अक्षर आकार:

श्रीहयग्रीवाष्टोत्तरशतनामावलिः

shrIhayagrIvAShTottarashatanAmAvaliH

श्रीहयग्रीवाष्टोत्तरशतनामावलिः

ॐ हयग्रीवाय नमः । ॐ महाविष्णवे नमः । ॐ केशवाय नमः । ॐ मधुसूदनाय नमः । ॐ गोविन्दाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ विष्णवे नमः । ॐ विश्वम्भराय नमः । ॐ हरये नमः । ॐ आदित्याय नमः । ॐ सर्ववागीशाय नमः । ॐ सर्वाधाराय नमः । ॐ सनातनाय नमः । ॐ निराधाराय नमः । ॐ निराकाराय नमः । ॐ निरीशाय नमः । ॐ निरुपद्रवाय नमः । ॐ निरञ्जनाय नमः । ॐ निष्कलङ्काय नमः । ॐ नित्यतृप्ताय नमः ॥ २० ॐ निरामयाय नमः । ॐ चिदानन्दमयाय नमः । ॐ साक्षिणे नमः । ॐ शरण्याय नमः । ॐ सर्वदायकाय नमः । ॐ श्रीमते नमः । ॐ लोकत्रयाधीशाय नमः । ॐ शिवाय नमः । ॐ सारस्वतप्रदाय नमः । ॐ वेदोद्धर्त्रे नमः । ॐ वेदनिधये नमः । ॐ वेदवेद्याय नमः । ॐ प्रबोधनाय नमः । ॐ पूर्णाय नमः । ॐ पूरयित्रे नमः । ॐ पुण्याय नमः । ॐ पुण्यकीर्तये नमः । ॐ परात्पराय नमः । ॐ परमात्मने नमः । ॐ परस्मै नमः । ॐ ज्योतिषे नमः ॥ ४० ॐ परेशाय नमः । ॐ पारगाय नमः । ॐ पराय नमः । ॐ सर्ववेदात्मकाय नमः । ॐ विदुषे नमः । ॐ वेदवेदान्तपारगाय नमः । ॐ सकलोपनिषद्वेद्याय नमः । ॐ निष्कलाय नमः । ॐ सर्वशास्त्रकृते नमः । ॐ अक्षमालाज्ञानमुद्रायुक्तहस्ताय नमः । ॐ वरप्रदाय नमः । ॐ पुराणपुरुषाय नमः । ॐ श्रेष्ठाय नमः । ॐ शरण्याय नमः । ॐ परमेश्वराय नमः । ॐ शान्ताय नमः । ॐ दान्ताय नमः । ॐ जितक्रोधाय नमः । ॐ जितामित्राय नमः । ॐ जगन्मयाय नमः ॥ ६० ॐ जन्ममृत्युहराय नमः । ॐ जीवाय नमः । ॐ जयदाय नमः । ॐ जाड्यनाशनाय नमः । ॐ जपप्रियाय नमः । ॐ जपस्तुत्याय नमः । ॐ जापकप्रियकृते नमः । ॐ प्रभवे नमः । ॐ विमलाय नमः । ॐ विश्वरूपाय नमः । ॐ विश्वगोप्त्रे नमः । ॐ विधिस्तुताय नमः । ॐ विधीन्द्रशिवसंस्तुत्याय नमः । ॐ शान्तिदाय नमः । ॐ क्षान्तिपारगाय नमः । ॐ श्रेयःप्रदाय नमः । ॐ श्रुतिमयाय नमः । ॐ श्रेयसां पतये नमः । ॐ ईश्वराय नमः । ॐ अच्युताय नमः ॥ ८० ॐ अनन्तरूपाय नमः । ॐ प्राणदाय नमः । ॐ पृथिवीपतये नमः । ॐ अव्यक्ताय नमः । ॐ व्यक्तरूपाय नमः । ॐ सर्वसाक्षिणे नमः । ॐ तमोहराय नमः । ॐ अज्ञाननाशकाय नमः । ॐ ज्ञानिने नमः । ॐ पूर्णचन्द्रसमप्रभाय नमः । ॐ ज्ञानदाय नमः । ॐ वाक्पतये नमः । ॐ योगिने नमः । ॐ योगीशाय नमः । ॐ सर्वकामदाय नमः । ॐ महायोगिने नमः । ॐ महामौनिने नमः । ॐ मौनीशाय नमः । ॐ श्रेयसां निधये नमः । ॐ हंसाय नमः ॥ १०० ॐ परमहंसाय नमः । ॐ विश्वगोप्त्रे नमः । ॐ विराजे नमः । ॐ स्वराजे नमः । ॐ शुद्धस्फटिकसङ्काशाय नमः । ॐ जटामण्डलसंयुताय नमः । ॐ आदिमध्यान्तरहिताय नमः । ॐ सर्ववागीश्वरेश्वराय नमः ॥ १०८ श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । इति हयग्रीवाष्टोत्तरशतनामावलिः समाप्ता ।