ स्मृतिसन्निहितस्स्निग्धस्सिद्धिदसिद्धिसन्नुतः । मूलकन्दोमुकुन्दोग्लौस्स्वयम्भूशम्भुरैन्दवः ॥ ७२॥ इष्टो मनुर्यमः कालकाल्यः कम्बुकलानिधिः । कल्यः कामयिता भीमः कातर्यहरणः कृतिः ॥ ७३॥ सम्प्रियः पक्कणस्तर्कचर्चानिर्धारणादयः । व्यतिरेको विवेकश्च प्रवेकः प्रक्रमः क्रमः ॥ ७४॥ प्रमाण प्रतिभूः प्राज्ञः प्रज्ञापत्थ्याचधारणः । विधिर्विधाता व्यवधिरुद्भवः प्रभवस्थितिः ॥ ७५॥ विषयस्संशयः पूर्वः पक्षः कक्ष्योपपादकः । राद्धान्तो विहितो न्यायफलनिष्पत्तिरुद्भवः ॥ ७६॥ नानारूपाणि तन्त्राणि व्यवहार्यो व्यवस्थितिः । सर्वसाधारणो देवस्साध्वसाधुहिते रतः ॥ ७७॥ सन्धा सनातनो धर्मो धर्मैरर्च्या महात्मभिः । छन्दोमयस्त्रिधामात्मा स्वच्छन्दश्छान्दसेडितः ॥ ७८॥ यज्ञो यज्ञात्मको यष्टा यज्ञाङ्गोऽपघनोहविः । समिदाज्यं पुरोडाशश्शाला स्थाली स्रुवस्स्रुचा ॥ ७९॥ प्राग्वंशो देवयजनः परिधिश्च परिस्तरः । वेदिर्विहरणं त्रेता पशुः पाशश्च संस्कृतिः ॥ ८०॥ विधिर्मन्त्रोऽर्थवादश्च द्रव्यमङ्गं च दैवतम् । स्तोत्रं शस्त्रं साम गीतिरुद्गीथस्सर्वसाधनम् ॥ ८१॥ याज्या पुरोनुकाव्या च सामिधेनी समूहनम् । प्रयोक्तारः प्रयोगश्च प्रपञ्चः प्राशुभा श्रमः ॥ ८२॥ श्रद्धा प्रध्वंसना तुष्टिः पुष्टिः पुण्यं प्रतिर्भवः । सदस्सदस्यसम्पातः प्रश्नः प्रतिवचस्थितिः ॥ ८३॥ प्रायश्चित्तं परिष्कारो धृतिर्निर्वहणं फलम् । नियोगो भावना भाव्यं हिरण्यं दक्षिणा नुतिः ॥ ८४॥ आशीरभ्युपपत्तिश्च तृप्तिस्स्वं शर्म केवलम । पुण्यक्षयः पुनः पातभयं शिक्षाशुगर्दनः ॥ ८५॥ कार्पण्यं यातनां चिन्ता निर्वेदश्च विहस्तता । देहभृत्कर्मसम्पातः किञ्चित्कर्मानुकूलकः ॥ ८६॥ अहेतुकतया प्रेम साम्मुख्यं चाप्यनुग्रहः । शुचिश्श्रीमत्कुलजनो नेता सत्त्वाभिमानवान् ॥ ८७॥ अन्तरायहरः पित्रोरदुष्टाहारदायकः । शुद्धाहारानुरूपाङ्गपरिणामविधायकः ॥ ८८॥ स्रावपातादिविपदां परिहर्ता परायणः । शिरःपाण्यादिसन्धाता क्षेमकृत्प्राणदः प्रभु ॥ ८९॥ अनिर्घृणश्चाविषमश्शक्तित्रितयदायकः । स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवान् ॥ ९०॥ संवित्सन्धायकस्सर्वजन्मक्लेशस्मृतिप्रदः । विवकेशोकवैराग्यभवभीतिविधायकः ॥ ९१॥ गर्भस्याप्यनुकूलादिनासान्ताध्यवसायदः । शुभवैजननोपेतसदनेहोजनिप्रदः ॥ ९२॥ उत्तमायुःप्रदो ब्रह्मनिष्ठानुग्रहकारकः । स्वदासजननिस्तीर्णतद्वंशजपरम्परः ॥ ९३॥ श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलः । अधर्वणोक्तैकशतमृत्युदूरक्रियापरः ॥ ९४॥ दयाद्यष्टगुणाधाता तत्तत्संस्कृतिसाधकः । मेधाविधाता श्रद्धाकृत् सौस्थ्यदो जामिताहरः ॥ ९५॥ विघ्ननुद्विजयी धाता देशकालानुकूल्यकृत् । विनेता सत्पथानेता दोषहृच्छुभदस्सखा ॥ ९६॥ ह्रीदो भीदो रुचिकरो विश्वो विश्वहिते रतः । प्रमादहृत्प्राप्तकारी प्रद्युम्नो बलवत्तरः ॥ ९७॥ साङ्गवेदसमायोक्ता सर्वशास्त्रार्थवित्तिदः । ब्रह्मचर्यान्तरायघ्नः प्रियकृद्धितकृत्परः ॥ ९८॥ चित्तशुद्धिप्रदश्छिन्नाक्षचापल्यः क्षमावहः । इन्द्रियार्थारतिच्छेत्ता विद्यैकव्यसनावहः ॥ ९९॥ आत्मानुकूल्यरुचिकृदखिलार्तिविनाशकः । तितीर्षुहृत्त्वरावेदी गुरुसद्भक्तितेजसः ॥ १००॥ गुरुसम्बन्धघटको गुरुविश्वासवर्धनः । गुरूपासनसन्धाता गुरुप्रेमप्रवर्धनः ॥ १०१॥ आचार्याभिमतैर्योक्ता पञ्चसंस्कृतिभावनः । गुरूक्तवृत्तिनैश्चल्यसन्धाताऽवहितस्थितिः ॥ १०२॥ आपन्नाखिलरक्षार्थमाचार्यकमुपाश्रितः । शास्त्रपाणिप्रदानेन भवमग्नान्समुद्धरन् ॥ १०३॥ पाञ्चकालिकधर्मेषु नैश्चल्यं प्रतिपादयन् । स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकः ॥ १०४॥ न्यासविद्याविनिर्वोढा न्यस्तात्मभररक्षकः । स्वकैङ्कर्यैकरुचिदस्स्वदास्यप्रेमवर्धनः ॥ १०५॥ आचार्यार्थाखिलद्रव्यसम्भृत्यर्पणरोचकः । आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदः ॥ १०६॥ आगत्ययोजयनासहितैककृतिजागरः । ब्रह्मविद्यासमास्वादसुहितः कृतिसंस्कृतिः ॥ १०७॥ सत्कारे विषधीदाता तरुण्यां शवबुद्धिदः । सभाम्प्रत्याययन्व्यालीं सर्वत्र समबुद्धिदः ॥ १०८॥ सम्भाविताशेषदोषहृत्पुनर्न्यासरोचकः । महाविश्वाससन्धाता स्थैर्यदाता मदापहः ॥ १०९॥ नादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदः । स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयः ॥ ११०॥ अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनः । व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितिः ॥ १११॥ स्वभक्तस्तुतिसन्तुष्टो भूयोभक्तिप्रदायकः । सात्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियः ॥ ११२॥ निरन्तरानुस्मरणनिजदासैवादास्यकृत् । निष्कामवत्सलो नैच्यभावनेषु विनिर्विशन् ॥ ११३॥ सर्वभूतभवद्भावं सम्पश्यत्सुसदास्थितः । करणत्रयसारूप्यकल्याणपतिसादरः ॥ ११४॥ कदा कदेति कैङ्कर्यकामिनां शेषिताम्भजन । परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहः ॥ ११५॥ चन्द्रमण्डलमध्यस्य श्वेताम्भोरुहविष्टरः । ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमाः ॥ ११६॥ भाव्यो भावयिता भद्रं पारिजातवनालयः । क्षीराब्धिमध्यमद्वीपपालकः प्रपितामहः ॥ ११७॥ निरन्तरनमोवाकशुद्धयाजिहदाश्रयः । मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनः ॥ ११८॥ गरुडाहारितश्वेतमृत्पूतयदुभूधरः । भद्राश्ववर्षनिलयो भयहारी शुभाश्रयः ॥ ११९॥ भद्रश्रीवत्सहाराढ्यः पञ्चरात्रप्रवर्तकः । भक्तात्मभावभवनो हार्दोऽङ्गुष्ठप्रमाणवान् ॥ १२०॥ स्वदाससत्कृताकृत्ये तन्मित्रारिषु योजयन् । प्राणानुत्क्रामयन्नूरीकृतप्रारब्धलोपनः ॥ १२१॥ लध्व्यैव शिक्षयापापमशेषमपि निर्णुदन् । त्रिस्थूणक्षोभतो भूतसूक्ष्म्यैस्सूक्ष्मवपुस्सृजन् ॥ १२२॥ निरङ्कुशकृपापूरो नित्यकल्याणकारकः । मूर्धन्यनाड्या स्वान्दासान्ब्रह्मरन्ध्रादुदञ्चयन् ॥ १२३॥ उपासनपरान्सर्वान् प्रारब्धमनुभावयन् । सर्वप्रारब्धदेहान्तेऽप्यन्तिमस्मरणं दिशन् ॥ १२४॥ प्रपेयुषां भेजुषां च यमदृष्टिमभावयन् । दिव्यदेहप्रदस्सूर्यं द्वारयन्मोक्षमेयुषाम् ॥ १२५॥ आतिवाहिकसत्कारानध्वन्यापाद्य मानयन् । सार्वान्क्रतुभुजश्शश्वत्प्राभृतानि प्रदापयन् ॥ १२६॥ दुरन्तमायाकान्तारं द्रुतं योगेन् लङ्घयन् । स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना नयन् ॥ १२७॥ सीमान्तसिन्धुविरजां योगेनोत्तारयन्वशी । अमानवस्य देवस्य करं शिरसि धारयन् ॥ १२८॥ अनादिवासनां धून्वन् वैकुण्ठाप्त्या सलोकयन् । अहेयमङ्गलोदारतनुदानात्सरूपयन ॥ १२९॥ सूरिजुष्टं सुखैकान्तं परमं पदमापयन् । अरारण्यामृताम्भोधी दर्शयन् श्रमनाशनः ॥ १३०॥ दिव्योद्यानसरोवापीसरिन्मणिनगान्नयन । ऐरम्मदामृतसरोगमयन्सूपबृंहणः ॥ १३१॥ अश्वत्थं सोमसवनं प्रापयन्विष्टरश्रवाः । दिव्याप्सरस्समानीतब्रह्मालङ्कारदायकः ॥ १३२॥ दिव्यवासोऽञ्जनक्षौममाल्यैस्स्वान्बहुमानयन् । स्वीयामयोध्यां नगरीं सादरं सम्प्रवेशयन् ॥ १३३॥ दासान्दिव्यरसालोकगन्धांसलशरीरयन् । स्वदासान्सूरिवर्गेण सस्नेहं बहुमानयन् ॥ १३४॥ सूरिसेवोदितानन्दनैच्यान्स्वानतिशाययन् । वाचयन्स्वां नमोवीप्सां कुर्वन्प्रह्वान्कृताञ्जलीन् ॥ १३५॥ प्राकारगोपुरारामप्रासादेभ्यः प्रणामयन् । इन्द्रप्रजापतिद्वारपालसम्मानमापयन् ॥ १३६॥ मालिकाञ्चन्महाराजवीथीमध्यं निवासयन् । श्रीवैकुण्ठपुरन्ध्रीभिर्नानासत्कारकारकः ॥ १३७॥ दिव्यं विमानं गमयन् ब्रह्मकान्त्याभिपूरयन् । महानन्दात्मकश्रीमन्मणिमण्डपमापयन् ॥ १३८॥ हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयन् । सेनेशचोदितास्थाननायको हेतिनायकः ॥ १३९॥ प्रापयन्दिव्यमास्थानं वैनतेयं प्रणामयन् । श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयन् ॥ १४०॥ भास्वरासनपर्यङ्कप्रापणेन कृतार्थयन् । पर्यङ्कविद्यासंसिद्धसर्ववैभवसङ्गतः ॥ १४१॥ स्वात्मानमेव श्रीकान्तं सादरं भूरि दर्शयन् । शेषतैकरतिं शेषं शय्यात्मानं प्रणामयन् ॥ १४२॥ अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयन् । अकुमारयुवाकारं श्रीकान्तं सम्प्रणामयन् ॥ १४३॥ अतटानन्दतो हेतो रञ्चयन्किलिकिञ्चितम् । दासानत्युत्थितमुहुःकृतिसृष्टिप्रसन्नहृत् ॥ १४४॥ श्रीयां प्रापस्वयं तातं जीवं पुत्रं प्रहर्षयन् । मज्जयन् स्वमुखाम्भोधौ स्वकां कीर्तिरुचिं दिशन् ॥ १४५॥ दयार्द्रगङ्गावलनाकृतह्लादैः कृतार्थयन् । पर्यङ्कारोहणप्रह्वं समं लक्ष्म्योपपादयन् ॥ १४६॥ कस्त्वमित्यनुयुञ्जानो दासोऽस्मीत्युक्तिविस्मितः । अपृथक्त्वप्रकारोऽस्मि वाचास्वाश्रितवद्भवन् ॥ १४७॥ विदुषां तत्क्रतुनयाद्धयास्यवपुषाभवन् । वासुदेवात्मना भूयो भवन्वैकुण्ठनायकः ॥ १४८॥ यथा तथैव स्वं रूपं जगन्मोहनमूर्तिमान् । द्विमूर्ती बहुमूर्तीश्च आत्मनश्च प्रकाशयन् ॥ १४९॥ युगपत्सकलं साक्षात्स्वतः कर्तुं समर्थयन् । कवीनामादिशन्नित्यं मुक्तानामादिमः कविः ॥ १५०॥ षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशन् । द्वादशाक्षरनिष्ठानां लोकं सान्तानिकं दिशन् ॥ १५१॥ अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयन् । शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयन् ॥ १५२॥ स्वमन्त्रराजनिष्ठानां स्वस्मार्दातेशयं दिशन् । श्रिया गाढोपगूढात्मा भूतधात्रीरुचिं दिशन् ॥ १५३॥ नीलाविभूतिव्यामुग्धो महाश्वेताश्वमस्तकः । त्र्यक्षस्त्रिपुरसंहारी रुद्रस्स्कन्दो विनायकः ॥ १५४॥ अजो विरिञ्चो द्रुहिणो व्याप्तमूर्तिरमूर्तिकः । असङ्गोऽनन्यधीसङ्गविहङ्गोवैरिभङ्गदः ॥ १५५॥ स्वामी स्वं स्वेन सन्तुप्यन् शक्रस्सर्वाधिकस्यदः । स्वयंज्योतिस्स्वयंवैद्यश्शूरश्शूरकुलोद्भवः ॥ १५६॥ वासवो वसुरण्योग्निर्वासुदेवस्सुहृद्वसुः । भूतो भावी भवन्भव्यो विष्णुस्थानस्सनातनः ॥ १५७॥ नित्यानुभावो नेदीयान्दवीयान्दुर्विभावनः । सनत्कुमारस्सन्धाता सुगन्धिस्सुखदर्शनः ॥ १५८॥ तीर्थं तितिक्षुस्तीर्थाङ्घ्रिस्तीर्थस्वादुशुभश्शुचिः । तीर्थवद्दीधितिस्तिग्मतेजास्तीव्रमनामयः ॥ १५९॥ ईशाद्युपनिषद्वेद्यः पञ्चोपनिषदात्मकः । ईडन्तःस्थोऽपि दूरस्थः कल्याणतमरूपवान् ॥ १६०॥ प्राणानां प्राणनः पूर्णज्ञानैरपि सुदुर्ग्रहः । नाचिकेतोपासनार्च्यस्त्रिमात्रप्रणवोदितः ॥ १६१॥ भूतयोनिश्च सर्वज्ञोऽक्षरोऽक्षरपरात्परः । अकारादिपदज्ञेयव्यूहतारार्थपूरुषः ॥ १६२॥ मनोमयामृतो नन्दमयो दहररूपदृत् । न्यासविद्यावेद्यरूपः आदित्यान्तर्हिरण्मयः ॥ १६३॥ इदन्द्र आत्मोद्गीथादि प्रतीको पासनान्वयी । मधुविद्योपासनीयो गायत्रीध्यानगोचरः ॥ १६४॥ दिव्यकौक्षेयसज्ज्योतिः शाण्डिल्योपास्तिवीक्षितः । संवर्गविद्यावेद्यात्मा तत् षोडशकलं परम् ॥ १६५॥ उपकोसलविद्येक्ष्यः पञ्चाग्न्यात्मशरीरकः । वैश्वानरः सदखेभूमा च जगत्कर्माऽऽदिपूरुषः ॥ १६६॥ मूर्तामूर्तब्रह्म सर्वप्रेष्ठोऽन्यप्रियताकरः । सर्वान्तरश्चापरोक्षश्चान्तर्याम्यमृतोऽनघः ॥ १६७॥ अहर्नामादित्यरूपश्चाहन्नामाक्षिसंश्रितः । सतुर्यगायत्र्यर्थश्च यथोपास्त्याप्यसद्वपुः ॥ १६८॥ चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचरः । न्यासनाश्यानभ्युपेतप्रारब्धांशो महादयः ॥ १६९॥ अवताररहस्यादिज्ञानिप्रारब्धनाशनः । स्वेन स्वार्थं परेणापि कृते न्यासे फलप्रदः ॥ १७०॥ असाहसोऽनपायश्रीस्सहायस्स श्रियै वसन् । श्रीमान्नारायणो वासुदेवोऽव्याद्विष्णुरुत्तमः ॥ १७१॥
॥ ॐ ॥ इतीदं परमं गुह्यं सर्वपापप्रणाशनम् । वागीशनामसाहस्रं वत्स तेऽभिहितं मया ॥ १॥ य इदं श‍ृणुयाद्भक्त्या श्रावयेद्वा स्वयं पठत् । नासौ प्राप्नोति दुरितमिहामुत्र च किञ्चन ॥ २॥ तदिदं प्रजपन् स्वामी विद्याधीशो हयाननः । क्षत्रियश्चेन्महारुद्रो विक्रमाक्रान्तसर्वभूः ॥ ३॥ महोदारो महाकीर्तिर्महितो विजयी भवेत् । ऊरुजश्चेदुरुयशोधनधान्यसमृद्धिमान् ॥ ४॥ अशेषभोगसम्भूतो धनाधिपसमो भवेत् । श‍ृणुयादेव वृषलस्स्वयं विप्रात्सुपूजितात् ॥ ५॥ महिमानमवाप्नोति महितैश्वर्यभाजनम् । श्रीमतो हयशीर्षस्य नाम्नां साहस्रमुत्तमम् ॥ ६॥ श‍ृण्वन्पठन्नपि नरस्सर्वान्कामानवाप्नुयात् । धर्मार्थकामसन्तानभाग्यारोग्योत्तमायुषाम् ॥ ७॥ प्रापणे परमो हेतुः स्तवराजोऽयमद्भुतः । हयग्रीवे परा भक्तिमुद्वहन् य इमं पठेत् ॥ ८॥ त्रिसन्ध्यं नियतश्शुद्धस्सोऽपवर्गाय कल्पते । त्रिः पठन्नामसाहस्रं प्रत्यहं वागधीशितुः ॥ ९॥ महतीं कीर्तिमाप्नोति निस्सीमां प्रेयसीं प्रियाम् । वीर्यं बलं पतित्वं च मेधाश्रद्धावलोन्नतीः ॥ १०॥ सारस्वतसमृद्धिं च भव्यान्भोग्यान्नतान्सुतान् । अभिरूपां वधूं साध्वीं सुहृदश्च हितैषिणः ॥ ११॥ ब्रह्मविद्याप्रवचनैः कालक्षेपं च सन्ततम् । हयग्रीवपदाम्भोज सलिलस्यानुकूलतः ॥ १२॥ लभेत निर्मलं शान्तो हंसोपासनतत्परः । श्रीमत्परमहंसस्य चित्तोल्लासनसद्विधौ ॥ १३॥ इदं तु नाम्नां साहस्रमिष्टसाधनमुत्तमम् । पापी पापाद्विमुक्तस्स्याद्रोगी रोगाद्विमुच्यते ॥ १४॥ बद्धो बन्धाद्विमुच्येत भीते भीतिर्विमुच्यते । मुक्तो दरिद्रो दारिद्र्याद्भवेत्पूर्णमनोरथः ॥ १५॥ आपन्न आपदा मुक्तो भवत्येव न संशयः । हंसार्चनपरो नित्यं हंसार्चनपरायणः ॥ १६॥ निर्धूतकल्मषो नित्यं ब्रह्मसायुज्यमाप्नुयात् । ये भक्त्या परमे हंसे श्रिया मिथुनिताङ्गिते ॥ १७॥ जन्मव्याधिजरानाशभयभाजो न ते जनाः । आचार्यात्तदिदं स्तोत्रमधिगत्य पठेन्नरः ॥ १८॥ तस्येदं कल्पते सिद्ध्यै नान्यथा वत्स काश्यप । आचार्यं लक्षणैर्युक्तमन्यं वाऽऽत्मविदुत्तमम् ॥ १९॥ वृत्वाचार्यं सदा भक्त्या सिद्ध्यै तदिदमश्नुयात् । स याति परमां विद्यां शकुनिब्रह्महर्षणीम् ॥ २०॥ हयास्यनामसाहस्रस्तुतिरंहोविनाशिनी । परमो हंस एवादौ प्रणवं ब्रह्मणे दिशत् ॥ २१॥ उपादिशत्ततो वेदान् श्रीमान हयशिरो हरिः । तेनासौ स्तवराजो हि हंसाख्यहयगोचरः ॥ २२॥ विद्यासाम्राज्यसम्पत्तिमोक्षैकफलसाधनम् । सर्ववित्स्वात्मभावेन परमं पदमाप्नुयात् ॥ २३॥ न तत्र संशयः कश्चिन्निपुणं परिपश्यति । तथापि स्वात्मनि प्रेमसिन्धुसन्धुक्षणक्षमः। ॥ २४॥ इतीदं नामसाहस्रं सङ्गृहीतं तथोत्तरम् । एवं सङ्गृह्य देवेन हयग्रीवेण पालनम् ॥ २५॥ स्तोत्ररत्नमिदं दत्तं मह्यं तत् कथितं तव । हंसनामसहस्रस्य वैभवं परमाद्भुतम् ॥ २६॥ वक्तुं यथावत्कश्शक्तो वर्षकोटिशतैरपि । हयास्यः परमो हंसो हरिर्नारायणोऽव्ययः ॥ २७॥ कारणं शरणं मृत्युरमृतं चाखिलात्मनाम् । सत्यं सत्यं पुनस्सत्यं ध्येयो नारायणो हरिः ॥ २८॥ समानमधिकं वेदान्न दैवं केशवात्परम् । तत्त्वं विज्ञातुकामानां प्रमाणैस्सर्वतोमुखैः ॥ २९॥ तत्त्वं स परमो हंस एक एव जनार्दनः । इदं रहस्यं परमं महापातकनाशनम् ॥ ३०॥ न चाशुश्रूषवे वाच्यं नाभक्ताय कदाचन । नाप्यन्यदेवतायापि न वाच्यं नास्तिकाय च ॥ ३१॥ अधीत्यैतद्गुरुमुखादन्वहं यः पठेन्नरः । तद्वंश्या अपि सर्वे स्युस्सम्पत्सारस्वतोन्नताः ॥ ३२॥ इति हयवदनाननारविन्दान्मधुलहरीव निरर्गला गलन्ती । जगति दशशतीतदीयनाम्नां जयति जडानपि गीर्षु योजयन्ती ॥ ३३॥ ॥ इति श्रीहयग्रीवसहस्रनामस्तोत्रं सम्पूर्णम् ॥