अक्षर आकार:

श्रीगुसा‍ईंजीकृतदण्डकः

shrIgusAInjIkRRitadaNDakaH

श्रीगुसा‍ईंजीकृतदण्डकः

व्रजराजविराजितघोषवरे वरणीयमनोहररूपधरे । धरणीरमणीरमणैकपरे परमार्तिहरस्मितविभ्रमके ॥ १॥ मकराकृतिकुण्डलशोभिमुखे मुखरीकृतनूपुरहृद्यगते । गतिसङ्गतभूतलतापहरे हरसक्तविमोहनगानपरे ॥ २॥ परमप्रियगोपवधूहृदये दययाऽमिततापहरे सुहृदाम् । हृदयस्थितगोकुलवासजने जनहृद्यविहारपरे सततम् ॥ ३॥ ततवेणुनिनादविनोदपरे परचित्तहरे स्मितमात्रकथे । कथनीयगुणालयपादयुगे युगले युगले सृदृशां सुरते ॥ रतिरस्तु मम व्रजराजसुते ॥ ४॥ इति श्रीगुसा‍ईंजीकृतदण्डकः समाप्तः ।