अक्षर आकार:

श्रीहयग्रीवपञ्जरम् १

shrIhayagrIvapanjaram 1

श्रीहयग्रीवपञ्जरम् १

अस्य कल्पं प्रवक्ष्यामि हयग्रीवस्य पञ्जरम् । यस्य विज्ञानमात्रेण वाणी गङ्गेव निःसरेत् ॥ १॥ शुद्धस्फटिकसङ्काशं तुषाराचलसन्निभम् । श्वेतपर्वतसङ्काशचन्द्रमण्डलमध्यगम् ॥ २॥ चतुर्भुजमुदाराङ्गं पुण्डरीकायतेक्षणम् । शङ्खचक्रधरं देवं किरीटमकुटोज्ज्वलम् ॥ ३॥ कौस्तुभोद्भासितोरस्कं वनमालाविराजितम् । पीताम्बरधरं देवं श्रीवत्साङ्कितवक्षसम् ॥ ४॥ मुख्यहस्तद्वयेनैव ज्ञानमुद्राक्षपुस्तकम् । धारयन्तं हयग्रीवं ध्यायेदिष्टार्थसिद्धये ॥ ५॥ ओङ्काराद्गीथरूपाय ऋग्यजुस्साममूर्तये । नमोऽस्तु देवदेवाय वाञ्छितार्थप्रदायिने ॥ ६॥ अज्ञानतिमिरं छिन्धि ज्ञानं चाशु प्रयच्छ मे । देहि मे देवदेवेश हयशीर्ष नमोऽस्तु ते ॥ ७॥ भूतप्रेतपिशाचादीन् छिन्धि देव जनार्दन । ज्वरादीन्निखिलान् रोगान् नाशयाऽऽशु रमापते ॥ ८॥ दारिद्र्यं सकलं छिन्धि कुरु सौभाग्यभाजनम् । शत्रून्नाशय मे देव हयशीर्ष नमोऽस्तु ते ॥ ९॥ मेधां प्रज्ञां बलं विद्यां सम्पदं पुत्रपौत्रकम् । देहि मे देवदेवेश हयशीर्ष नमोऽस्तु ते ॥ १०॥ कार्कोटकमुखान्सर्पान् विषादीन्विलयं नय । अमृतं कुरु मे देव हयशीर्ष नमोऽस्तुते ॥ ११॥ स्त्रीवश्यं जनवश्यं च राजवश्यं परात्परम् । कुरु देवाङ्गनावृन्दसेव्यमानपदाम्बुज ॥ १२ हंसायपरमेशायचन्द्रमण्डलवासिने । नमो हयोत्तमाङ्गाय वाञ्छितार्थप्रदायिने ॥ १३॥ ऋग्यजुस्सामरूपाय ऋताय महते नमः । ऋक्षेशबिन्दुमध्यस्थराजीवासनभाजिने ॥ १४॥ वेदवेदान्तवेद्याय वेदाहरणकर्मणे । सत्त्वासत्त्वमहामोहभेदिने ब्रह्मणे नमः ॥ १५॥ प्रज्ञानदायिने नित्यं भजतां भावितात्मनाम् । प्रणवोद्गीथवपुषे प्रणतिं प्रतिपादये ॥ १६॥ मन्दारकुन्दस्फटिकमहनीयोरुवर्चसे । मनीषाप्रददेवाय महाश्वशिरसे नमः ॥ १७॥ इतिद्वादशमन्त्रेण नमस्कुर्याज्जनार्दनम् । प्रातःप्रसन्नवदनं पूर्वाचार्याभिवन्दितम् ॥ १८॥ इति हय्ग्रीवपञ्जरम् १ सम्पूर्णम् ।