अक्षर आकार:

हयग्रीवपटलम्

hayagrIvapaTalam

हयग्रीवपटलम्

श्रीगणेशाय नमः । हयशिरः पदं ङेन्तंहृदयं च समुद्धरेत् । स्वबीजादिमहामन्त्रश्चतुर्वर्गफलप्रदः ॥ अस्य हयग्रीवाष्टाक्षरमन्त्रस्य ब्रह्मा ऋषिरनुष्टुप्छन्दः श्रीहयग्रीवरूपी विष्णुर्देवता ममाभीष्टकामनासिद्धयर्थे जपे विनियोगः ॥ ब्रह्मणे ऋषये नमः शिरसि । अनुष्टुप्छन्दसेनमो मुखे । श्रीहयग्रीवरूपिण्यै विष्णुदेवतायै नमो हृदि । अथ कराङ्गन्यासौ । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि । ततो ध्यानम् । शरच्छशाङ्कप्रभमश्ववक्त्रम्मुक्तामयैराभरणैःप्रदीप्तम् । रथाङ्गशङ्खौ धृतवाहयुग्मं विद्याख्यमुद्रान्यकरं नमामि ॥ एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कृत्वा पीठपूजां विधाय तद्यथा मूलाधारे ॐ मण्डूकाय नमः । स्वाधिष्ठाने ॐ कालाग्निरुद्राय नमः । नाभौ ॐ प्रकृत्यै नमः । हृदि ॐ ह्रीं आधारशक्त्यै नमः । कूर्माया नमः । अनन्ताय नमः । वाराहाय नमः । पृथिव्यै नमः । सुधासिन्धवे नमः । नवरत्नद्वीपाय नमः । जातवनाय तन्मध्ये मणिमण्डपाय तन्मध्ये कल्पवृक्षाय नमः । तदधो रत्नवेदिकायै नमः । तदुपरि स्वसिंहासनाय नमः । तदुपरिश्वेतातपत्राय नमः । सितचामराभ्यां नमः । तालवृन्ताभ्यां नमः । विमलादर्शाय नमः । ततो मुखपार्श्वनाभिवामपार्श्वेषु धर्मज्ञानवैराग्यैष्वर्यान् दक्षिणांशतदूर्वामोरुतदंशेषु अधर्माज्ञानावैराग्यानैश्वर्यान् अनन्ताय नमः । सर्वतत्त्वाय नमः । पद्माय नमः । आनन्दकन्दाय नमः । संविन्नालाय नमः । प्रकृतिमयपत्रेभ्यो नमः । विकारमयकेसरेभ्यो नमः । पञ्चाशद्वर्णबीजाढ्यकर्णिकायै अं अर्कमण्डलाय द्वादशकलात्मने नमः । ओं सोममण्डलाय षोडशकलात्मने नमः । वं वह्निमण्डलाय मण्डलात्मने नमः । सं सत्त्वाय नमः । रं रजसे नमः । तं तमसे नमः । ओं आत्मने अं अन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने पीठशक्तिं न्यसेत् । केसरेषु मध्ये च पूर्वादिक्रमेण ओं विमलायै नमः । एवं उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै णमः । प्रभ्वै नमः । सत्यायै नमः । ईशानायै नमः । अनुग्रहायै नमः । तदुपरि ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपीठात्मने नमः । इति पीठपूजां कृत्वा पुनर्ध्यात्वाऽऽवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं पूजां विधायावरणपूजामारभेत् । तत्राङ्गैः प्रथमावरणम् ॥ प्रज्ञाहयग्रीवाय नमः । मेधाहयग्रीवाय नमः । स्मृतिहयग्रीवाय नमः । विद्याहयग्रीवाय नमः । लक्ष्मीहयग्रीवाय नमः । वागीशहयग्रीवाय नमः । विद्याविशालहयग्रीवाय नमः । नादविमर्दहयग्रीवाय नमः । इत्यष्टभिर्द्वितीयम् ॥ लक्ष्मीसरस्वतीरति-प्रीति-कीर्ति-कान्ति-तुष्टि पुष्टिभिस्तृतीयं ॥ कुमुदादिभिर्गजैश्चतुर्थम् ॥ इन्द्रान्दिभिः पञ्चमम् ॥ ततो धूपादिविसर्जनान्तं कर्म समापयेत् । अस्य पुरश्चरणं चतुर्लक्षं जपः । तथाच-वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ॥ आज्येन तद्दशांशहोमः ॥ इति हयग्रीवपटलं समाप्तम्