अक्षर आकार:

श्रीहयग्रीवपञ्जरम् २

shrIhayagrIvapanjaram 2

श्रीहयग्रीवपञ्जरम् २

दुग्धाब्धीन्दुहराद्रिकुन्दवपुषं रक्ताम्बुजाक्षं हरिं राकापूर्णशशाङ्कबिम्बविलसच्छुभ्राब्जपीठस्थितम् । हेषावेदघनध्वनद्ध्वनिरवं बालार्करक्ताम्बरं मुद्रापुस्तकशङ्खचक्रविलसद्बाहुं भजेऽश्वाननम् ॥ १॥ प्रणम्य शिरसा देवं नारायणमशेषगम् । रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ २॥ सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः । हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ ३॥ नादविद्याविशेषज्ञं कर्पूरधवलाकृतिम् । महतीनादसन्तुष्टमानसं महितं परम् ॥ ४॥ हिरण्यगर्भसम्भूतं हिरण्याक्षारिसेविनम् । पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ५॥ व्यास उवाच- देवर्षे नारद श्रीमन् साक्षाद्ब्रह्माङ्गसम्भव । भवानशेषविज्ञानपारगस्तपसां निधिः ॥ ६॥ वेदान्तपारगस्सर्वशास्रार्थप्रतिभोज्ज्वलः । परब्रह्मणि निष्णातस्सच्चिदानन्दविग्रहः ॥ ७॥ जगद्धिताय जनितस्साक्षादिव चतुर्मुखः । हन्यन्ते भवता दैत्याः दैत्यारिभुजविक्रमैः ॥ ८॥ लोकानुग्रहकर्ता त्वं त्रैलोक्यं तद्वदानघ । मनुष्या ऋषयो देवाः त्वय्येव परिसत्तम ॥ ९॥ कर्ता त्वं लोककार्याणां परत्र परिनिष्ठितः । पृच्छामि त्वामशेषज्ञ निदानं सर्वसम्पदाम् ॥ १०॥ सर्वसंसारनिर्मुक्तं आपद्घ्नं शान्तमानसम् । यत्सर्वलोकहितकृत् यत्प्रशंसन्ति योगिनः ॥ ११॥ यतश्चराचरं विश्वं धृतं येन महामुने । स्पृहयन्त्युन्नतप्राप्तिं यस्मिन्ब्रह्मादिदेवताः ॥ १२॥ निर्माणावनसंहारा यतो विश्वस्य सत्तम । यस्य प्रभावाद्ब्रह्माद्याः लभन्ते वाञ्छितं फलम् ॥ १३॥ दारिद्र्यनाशो जायेत यस्मिन्श्रुतिपथं गते । विवक्षितार्थनिर्वाहो मुरवान्निस्सरते च गीः ॥ १४॥ नृपाणां राज्यहीनानां येन राज्यं भविष्यति । अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् ॥ १५॥ शत्रूणामचिरान्नाशो ज्ञानं ज्ञानेप्सुनामपि । चतुर्वर्गफलं यस्य जपाद्भवति सुव्रत ॥ १६॥ भूतप्रेतपिशाचाद्याः यक्षराक्षसपन्नगाः । ज्वरादिवातरोगाश्च यस्य स्मरणमात्रतः ॥ १७॥ मुच्यन्तेऽरिवलशार्दूल यद्वाखिलजगद्धितम् । तदेतदिति निश्चित्य ब्रूहि मे सकलं गुरो ॥ १८॥ इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा । बद्धाञ्जलिपुटो भूत्वा सादरं वैणिको मुनिः ॥ १९॥ नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात्परम् । नमोवाक्यैः पुरश्चक्रे मन्त्रेणानेन विष्णवे ॥ २० ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये । नमो हयोत्तमाङ्गाय वाञ्छितार्थं प्रयच्छ मे ॥ २१॥ अज्ञानतिमिरं छिन्धि ज्ञानमाशु प्रयच्छ मे । देहि मे सम्पदं देव हयशीर्ष नमोऽस्तु ते ॥ २२॥ भूतप्रेतपिशाचादीन् छिन्धि देव जनार्दन । ज्वरादीन्सकलान् रोगान् नाशयाशु रमापते ॥ २३॥ दारिद्र्यं सकलं छिन्धि कुरु सौभाग्यभाजनम् । शत्रून्नाशय देवेश हयशीर्ष नमोऽस्तु ते ॥ २४॥ मेधां विद्यां बलं प्रज्ञां सम्पदं पुत्रपौत्रकान् । देहि मे सकलं देव हयशीर्ष नमोऽस्तु ते ॥ २५॥ कर्कोटकमुखान् सर्पान् सविषान्विलयं नय । अमृतं कुरु मां देव हयशीर्ष नमोऽस्तु ते ॥ २६॥ स्त्रीवश्यं जनवश्यं च राजवश्यं परात्परम् । कुरु देवाङ्गनावृन्दसेव्यमानपदाम्बुज ॥ २७॥ हंसाय परमेशाय चन्द्रमण्डलवासिने । नमो हयोत्तमाङ्गाय वाञ्छितार्थं प्रयच्छ मे ॥ २८॥ ऋयजुस्सामरूपाय ऋताय महसे नमः । ऋक्षेश बिम्बमध्यस्थराजीवासनभाजिने ॥ २९॥ वेदवेदान्तवेद्याय वेदाहरणकर्मणे । वादाहव महाबाहो भ्रंशिने ब्रह्मणे नमः ॥ ३०॥ प्रज्ञाप्रदायिने नित्यं भजतां भावितात्मनाम् । प्रणवोद्गीथवपुषे प्रणतिं प्रतिपादये ॥ ३१॥ मन्दारकुन्दस्फटिकमहनीयोरुवक्षसे । मनीषाप्रददेवाय महाश्वशिरसे नमः ॥ ३२॥ इति द्वादशमन्त्रेण नमस्कृत्य जनार्दनम् । प्राह प्रसन्नवदनः पाराशर्यमनिन्दितम् ॥ ३३॥ नारद उवाच । साधु साधु त्वया पृष्टः मुने सत्यवतीसुत । कृत्स्नाध्वरात्समुद्धत्य विलोक्य निखिलागमान् ॥ ३४॥ संशोध्य सर्वशास्त्राणि समालोक्येतिहासकान् । पुराणमन्त्रशास्त्राणि मथित्वा दर्शनान्यपि ॥ ३५॥ सर्वतस्सारमुद्धृत्य तव वक्ष्ये यथार्थतः । अवधाने मनः कृत्वा श‍ृणु सत्यवतीसुत ॥ ३६॥ अशेषलोकहितकृदज्ञानतिमिरापहम् । अणिमादिगुणोपेतं हयग्रीवस्य पञ्जरम् ॥ ३७॥ अर्च्यं ब्रह्मादिभिर्देवैरनन्ताद्वैतकारणम् । उपास्यमानं सततं उमाजानिमुखैस्सुरैः ॥ ३८॥ ब्रह्महत्यादिपापघ्नमपूर्वफलदायकम् । सारस्वतादिसंसृष्टकारणं कवितावहम् ॥ ३९॥ सङ्गीतविद्यानिलयं श्रुतिदं पुत्रदायकम् । किमुच्यते महाभाग प्रभावस्तस्य शाश्वतः ॥ ४०॥ यस्य प्रभावाद्ब्रह्मापि ब्रह्मत्वमगमत्पुरा । शम्भुश्शम्भुत्वमापन्नः शक्रश्शक्रत्वमागतः ॥ ४१॥ जप्त्वा यक्षेशतां प्राप्तः कुबेरः पञ्जरोत्तमम् । जप्त्वा वृहस्पतिस्सम्यग्धयग्रीवस्य पञ्जरम् ॥ ४२॥ हयग्रीवप्रसादेन वाचस्पत्यमवाप्तवान् । प्राचीदिक्पालतां यातः श्रुत्वेदं पञ्जरं पुरा ॥ ४३॥ अस्मादन्येऽ पि दिक्पाला तत्तत्स्थानं गता ध्रुवम् । लब्ध्वोपदेशं गिरिराट्᳐सैनापत्यं गतो गुहः ॥ ४४॥ सर्वक्षत्रवधं चक्रे रामश्चास्य जपान्मुने । राजा बभूव सर्वेषां शशाङ्कोऽस्य प्रभावतः ॥ ४५॥ सूर्यस्तेजस्वितां प्राप्तो लब्ध्वेदं ब्रह्मणोऽन्तिकात् । शुक्रस्य कवितासिद्धिं प्रायच्छच्चन्द्रशेरवरः ॥ ४६॥ प्रह्लादोऽस्य जपादेव तीर्त्वा बाधामहाम्बुधिम् । भक्त्या परमया युक्तः कैवल्यं परमं ययौ ॥ ४७॥ धर्मराज इति ख्यातिं यमोऽपि गतवान् ध्रुवम् । रामो ददाति सर्वेभ्यो जपात्सकलसम्पदः ॥ ४८॥ एतत्पञ्जरमाहात्म्यं अनुभूयोर्वशी चिरम् । ख्यातिं जगाम वेदेषु बुधपुत्रः पुरूरवाः ॥ ४९॥ लब्ध्वेदं पञ्जरप्राप्तिं मुक्तिं सम्मानतो जपात् । धर्मार्थकाममोक्षाणामिदमेव परायणम् ॥ ५०॥ पुरा सर्वासु विद्यासु नष्टासु प्रलये मुने । नारायणो जगत्कर्ता रमाश्रितभुजान्तरः ॥ ५१॥ निःस्वाध्यायवषट्कारं स्वधास्वाहाविवर्जितम् । विलोक्य भुवनं कृत्स्नं किमिति व्याकुलोऽभवत् ॥ ५२॥ अन्वीक्ष्य वेदशास्त्राणि नापश्यत्किमपि प्रभुः । हयग्रीवतनुं प्राप्य सच्चित्सुखमयीं ततः ॥ ५३॥ निष्कलङ्कशशिच्छायां निर्निद्रकमलेक्षणाम् । नित्यामचिन्त्यविभवां नीराजितपदां सुरैः ॥ ५४॥ चन्द्रमपडलमध्यस्थपुण्डरीकनिषेदुषीम् । शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ५५॥ पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया । ऋषिभिः प्राक्तनैर्ध्येयां ज्ञानविज्ञानपूरिताम् ॥ ५६॥ मनोवाग्विषयातीतामागमान्तनिवासिनीम् । शोकात्तीर्त्वा गुणोन्मुक्तामवस्थात्रयवर्जिताम् ॥ ५७॥ सम्यग्वीरासनासीनस्साक्षाच्चिन्मात्रविग्रहः । अध्यासीत्पञ्जरं स्वीयं वेदसारमचिन्तयन् ॥ ५८॥ अष्टवारमिदं ब्रह्मन्नष्टाविंशतिसङ्ख्यया । आवर्तयन् ददर्शाग्रे प्रणवं पञ्जरोद्भवम् ॥ ५९॥ गायत्री प्रणवाज्जज्ञे ततस्साङ्गादयो मुखाः । स्मृतयश्च पुराणानि सेतिहासानि सत्तम ॥ ६०॥ तस्मादशेषविद्यानां निदानमिदमिष्यते । उपादिशद्गिरीशाय हयग्रीवस्य पञ्जरम् ॥ ६१॥ अस्मादवाप्तवानेतद्ब्रह्मा लोकपितामहः । ब्रह्मा मुनीनां सर्वेषां गुह्यं चोपादिशत्स्वयम् ॥ ६२॥ अहमिन्द्रादिदेवानां तत्तत्स्थानप्रसिद्धये । उपदेशं तवाप्यद्य दास्यामि नियतव्रत ॥ ६३॥ त्वया सर्वेषु लोकेषु ख्यातिमेतद्गमिष्यति । शठायागुरुभक्ताय चलायानात्मवेदिने ॥ ६४॥ कृतघ्नायाभिशप्ताय कुलघ्नायाकृतात्मने कथञ्चिदपि नो दद्याद्धयग्रीवस्य पञ्जरम् ॥ ६५॥ अस्य स्मरणमात्रेण सर्वं सिद्ध्यति भूतले । श्रीवाक्कामी विशेषेण धारयेत्पञ्जरोत्तमम् ॥ ६६॥ एकैकमन्त्रं प्रत्येकं पठ्यं मन्त्रोऽपि इष्यते । तस्मात्सर्वप्रयत्नेन धार्यमेतच्छुभेप्सुभिः ॥ ६७॥ ऋषिरस्य हयग्रीवो देवता तु स एव हि । प्रोक्तमानुष्टुभं छन्दं सर्वदेवैर्नियुज्यते ॥ ६८॥ क्षीराम्भोनिधिसङ्काशं कमलायतलोचनम् । कलानिधिकृतावासं कर्णिकापीठवासिनम् ॥ ६९॥ ज्ञानमुद्राक्षवलयशङ्खचक्रलसत्करम् । भूषाकिरणसदोहनीराजितदिगन्तरम् ॥ ७०॥ वक्त्राब्जनिर्गतोद्दामवाणीसन्तानशोभितम् । देवतासार्वभौमं तं ध्यायेदिष्टार्थसिद्धये ॥ ७१॥ हयग्रीवः शिरः पातु ललाटं चन्द्रमध्यगः । शास्त्रदृष्टिर्दृशौ पातु मुखं ब्रह्मात्मकः श्रुतीः ॥ ७२॥ घ्राणं गन्धात्मकः पातु वदनं यज्ञसम्भवः । जिह्वां वागीश्वरः पातु मुकुन्दो दन्तसंहतिम् ॥ ७३॥ ओष्ठं ब्रह्मात्मकः पातु पातु नारायणोऽधरम् । शिवात्मा चिबुकं पातु कपोलौ कमलाप्रभुः ॥ ७४॥ बिम्बात्मा पिठरं पातु कर्णौ नादात्मको मम । भुजौ चतुर्भुजः पातु करौ दैत्येन्द्रमर्दनः ॥ ७५॥ ज्ञानात्मा हृदयं पातु विश्वात्मा कुचयुग्मकम् । मध्यमं पातु सर्वात्मा पातु पीताम्बरः कटिम् ॥ ७६॥ कुक्षिं रक्षतु विश्वात्मा बलिभङ्गो वलित्रयम् । नाभिं मे पद्मनाभोऽव्याद्गुह्यं गुह्यार्थबोधकः ॥ ७७॥ ऊरू दामोदरः पातु जानुनी मधुसूदनः । पादौ त्रिविक्रमः पातु पातु पादाङ्गुलीर्हरिः ॥ ७८॥ सर्वाङ्गं सर्वगः पातु पातु रोमाणि केशवः । धातूनादिहितः पातु भार्यां लक्ष्मीपतिर्मम ॥ ७९॥ पुत्रान् विश्वकुटुम्बी मे पातु बन्धून् सुरेश्वरः । वित्तमिन्द्रात्मकः पातु वह्न्यात्मा शत्रुसंहतेः ॥ ८०॥ प्राणान् वाय्वात्मकः पातु क्षेत्रं विश्वम्भरात्मकः । वरुणात्मा रसान् पातु व्योमात्मा हृद्गुहान्तरम् ॥ ८१॥ दिवारात्रौ हृषीकेशः पातु सर्वं जगद्गुरुः । विषमे सङ्कटे चैव पातु क्षेमङ्करो मम ॥ ८२॥ सच्चिदानन्दरूपो मे ज्ञानं रक्षतु सर्वदा । प्राच्यां रक्षतु विश्वात्मा आग्नेय्यां ज्ञानदीपकः ॥ ८३॥ याम्यां बोधप्रदः पातु नैरृत्यां चिद्घनप्रभुः । विद्येशः पातु वारुण्यां वायव्यां चिन्मयो मम ॥ ८४॥ कौबेर्यां वित्तदः पातु पात्त्वैशान्यां जगद्गुरुः । ऊर्ध्वं पातु जगत्स्वामी पात्वधस्तात् परात्परः ॥ ८५॥ रक्षाहीनं तु मे स्थानं रक्षत्वखिलनायकः । इतीदं कीर्तयेद्यस्तु कवचं देवपूजितम् ॥ ८६॥ भवेद्वादशमन्त्रेण पुरश्चर्या मुनीश्वर । लक्षसङ्ख्या भवेत्सोऽपि आद्यन्तं पञ्जरं न्यसेत् ॥ ८७॥ किं वा द्वादशमन्त्रेण सर्वस्य जनयिष्यति । ऊरूदघ्नजले स्थित्वा हयग्रीवस्य पञ्जरम् ॥ ८८॥ जपेद्वादशमन्त्रेण मण्डलान्तं दृढव्रतः । सहस्रं वा तदर्धं वा त्रिशतं वा शतं तथा ॥ ८९॥ सर्वज्ञत्वं लभेत्सद्यः हयग्रीव इवापरः । सत्यं सत्यमहं वक्ष्ये नासाध्यं तस्य विद्यते ॥ ९०॥ आनन्दसान्द्रमाखिलात्मकमद्वितीयं विद्यानिधिं विविधशोभनहेतुभूम् । आराधयेद्धृदयपङ्कजमध्यसंस्थं अश्वोत्तमाङ्गमखिलैरभिवन्द्यमानम् ॥ ९१॥ हेषा यस्य त्रयीघोषो मन्दुरा चन्द्रमण्डलम् । घासो महासुरप्राणाः हयराणामुपास्महे ॥ ९२॥ (श्रीनारदपुराणे) इति हयग्रीवपञ्जरं २ सम्पूर्णम् ।