अक्षर आकार:

श्रीहयग्रीवाभिगमनम्

Shri Hayagrivabhigamanam

श्रीहयग्रीवाभिगमनम्

अनिरुद्धतनोर्जातमात्मभूक्लेशनाशनम् । अभिगच्छामि लक्ष्मीशं हयग्रीववपुर्धरम् ॥ १॥ सूर्योऽधुना सरसिजानि विकास्य सर्वान् उत्थापयन् निजकरैस्तिमिरं निरस्य । प्रत्युद्गतो धृतनवासनपुण्डरीकः श्रीवाजिवक्त्र भगवंस्तव सुप्रभातम् ॥ २॥ वेधाः पुरस्तदनु तन्महिषी गिरीशो वाचस्पतिः कविबुधौ च कलानिधिश्च । देवर्षयश्च मिलिता गुरवः परे च श्रीवाजिवक्त्र भगवंस्तव सुप्रभातम् ॥ ३॥ अन्वेषणाय मधुकैटभयोः समुद्रे वेदाहृतेश्च कृत आदृतसम्प्रचारौ । ब्रह्मादिभक्तजनशीर्षपरिष्क्रियार्हौ श्रीवाजिवक्त्रचरणौ शरणं प्रपद्ये ॥ ४॥ श्रीमन् लक्ष्मीहयमुख विभो स्वीकुरुष्वार्चनं मे श्रीमत्तेऽहं चरणकमलं संश्रयन् साधु याचे । इन्दुस्यन्दाधिकशुभसुधासाररूपं त्वदीयं रूपं चित्ते लसतु महितं सुन्दरं सेन्दिरं मे ॥ ५॥ दत्त्वा वेदं द्रुतमथ मधुं कैटभञ्चास्य चोरौ हत्वा यस्त्वं निखिलभुवनस्रष्टृरक्षामतानीः । श्रीमन् लक्ष्मीहयमुख विधेह्यद्भुतं तत्त्वबोधं क्षोभे प्राप्तेऽपि च बहुविधे प्रच्युतिर्यस्य न स्यात् ॥ ६॥ यं त्वं लक्ष्मीहयमुख पुरा स्वर्गिणां कामकामैः आराध्यत्वं फलमपि दिशन् वेदतत्त्वार्थमन्यम् । तेभ्योऽवोचः सकलवचसामुत्तमेऽर्थे पुमर्थे सर्वान्तस्स्थे त्वयि भवतु मे पारमैकान्त्यनिष्ठा ॥ ७॥ नानाबाह्येन्द्रियपरवशं वानरप्रायमेतत् चित्तं ध्यानं कथमिह ततो वाजिवक्त्र प्रसन्नः । स्वच्छ-स्वादु-प्रगुण-सुभग-व्योमगङ्गाप्रवाह- स्फीतोत्कर्षं हयमुख वचः सन्तनु श्रेष्ठतीर्थम् ॥ ८॥ वैराग्यर्द्धौ विहितमनसां नैव देवान्तरार्चा मा भूदेषा क्वचिदनुमते सत्समृद्‍ध्यादिकेऽपि । त्वय्यभ्यर्थ्यं भवति यदिदं श्रीहयग्रीव तस्मिन् निष्ठाभङ्गक्षपणनिपुणस्त्वं हिते चोदयेर्माम् ॥ ९॥ सत्यं सत्यप्रभृति सुहितं पुष्पमाध्यात्मिकं यत् तेनैवार्चा तव हयमुख श्रीपते पूर्णतृप्त्यै । यावद्रक्ष्यं भवति गृहिणो देहवद्दारपुत्रा- द्येतत्त्यागे त्वघमिति धिया तत्र युक्ते नियुङ्क्ष्व ॥ १०॥ कैङ्कर्यं यत्तुरगवदन त्वत्त्वदीयप्रसत्त्यै भक्तेर्ज्ञानस्य च दृढभुवस्तत्परीवाहभूतम् । ज्ञानं तन्मे वितनु कृपया दुष्कृतान्ताः कृतान्त- प्रीत्यै जाता भुवि बहुतताः येन निर्मूलिताः स्युः ॥ ११॥ त्वत्सारूप्यं सितहयमुख त्वत्स्नुषा प्राप्य पत्यु- र्जिह्वावासा जयति चतुरास्यश्च स त्वत्कृपातः । पौत्रः शम्भुर्गिरिवरपतिर्दक्षिणामूर्तिरेवं सर्वज्ञोऽभून्मयि च निखिलो बन्धुरेवं प्रसीद ॥ १२॥ मधुसूदनवीक्षणावदाता इति तस्मिन् महिते निवेदयन्तः । शुभधीगुणशील वाग्विलासाः सुखिनः स्युः स्वकरस्थपूरुषार्थाः ॥ १३॥ इति श्रीहयग्रीवाभिगमनं सम्पूर्णम् ।