अक्षर आकार:

हरिहरस्तुतिः

Hariharastutih

हरिहरस्तुतिः

जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ । कामारिं कामतातं वा कञ्चिद्देवं भजामहे ॥ १॥ गाङ्गयामुनयोगेन तुल्यं हारिहरं वपुः । पातु नाभिगतं पद्मं यस्य तन्मध्यगं यथा ॥ २॥ अबलाढ्यविग्रहश्रीरमर्त्यनतिरक्षमालयोपेतः । पञ्चक्रमोदितमुखः पायात्परमेश्वरो मुहुरनादिः ॥ ३॥ पन्नगधारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुजः । शशिखण्डशेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम् ॥ ४॥ गवीशपत्रो नगजार्तिहारी कुमारतातः शशिखण्डमौलिः । लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो वः ॥ ५॥ स्फटिकमरकतश्रीहारिणोः प्रीतियोगात् तदवतु वपुरेकं कामकंसद्विषोर्वः । भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृशमहसि कण्ठे यत्र सीमाविवादः ॥ ६॥ सम्प्राप्तं मकरध्वजेन मथनं त्वत्तो मदर्थे पुरा तद्युक्तं बहुमार्गगां मम पुरो निर्लज्ज वोढुस्तव । तामेवानुनयस्व-भावकुटिलां हे कृष्ण कण्ठग्रहं मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स वः ॥ ७॥ यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ । द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौ ॥ ८॥ लोले ब्रूहि कपालिकामिनि पिता कस्ते पतिः पाथसां कः प्रत्येति जलादपत्यजननं प्रत्येति यः प्रस्तरात् । इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरीं संस्मेरस्य हरेर्हरस्य च मुदो निघ्नन्तु विघ्नं तु वः ॥ ९॥ यस्मादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गां वामा यस्याङ्गसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि । लङ्केशाद्येकनाथो हिमकररुचिभृद्भूविशेषाश्रयोऽसौ वर्णस्याद्यस्य लोपादपहरतु हरिः पातकं वः स्मरारिः ॥ १०॥ इति हरिहरस्तुतिः समाप्ता ।