अक्षर आकार:

हरिस्तवम्

Haristavam

हरिस्तवम्

अरुणायुतदीप्रकिरीटमहः प्रकराञ्चितनीरदनीलकचम् । कुटिलालकसञ्जितभृङ्गचयं कलये हरिमम्बुजनेत्रमहम् ॥ १॥ अमृतांशुकिशोरललाटतटस्फुरदूर्ध्वगचन्दनपुण्ड्रधरम् । कुसुमेषुधनुभ्रुवमभ्रतनुं कलये हरिमम्बुजनेत्रमहम् ॥ २॥ नतरक्षणदीक्षितपूर्णकृपामृतविक्षणपक्ष्मलनेत्रयुगम् । मृदुलोन्नतनासममेयगुणं कलये हरिमम्बुजनेत्रमहम् ॥ ३॥ मकराकृतिकुण्डलमण्डितसन्मणिदर्पणनिर्मलगण्डतलम् । कमलास्वदिताधरबिम्बसुधं कलये हरिमम्बुजनेत्रमहम् ॥ ४॥ मृदुलस्मितचारुमुखच्छविनिर्जितपार्विकशीतकरम् । नवभास्करकौस्तुभशोभिगलं कलये हरिमम्बुजनेत्रमहम् ॥ ५॥ अरिकबुगदाम्बुरुहात्तरिपुक्षतिकण्ठतुलार्तिशमात्मतुलैः । परमाद्भुतपाणिभिरुज्ज्वलितं कलये हरिमम्बुजनेत्रमहम् ॥ ६॥ सदुपायचतुष्टयसङ्कथनैरिव सुन्दरकङ्कणसङ्क्वणनैः । स्फुरितैरपि तैस्सुभुजैर्लसितं कलये हरिमम्बुजनेत्रमहम् ॥ ७॥ भृगुपादसमर्पणसम्भणितश्रितमन्तु सहिष्णु सुबन्धुगुणे । उरसि श्रियमात्तरसा दधतं कलये हरिमम्बुजनेत्रमहम् ॥ ८॥ रसमज्जनसूनसुगन्धसुखप्रदकेलिकृते जलधेर्दुहितुः । धृतहारसरिद्वनमालमजं कलये हरिमम्बुजनेत्रमहम् ॥ ९॥ उदरान्तरुदूढजगद्गणनानिपुणाननुमेयसुरोमलतम् । त्रिवलिस्फुरितं जठरं दधतं कलये हरिमम्बुजनेत्रमहम् ॥ १०॥ असमास्त्ररथाङ्गजयात्तकनत्कनकाम्बराशोभिनितम्बतलं मणिमेखलया दृढबद्धकटीं कलये हरिमम्बुजनेत्रमहम् ॥ ११॥ कदलीतरुकाण्डकरीन्द्रकरप्रतिमानमनोज्ञतरोरुयुगम् । विधिभूषितनाभिशुभाम्बुरुहं कलये हरिमम्बुजनेत्रमहम् ॥ १२॥ शरणागतलोकहितार्थलसन्निधिमुग्धसमुद्गकजानुयुगं शिखिवर्यगलस्तुतजङ्घमजं कलये हरिमम्बुजनेत्रमहम् ॥ १३॥ प्रपदद्युतिनिन्दितकूर्मवरं मणिनूपुरशिञ्जितमञ्जुपदम् । शशिशुभ्रनखं दुरितौघहरं कलये हारिमम्बुजनेत्रमहम् ॥ १४॥ विधिमाधवशम्भुविभेदकृतत्रिजगद्भवपालनसंहरणम् । सकलागमसारागतं सततं कलये हरिमम्बुजनेत्रमहम् ॥ १५॥ मुनिमानससारसहंसवरं भुजगाधिपत्ल्पगतं सुखदम् । भवसागरपातुकपोतपदं कलये हरिमम्बुजनेत्रमहम् ॥ १६॥ श्रितलोकहितार्थदकल्पतरुं दितिजक्षयतत्परचक्रधरम् । विहगाधिपवाहनमाधिहरं कलये हरिमम्बुजनेत्रमहम् ॥ १७॥ जगदार्तिहरस्य हरेरिति यः स्तवमेतमहर्मुखमेव पठेत् । स लभेदखिलेप्सितमत्रपरं चरमे समुपेति हि मुक्तिपदम् ॥ १८॥ इति श्रीमति कुञ्ञिलक्ष्मियम्म कृतं हरिस्तवं सम्पूर्णम् ।