भक्तेच्छापूर्तिकरं हरिस्तोत्रम् अथवा वेगासेतुस्तोत्रम्
श्रीगणेशाय नमः ।
एकं वेगवती मध्ये हस्तिशैले च दृश्यते ।
उपायफलभावेन स्वयं व्यक्तं परं महः ॥ १॥
ईष्टे गमयितुं पारमेष सेतुरभङ्गुरः ।
यत्र सारस्वतं स्रोतो विश्राम्यति विशृङ्खलम् ॥ २॥
जयति जगदेकसेतुर्वेगवतीमध्यलक्षितो देवः ।
प्रशमयति यः प्रजानां प्रथितः संसारजलधिकल्लोलान् ॥ ३॥
विभातु मे चेतसि विष्णुसेतुर्वेगापगावेगविघातहेतुः ।
अम्भोजयोनेर्यदुपज्ञमासीदभङ्गरक्षाहयमेधदीक्षा ॥ ४॥
चतुराननसप्ततन्तुगोप्ता समये तत्परिपन्थिनो निरुन्धन् ।
परिपुष्यति मङ्गलानि पुंसां भगवान् भक्तिमतां यथोक्तकारी ॥ ५॥
श्रीमान् पितामहवधूपरिचर्यमाणः शेते भुजङ्गशयने समहाभुजङ्गः ।
प्रत्यादिशन्ति भवसञ्चरणं प्रजानां भक्तानुगन्तुरिह तस्य गतागतानि ॥ ६॥
प्रशमितहयमेधव्यापदं पद्मयोनेः
श्रितजनपरतन्त्रं शेषभोगे शयानम् ।
शरणमुपगताः स्म शान्तनिःशेषदोषं
शतमखमणिसेतुं शाश्वतं वेगवत्याः ॥ ७॥
शरणमुपगतानां सोऽयमादेशकारी
शमयति परितापं सम्मुखः सर्वजन्तोः ।
शतगुणपरिणामः सन्निधौ यस्य नित्यं
वरवितरणभूमा वारणार्द्रीश्वरस्य ॥ ८॥
काञ्चीभाग्यं कमलनिलया चेतसोऽभीष्टसिद्विः
कल्याणानां निधिरविकलः कोऽपि कारुसयराशिः ।
पुण्यानां नः परिणतिरसौ भूषयन् भोगिशय्यां
वेगासेतुर्जयति विपुलो विश्वरक्षैकहेतुः ॥ ९॥
वेगासेतोरिदं स्तोत्रं वेकटेशेन निर्मितम् ।
ये पठन्ति जनास्तेषां यथोक्तं कुरुते हरिः ॥ १०॥
इति श्रीवेदान्तदेशिककृतं वेगासेतुस्तोत्रं अथवा
भक्तेच्छापूर्तिकरं हरिस्तोत्रं सम्पूर्णम् ॥
(काञ्चीक्षेत्रे वेगवतीतीरे रचितम्)
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):