अक्षर आकार:

श्रीगुरुवायुपुरेशसुप्रभातम्

Shri Guruvayupuresa Suprabhatam

श्रीगुरुवायुपुरेशसुप्रभातम्

उत्तिष्ठ कृष्ण गुरुवायुपुरेश शौरे उत्तिष्ठ देव वसुदेवसुपुण्यमूर्ते । उत्तिष्ठ माधव जनार्दन राधिकेश त्रैलोक्यमेतदखिलं कुरु मङ्गलाढ्यम् ॥ १॥ श्रीजामदग्न्यभुवि सर्वजगद्धितार्थे जीवेन मारुतयुतेन कृतप्रतिष्ठम् । गुर्वादिवायुपुरनाथमनाथनाथं वाचा नमामि मनसां वचसामगम्यम् ॥ २॥ विश्वप्रकाश गुरुवायुकृतप्रतिष्ठ क्षेत्रज्ञरूप परमेश्वर विश्वबन्धो । आनन्दरूप जगतां स्थितिसृष्टि हेतो स्वात्मानमेव भगवन्तमभीष्टवीमि ॥ ३॥ मायागृहीतविधिविष्णुमहेशरूप सूत्रात्म वायुगुरुगेहग विश्वरूप । विश्वोद्भवप्रलयकेलिषुलोल भूमन् ब्रह्मात्मरूप बहुरूप नमो नमस्ते ॥ ४॥ मायामहाजवनिकापिहितात्मदृष्टिः विश्वोद्भव प्रलयकेलिषु जागरूकम् । नित्यप्रबुद्धमपि बोधयितुं प्रवृत्तः सूर्यं तमोवृतमवैति तमोऽन्धदृष्टिः ॥ ५॥ निद्रा न तेऽस्ति जितमाय सदाऽप्रमेय मायाप्रपञ्चनवनाटकसूत्रधारिन् । लोकानुसारविधाय ननु बोध्यसे त्वं वातालयेश्वर विभो तव सुप्रभातम् ॥ ६॥ श्रीव्यासनारदसनन्दसनत्कुमार- दुर्वासगर्गकपिलाद्यखिला मुनीन्द्राः । प्राप्ता हरे तव पदाम्बुजदर्शनार्थं वातालयेश्वर विभो तव सुप्रभातम् ॥ ७॥ प्रत्यूषपूजनरताः किल पूजकास्ते पुष्पोपहारतुलसीदधिदुग्धहस्ताः । सम्बोधयन्ति भगवन् श्रुतिसूक्तपाठैः वातालयेश्वर विभो तव सुप्रभातम् ॥ ८॥ भक्ता जनाः सुकदलीफलशर्करादि हैयङ्गवीनपृथुकान्वितलाजपूपान् । तुभ्यं निवेदयितुमद्य समागतास्ते वातालयेश्वर विभो तव सुप्रभातम् ॥ ९॥ वातादिरोगपरिपीडितसर्वगात्राः दूरात्समेत्य सततं त्वयि भक्तियुक्ताः । कृष्णाच्युताघहरणाम्बुजनाभ विष्णो नारायणाम्बुजभवादिनिषेविताङ्घ्रे । मां पाहि वातपुरनाथ समीरयन्ति वातालयेश्वर विभो तव सुप्रभातम् ॥ १०॥ दूरात्समेत्य मनुजास्तव चक्रतीर्थे स्नात्वा विशुद्धहृदयाः फलपुष्पहस्ताः । त्वत्पुण्यनामगणजापरता भजन्ते वातालयेश्वर विभो तव सुप्रभातम् ॥ ११॥ त्वां देवकी च वसुदेवसुतश्च नन्दः सुप्तप्रबुद्धमिह दुग्धकरा यशोदा । त्वत्प्रेमभारभरिताः प्रतिपालयन्ति वातालयेश्वर विभो तव सुप्रभातम् ॥ १२॥ मायात्तदेह मधुसूदन विश्वमूर्ते कायात्तवार्चितपदाम्बुज पुण्यकीर्ते । राधाधरस्थमधुलोलुप रम्यमूर्ते वातालयेश्वर विभो तव सुप्रभातम् ॥ १३॥ मीनाकृते श्रुतिसमुद्धरणाय पूर्वं कूर्माकृते गिरिसमुद्धरणाय पश्चात् । कोलाकृते क्षितिसमुद्धरणाय भूमन् गोपाल सुन्दर विभो तव सुप्रभातम् ॥ १४॥ श्रीनारसिंह दितिजक्षयहेतुभूत प्रह्लादरक्षक विभो वटुवामनाख्य । श्रीराम भार्गव हलायुध कृष्ण कल्किन् वातालयेश्वर विभो तव सुप्रभातम् ॥ १५॥ श्रीकृष्ण वृष्णिवर यादव राधिकेश गोवर्धनोद्धरण कंसविनाश शौरे । गोपाल वेणुधर पाण्डुसुतैकबन्धो श्रीमारुतालयविभो तव सुप्रभातम् ॥ १६॥ कृष्णेति वर्णयुगमत्र सुकीर्तनेन भक्तास्तरन्ति भवसिन्धुमयत्नतो हि । सत्येवमेनमतिदीनमुपेक्षसे किं कृष्णाखिलेश्वर विभो तव सुप्रभातम् ॥ १७॥ नित्यं च भागवतवाचनबद्धदीक्षाः भक्ताः कथाश्रवणकौतुकिनश्च शौरे । त्वत्सन्निधावनुमतिं किल तेऽर्थयन्ते वातालयेश्वर सुजागरणं तवास्तु ॥ १८॥ var विभो तव सुप्रभातम् ॥ भक्तान् विलोकय दृशा करुणार्द्रया त्वं आश्वेव ताननुगृहाण कृतार्थयेश । त्वत्पादयोर्वितर भक्तिमचञ्चलां मे नित्यं गृणामि वचसा तव मङ्गलानि ॥ १९॥ सर्वोपनिषदीड्याय निर्गुणाय गुणात्मने । शङ्कराभिन्नरूपाय सच्चिद्रूपाय मङ्गलम् ॥ २०॥ सत्यभामासमेताय सत्यानन्दस्वरूपिणे रुक्मिणीप्राणनाथाय लोकपूज्याय मङ्गलम् ॥ २१॥ राधाधरमधुप्रीतमानसाय महात्मने गोपगोपीसमेताय गोपालायास्तु मङ्गलम् ॥ २२॥ मङ्गलं वेदवेद्याय वासुदेवाय मङ्गलम् । मङ्गलं पद्मनाभाय पुण्यश्लोकाय मङ्गलम् ॥ २३॥ मङ्गलं परमानन्दब्रह्मरूपाय मङ्गलम् । गुरुवायुपुरेशाय श्रीकृष्णायास्तु मङ्गलम् ॥ २४॥ इति श्रीगुरुवायुपुरेशसुप्रभातं सम्पूर्णम् ।