अक्षर आकार:

श्रीहर्यष्टकम्

Shri Haryashtakam

श्रीहर्यष्टकम्

प्रह्लादकृतम् हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥ १॥ स गङ्गा स गया सेतुः स काशी स च पुष्करम् । जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २॥ वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च । यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३॥ पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४॥ गवां कोटिसहस्राणि हेमकन्यासहस्रकम् । दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५॥ ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः । अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६॥ अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च । इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७॥ प्राणः प्रयाणपाथेयं संसारव्याधिनाशनम् । दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८॥ बद्धः परिकरस्तेन मोक्षाय गमनं प्रति । सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ ९॥ हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् । आयुष्यं बलमारोग्यं यशो वृद्धिश्श्रियावहम् ॥ १०॥ प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् । यः पठेत्स नरो याति तद्विष्णोः परमं पदम् ॥ ११॥ इति प्रह्लादकृतं श्रीहर्यष्टकं सम्पूर्णम् ।