अक्षर आकार:

श्रीहंसगुह्यस्तोत्रम्

shrIhaMsaguhyastotram

श्रीहंसगुह्यस्तोत्रम्

नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अदृष्टधाम्ने गुणतत्त्वबुद्धिभिः निवृत्तमानाय दधे स्वयम्भुवे ॥ १॥ न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन्संवसतः पुरेऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टेः तस्मै महेशाय नमस्करोमि ॥ २॥ देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे ॥ ३॥ यदोपरामो मनसो नामरूप- रूपस्य दृष्टस्मृतिसप्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥ ४॥ मनीषिणोऽन्तर्हदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम् ॥ ५॥ स वै ममाशेषविशेषमाया निषेधनिवाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ ६॥ यद्यन्निरुक्तं वचसा निरूपितं धियाऽक्षभिर्वा मनसा वोत यस्य । मा भूत्स्वरूपं गुणरूपं हि तत्तत् स वै गुणापायविसर्गलक्षणः ॥ ७॥ यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरूते कार्यते च । परावरेषां परमं प्राक् प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ ८॥ यच्छक्तयो वदतां वादितां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ९॥ अस्तीति नास्तीति च वस्तुनिष्ठयोः एकस्थयोर्भिन्नविरुद्धधर्मयोः । अवेक्षितं किं च न योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत् ॥ १०॥ योऽनुगहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः । नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ॥ ११॥ यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम् ॥ १२॥ इति हंसगुह्यस्तोत्रं सम्पूर्णम् ।