अक्षर आकार:

गुरुवायुरप्प अथवा नारायणीय तथा रोगहरसहस्रनामस्तोत्रम्

GuruvAyurappa or NarAyaniya or Rogaharasahasranamastotram

गुरुवायुरप्प अथवा नारायणीय तथा रोगहरसहस्रनामस्तोत्रम्

अथ ध्यानम् । सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित- श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी- मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ यत्त्रैक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रुपमाश्चर्यतो- ऽप्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ अथ स्तोत्रम् । गुरुवायुपुराधीशो सान्द्रानन्दावबोधदः । रुजासाकल्यसंहर्ता दुरिताटविदाहकः ॥ १॥ वायुरूपो वागतीतः सर्वबाधाप्रशामकः । युगन्धरो युगातीतो योगमायासमन्वितः ॥ २॥ पुरुजित्पुरुषव्याघ्रः पुराणपुरुषः प्रभुः । राधाकान्तो रमाकान्तः रतीरमणजन्मदः ॥ ३॥ धीरोऽधीशो धनाध्यक्षो धरणीपतिरच्युतः । शरण्यः शर्मदः शान्तः सर्वशान्तिकरः स्मृतः ॥ ४॥ मतिमान्माधवो मायी मानातीतो महाद्युतिः । मतिमोहपरिच्छेत्ता क्षयवृद्धिविवर्जितः ॥ ५॥ रोगपावकदग्धानाममृतस्यन्ददायकः । गतिस्समस्तलोकानां गणनातीतवैभवः ॥ ६॥ मरुद्गणसमाराध्यो मारुतागारवासकः । पालकस्सर्वलोकानां पूरकस्सर्वकर्मणाम् ॥ ७॥ कुरुविन्दमणीबद्धदिव्यमालाविभूषितः । रुक्महारावलीलोलवक्षःशोभाविराजितः ॥ ८॥ सूर्यकोटिप्रभाभास्वद्बालगोपालविग्रहः । रत्नमायूरपिञ्छोद्यत्सौवर्णमुकुटाञ्चितः ॥ ९॥ काळाम्बुदरुचिस्पर्धिकेशभारमनोहरः । मालेयतिलकोल्लासिफालबालेन्दुशोभितः ॥ १०॥ आर्तदीनकथालापदत्तश्रोत्रद्वयान्वितः । भ्रूलताचलनोद्भूतनिर्धूतभुवनावलिः ॥ ११॥ भक्ततापप्रशमनपीयुषस्यन्दिलोचनः । कारुण्यस्निग्धनेत्रान्तः काङ्क्षितार्थपदायकः ॥ १२॥ अनोपमितसौभाग्यनासाभङ्गिविराजितः । मकरमत्स्यसमाकाररत्नकुण्डलभूषितः ॥ १३॥ इन्द्रनीलशिलादर्शगण्डमण्डलमण्डितः । दन्तपङ्क्तिद्वयोद्दीप्तदरस्मेरमुखाम्बुजः ॥ १४॥ मन्दस्मितप्रभामुग्धसर्वदेवगणावृतः । पक्वबिम्बफलाधर ओष्ठकान्तिविलासितः ॥ १५॥ सौन्दर्यसारसर्वस्वचिबुकश्रीविराजितः । कौस्तुभाभालसत्कण्ठः वन्यमालावलीवृतः ॥ १६॥ महालक्ष्मीसमाविष्टश्रीवत्साङ्कितवक्षसः । रत्नाभरणशोभाढ्यो रामणीयकशेवधिः ॥ १७॥ वलयाङ्गदकेयुरकमनीयभुजान्वितः । वेणुनाळीलसद्धस्तः प्रवाळाङ्गुलिशोभितः ॥ १८॥ चन्दनागरुकाश्मीरकस्तूरीकळभाञ्चितः । अनेककोटिब्रह्माण्डसङ्गृहीतमहोदरः ॥ १९॥ कृशोदरः पीतचेलापरिवीतकटीतटः । ब्रह्मावासमहापद्मावालनाभिप्रशोभितः ॥ २०॥ पद्मनाभो रमाकान्तः फुल्लपद्मनिभाननः । रशनादामसन्नद्धहेमवस्त्रपरिच्छदः ॥ २१॥ गोपस्त्रीहृदयोन्माथिकोमळोरुद्वयान्वितः । नीलाश्मपेटकाकारजानुद्वन्द्वमनोहरः ॥ २२॥ कामतुणीरसङ्काशचारुजङ्घाविशोभितः । नमज्जनसमस्तार्तिहारिपादद्वयान्वितः ॥ २३॥ वैद्यनाथप्रणमितः वेदवेदाङ्गकारकः । सर्वतापप्रशमनः सर्वरोगनिवारकः ॥ २४॥ सर्वपापप्रमोचकः दुरितार्णवतारकः । ब्रह्मरूपः सृष्टिकर्ता विष्णुरूपः परित्राता ॥ २५॥ शिवरूपः सर्वभक्षः क्रियाहीनः परम्ब्रह्मः । विकुण्ठलोकसंवासी वैकुण्ठो वरदो वरः ॥ २६॥ सत्यव्रततपःप्रीतः शिशुमीनस्वरूपवान् । महामत्स्यत्वमापन्नो बहुधावर्धितः स्वभूः ॥ २७॥ वेदशास्त्रपरित्राता हयग्रीवासुहारकः । क्षीराब्धिमथनाध्यक्षः मन्दरच्युतिरोधकः ॥ २८॥ धृतमहाकूर्मवपुः महापतगरूपधृक् । क्षीराब्धिमथनोद्भूतरत्नद्वयपरिग्रहः ॥ २९॥ धन्वन्तरीरूपधारी सर्वरोगचिकित्सकः । सम्मोहितदैत्यसङ्घः मोहिनीरूपधारकः ॥ ३०॥ कामेश्वरमनस्थैर्यनाशकः कामजन्मदः । यज्ञवाराहरूपाढ्यः समुद्धृतमहीतलः ॥ ३१॥ हिरण्याक्षप्राणहारी देवतापसतोषकः । हिरण्यकशिपुक्रौर्यभीतलोकाभिरक्षकः ॥ ३२॥ नारसिंहवपुः स्थूलसटाघट्टितखेचरः । मेघारावप्रतिद्वन्द्विघोरगर्जनघोषकः ॥ ३३॥ वज्रक्रूरनखोद्घातदैत्यगात्रप्रभेदकः । असुरासृग्वसामांसलिप्तभीषणरूपवान् ॥ ३४॥ सन्त्रस्तदेवर्षिसङ्घः भयभीतजगत्त्रयः । प्रह्लादस्तुतिसन्तुष्टः शान्तः शान्तिकरः शिवः ॥ ३५॥ देवहूतीसुतः प्राज्ञः साङ्ख्ययोगप्रवाचकः । महर्षिः कपिलाचार्यः धर्माचार्यकुलोद्वहः ॥ ३६॥ वेनदेहसमुद्भूतः पृथुः पृथुलविक्रमः । गोरूपिणीमहीदोग्धा सम्पद्दुग्धसमार्जितः ॥ ३७॥ आदितेयः काश्यपश्च वटुरूपधरः पटुः । महाबलिबलध्वंसी वामनो याचको विभुः ॥ ३८॥ द्विपादमातत्रैलोक्यः त्रिविक्रमस्त्रयीमयः । जामदग्न्यो महावीरः शिवशिष्यः प्रतापवान् ॥ ३९॥ कार्तवीर्यशिरच्छेत्ता सर्वक्षत्रियनाशकः । समन्तपञ्चकस्रष्टा पितृप्रीतिविधायकः ॥ ४०॥ सर्वसङ्गपरित्यागी वरुणाल्लब्धकेरळः । कौसल्यातनयो रामः रघुवंशसमुद्भवः ॥ ४१॥ अजपौत्रो दाशरथिः शत्रुघ्नभरताग्रजः । लक्ष्मणप्रियभ्राता च सर्वलोकहिते रतः ॥ ४२॥ वसिष्ठशिष्यः सर्वज्ञः विश्वामित्रसहायकः । ताटकामोक्षकारी च अहल्याशापमोचकः ॥ ४३॥ सुबाहुप्राणहन्ता च मारीचमदनाशनः । मिथिलापुरिसम्प्राप्तः शैवचापविभञ्जकः ॥ ४४॥ सन्तुषितसर्वलोको जनकप्रीतिवर्धकः । गृहीतजानकीहस्तः सम्प्रीतस्वजनैर्युतः ॥ ४५॥ परशुधरगर्वहन्ता क्षत्रधर्मप्रवर्धकः । सन्त्यक्तयौवराज्यश्च वनवासे नियोजितः ॥ ४६॥ सीतालक्ष्मणसंयुक्तः चीरवासा जटाधरः । गुहद्रोणीमुपाश्रित्य गङ्गापारमवाप्तवान् ॥ ४७॥ संसारसागरोत्तारपादस्मरणपावनः । रोगपीडाप्रशमनः दौर्भाग्यध्वान्तभास्करः ॥ ४८॥ काननावाससन्तुष्टः वन्यभोजनतोषितः । दुष्टराक्षससंहर्ता मुनिमण्डलपूजितः ॥ ४९॥ कामरूपाशूर्पणखानासाकर्णविकृन्तकः । खरमुखासुरमुख्यानामसङ्ख्यबलनाशकः ॥ ५०॥ मायामृगसमाकृष्टः मायामानुषमूर्तिमान् । सीताविरहसन्तप्तः दारान्वेषणव्यापृतः ॥ ५१॥ जटायुमोक्षदाता च कबन्धगतिदायकः । हनूमत्सुग्रीवसखा बालिजीवविनाशकः ॥ ५२॥ लीलानिर्मितसेतुश्च विभीषणनमस्कृतः । दशास्यजीवसंहर्ता भूमिभारविनाशकः ॥ ५३॥ धर्मज्ञो धर्मनिरतो धर्माधर्मविवेचकः । धर्ममूर्तिस्सत्यसन्धः पितृसत्यपरायणः ॥ ५४॥ मर्यादापुरुषो रामः रमणीयगुणाम्बुधिः । रोहिणीतनयो रामः बलरामो बलोद्धतः ॥ ५५॥ कृष्णज्येष्ठो गदाहस्तः हली च मुसलायुधः । सदामदो महावीरः रुक्मिसूतनिकृन्तनः ॥ ५६॥ काळिन्दीदर्पशमनः कालकालसमः सुधीः । var काळीयदर्पशमनः आदिशेषो महाकायः सर्वलोकधुरन्धरः ॥ ५७॥ शुद्धस्फटिकसङ्काशो नीलवासो निरामयः । वासुदेवो जगन्नाथः देवकीसूनुरच्युतः ॥ ५८॥ धर्मसंस्थापको विष्णुरधर्मिगणनाशकः । कात्यायनीसहजनी नन्दगोपगृहे भृतः ॥ ५९॥ कंसप्रेरितपैशाचबाधासङ्घविनाशकः । गोपालो गोवत्सपालः बालक्रीडाविलासितः ॥ ६०॥ क्षीरचोरो दधिचोरः गोपीहृदयचोरकः । घनश्यामो मायूरपिञ्छाभूषितशीर्षकः ॥ ६१॥ गोधूळीमलिनाकारो गोलोकपतिः शाश्वतः । गर्गर्षिकृतसंस्कारः कृष्णनामप्रकीर्तितः ॥ ६२॥ आनन्दरूपः श्रीकृष्णः पापनाशकरः कृष्णः । श्यामवर्णतनुः कृष्णः शत्रुसंहारकः कृष्णः ॥ ६३॥ लोकसङ्कर्षकः कृष्णः सुखसन्दायकः कृष्णः । बाललीलाप्रमुदितः गोपस्त्रीभाग्यरूपकः ॥ ६४॥ दधिजप्रियः सर्प्यश्नी दुग्धभक्षणतत्परः । वृन्दावनविहारी च काळिन्दीक्रीडनोत्सुकः ॥ ६५॥ गवलमुरळीवेत्रः पशुवत्सानुपालकः । अघासुरप्राणहारी ब्रह्मगर्वविनाशकः ॥ ६६॥ काळियमदमर्दकः परिपीतदवानलः । दुरितवनदाहकः प्रलम्बासुरनाशकः ॥ ६७॥ कामिनीजनमोहनः कामतापविनाशकः । इन्द्रयागनिरोधकः गोवर्धनाद्रिपूजकः ॥ ६८॥ इन्द्रदर्पविपाटकः गोवर्धनो गिरिधरः । सुरभिदुग्धाभिषिक्तो गोविन्देति प्रकीर्तितः ॥ ६९॥ वरुणार्चितपादाब्जः संसाराम्बुधितारकः । रासलीलाविलासितः श‍ृङ्गारैकरसालयः ॥ ७०॥ मुरळीगानमाधुर्यमत्तगोपीजनावृतः । राधामानसतोषकः सर्वलोकसन्तोषकः ॥ ७१॥ गोपिकागर्वशमनः विरहक्लेशनाशकः । सुदर्शनचक्रधरः शापमुक्तसुदर्शनः ॥ ७२॥ शङ्खचूडकृतान्तश्च अरिष्टासुरमर्दकः । शूरवंशकुलोद्भूतः केशवः केशिसूदनः ॥ ७३॥ व्योमासुरनिहन्ता च व्योमचारप्रणमितः । दुष्टकंसवधोद्युक्तः मथुरापुरिमाप्तवान् ॥ ७४॥ बलरामसहवर्ती यागचापविपाटकः । कुवलयापीडमर्दकः पिष्टचाणूरमुष्टिकः ॥ ७५॥ कंसप्राणसमाहर्ता यदुवंशविमोचकः । जरासन्धपराभूतः यवनेश्वरदाहकः ॥ ७६॥ द्वारकापुरनिर्माता मुचुकुन्दगतिप्रदः । रुक्मिणीहारको रुक्मिवीर्यहन्ताऽपराजितः ॥। ७७॥ परिगृहीतस्यमन्तकः धृतजाम्बवतीकरः । सत्यभामापतिश्चैव शतधन्वानिहन्तकः ॥ ७८॥ कुन्तीपुत्रगुणग्राही अर्जुनप्रीतिकारकः । नरकारिर्मुरारिश्च बाणहस्तनिकृन्तकः ॥ ७९॥ अपहृतपारिजातः देवेन्द्रमदभञ्जकः । नृगमोक्षदः पौण्ड्रकवासुदेवगतिप्रदः ॥ ८०॥ काशिराजशिरच्छेत्ता भस्मीकृतसुदक्षिणः । जरासन्धमृत्युकारी शिशुपालगतिप्रदः ॥ ८१॥ साल्वप्राणापहारी च दन्तवक्त्राभिघातकः । युधिष्ठिरोपदेष्टा च भीमसेनप्रियङ्करः ॥ ८२॥ अर्जुनाभिन्नमूर्तिश्च माद्रीपुत्रगुरुस्तथा । द्रौपदीरक्षकश्चैव कुन्तीवात्सल्यभाजनः ॥ ८३॥ कौरवक्रौर्यसन्दष्टपाञ्चालीशोकनाशकः । कौन्तेयदूतस्तेजस्वी विश्वरूप्रपदर्शकः ॥ ८४॥ निरायुधो निरातङ्को जिष्णुसूतो जनार्दनः । गीतोपदेष्टा लोकेशः दुःखमौढ्यनिवारकः ॥ ८५॥ भीष्मद्रोणद्रौणिकर्णाद्यग्निज्वालाप्रशामकः । कुचेलपत्नीदारिद्र्यदुःखबाधाविमोचकः ॥ ८६॥ अजः कालविधाता च आर्तिघ्नः सर्वकामदः । अनलो अव्ययो व्यासः अरुणानुजवाहनः ॥ ८७॥ अखिलः प्राणदः प्राणः अनिलात्मजसेवितः । आदिभूत अनाद्यन्तः क्षान्तिक्लान्तिविवर्जितः ॥ ८८॥ आदितेयो विकुण्ठात्मा वैकुण्ठो विष्टरश्रवाः । इज्यः सुदर्शनो ईड्यः इन्द्रियाणामगोचरः ॥ ८९॥ उत्तमः सत्तमो उग्र उदानः प्राणरूपकः । व्यानापानो समानश्च जीवमृत्युविभाजकः ॥ ९०॥ ऊर्ध्वगो ऊहितो ऊह्यः ऊहातीतप्रभाववान् । ऋतम्भरो ऋतुधरः सप्तर्षिगणसेवितः ॥ ९१॥ ऋषिगम्यो ऋभुरृद्धिः सनकादिमुनिस्तुतः । एकनाथो एकमूर्तिरीतिबाधाविनाशकः ॥ ९२॥ ऐन्धनो एषणीयश्च अनुल्लङ्घितशासनः । ओजस्करो ओषधीशो ओड्रमालाविभूषितः ॥ ९३॥ औषधः सर्वतापानां समानाधिक्यवर्जितः । कालभृत्कालदोषघ्नः कार्यज्ञः कर्मकारकः ॥ ९४॥ खड्गी खण्डकः खद्योतः खली खाण्डवदाहकः । गदाग्रजो गदापाणी गम्भीरो गर्वनाशकः ॥ ९५॥ घनवर्णो घर्मभानुः घटजन्मनमस्कृतः । चिन्तातीतः चिदानन्दः विश्वभ्रमणकारकः ॥ ९६॥ छन्दकः छन्दनः छन्नः छायाकारकः दीप्तिमान् । जयो जयन्तो विजयो ज्ञापकः ज्ञानविग्रहः ॥ ९७॥ झर्झरापन्निवारकः झणज्झणितनूपुरः । टङ्कटीकप्रणमितः ठक्कुरो दम्भनाशकः ॥ ९८॥ तत्त्वातीतस्तत्त्वमूर्तिः तत्त्वचिन्ताप्रचोदकः । दक्षो दाता दयामूर्तिः दाशार्हो दीर्घलोचनः ॥ ९९॥ पराजिष्णुः परन्धामः परानन्दसुख्रपदः । फालनेत्रः फणिशायी पुण्यापुण्यफलप्रदः ॥ १००॥ बन्धहीनो लोकबन्धुः बालकृष्णः सताङ्गतिः । भव्यराशिर्भिषग्वर्यः भासुरः भूमिपालकः ॥ १०१॥ मधुवैरिः कैटभारिर्मन्त्रज्ञो मन्त्रदर्शकः । यतिवर्यो यजमानः यक्षकर्दमभूषितः ॥ १०२॥ रङ्गनाथो रघुवरः रसज्ञो रिपुकर्शनः । लक्ष्यो लक्ष्यज्ञो लक्ष्मीकः लक्ष्मीभूमिनिषेवितः ॥ १०३॥ वर्षिष्ठो वर्धमानश्च करुणामृतवर्षकः । विश्वो वृद्धो वृत्तिहीनः विश्वजिद्विश्वपावनः ॥ १०४॥ शास्ता शंसितः शंस्तव्यः वेदशास्त्रविभावितः । षडभिज्ञः षडाधारपद्मकेन्द्रनिवासकः ॥ १०५॥ सगुणो निर्गुणः साक्षी सर्वजित्साक्षिवर्जितः । सौम्यः क्रूरः शान्तमूर्तिः क्षुब्धः क्षोभविनाशकः ॥ १०६॥ हर्षकः हव्यभुक् हव्यः हिताहितविभावकः । व्योम व्यापनशीलश्च सर्वव्यापिर्महेश्वरः ॥ १०७॥ नारायणो नारशायी नरायणो नरसखः । नन्दकी चक्रपाणिश्च पाञ्चजन्यप्रघोषकः ॥ १०८॥ कुमोदकः पद्महस्तः विश्वरूपो विधिस्तुतः । आदिशेषोऽप्रमेयश्च अनन्तः ज्ञानविग्रहः ॥ १०९॥ भक्तिगम्यः परन्धामः परमो भक्तवत्सलः । परञ्ज्योतिः परब्रह्म परमेष्ठिः परात्परः ॥ ११०॥ विश्वाधारो निराधारः सदाचारप्रचारकः । महायोगी महावीरो महारूपो महाबलः ॥ १११॥ महाभोगी हविर्भोक्ता महायागफलप्रदः । महासत्त्वो महाशक्तिः महायोद्धा महाप्रभुः ॥ ११२॥ महामोहो महाकोपः महापातकनाशकः । शान्तः शान्तिप्रदः शूरः शरणागतपालकः ॥ ११३॥ पद्मपादः पद्मगर्भः पद्मपत्रनिभेक्षणः । लोकेशः शर्वः कामेशः कामकोटिसमप्रभः ॥ ११४॥ महातेजा महाब्रह्मा महाज्ञानो महातपाः । नीलमेघनिभः श्यामः शुभाङ्गः शुभकारकः ॥ ११५॥ कमनः कमलाकान्तः कामितार्त्थप्रदायकः । योगिगम्यो योगरूपो योगी योगेश्वरेश्वरः ॥ ११६॥ भवो भयकरो भानुः भास्करो भवनाशकः । किरिटी कुण्डली चक्री चतुर्बाहुसमन्वितः ॥ ११७॥ जगत्प्रभुर्देवदेवः पवित्रः पुरुषोत्तमः । अणिमाद्यष्टसिद्धीशः सिद्धः सिद्धगणेश्वरः ॥ ११८॥ देवो देवगणाध्यक्षो वासवो वसुरक्षकः । ओङ्कारः प्रणवः प्राणः प्रधानः प्रक्रमः क्रतुः ॥ ११९॥ नन्दिर्नान्दिदो नाभ्यश्च नन्दगोपतपःफलः । मोहनो मोहहन्ता च मैत्रेयो मेघवाहनः ॥ १२०॥ भद्रो भद्रङ्करो भानुः पुण्यश्रवणकीर्तनः । गदाधरो गदध्वंसी गम्भीरो गानलोलुपः ॥ १२१॥ तेजसस्तेजसां राशिः त्रिदशस्त्रिदशार्चितः । वासुदेवो वसुभद्रो वदान्यो वल्गुदर्शनः ॥ १२२॥ देवकीनन्दनः स्रग्वी सीमातीतविभूतिमान् । वासवो वासराधीशः गुरुवायुपुरेश्वरः ॥ १२३॥ यमो यशस्वी युक्तश्च योगनिद्रापरायणः । सूर्यः सुरार्यमार्कश्च सर्वसन्तापनाशकः ॥ १२४॥ शान्ततेजो महारौद्रः सौम्यरूपोऽभयङ्करः । भास्वान् विवस्वान् सप्ताश्वः अन्धकारविपाटकः ॥ १२५॥ तपनः सविता हंसः चिन्तामणिरहर्पतिः । अरुणो मिहिरो मित्रः नीहारक्लेदनाशकः ॥ १२६॥ आदित्यो हरिदश्वश्च मोहलोभविनाशकः । कान्तः कान्तिमतां कान्तिः छायानाथो दिवाकरः ॥ १२७॥ स्थावरजङ्गमगुरुः खद्योतो लोकबान्धवः । कर्मसाक्षी जगच्चक्षुः कालरूपः कृपानिधिः ॥ १२८॥ सत्त्वमूर्तिस्तत्त्वमयः सत्यरूपो दिवस्पतिः । शुभ्रांशुश्चन्द्रमा चन्द्रः ओषधीशो निशापतिः ॥ १२९॥ मृगाङ्को माः क्षपानाथः नक्षत्रेशः कलानिधिः । अङ्गारको लोहितांशुः कुजो भौमो महीसुतः ॥ १३०॥ रौहिणेयो बुधः सौम्यः सर्वविद्याविधायकः । वाचस्पतिर्गुरुर्जीवः सुराचार्यो बृहस्पतिः ॥ १३१॥ उशना भार्गवः काव्यः कविः शुक्रोऽसुरगुरुः । सूर्यपुत्रो शनिर्मन्दः सर्वभक्षः शनैश्चरः ॥ १३२॥ विधुन्तुदः तमो राहुः शिखी केतुर्विरामदः । नवग्रहस्वरूपश्च ग्रहकोपनिवारकः ॥ १३३॥ दशानाथः प्रीतिकरः मापको मङ्गलप्रदः । द्विहस्तश्च महाबाहुः कोटिकोटिभुजैर्युतः ॥ १३४॥ एकमुखो बहुमुखः बहुसाह्रसनेत्रवान् । बन्धकारी बन्धहीनः संसारी बन्धमोचकः ॥ १३५॥ ममतारूपोऽहम्बुद्धिः कृतज्ञः काममोहितः । नानामूर्तिधरः शक्तिः भिन्नदेवस्वरूपधृक् ॥ १३६॥ सर्वभूतहरः स्थाणुः शर्वो भीमः सदाशिवः । पशुपतिः पाशहीनः जटी चर्मी पिनाकवान् ॥ १३७॥ विनायको लम्बोदरः हेरम्बो विघ्ननाशकः । एकदन्तो महाकायः सिद्धिबुद्धिप्रदायकः ॥ १३८॥ गुहः स्कन्दो महासेनः विशाखः शिखिवाहनः । षडाननो बाहुलेयः कुमारः क्रौञ्चभञ्जकः ॥ १३९॥ आखण्डलो सहस्राक्षः वलारातिश्शचीपतिः । सुत्रामा गोत्रभिद्वज्री ऋभुक्षा वृत्रहा वृषा ॥ १४०॥ ब्रह्मा प्रजापतिर्धाता पद्मयोनिः पितामहः । सृष्टिकर्ता सुरज्येष्ठः विधाता विश्वसृट् विधिः ॥ १४१॥ प्रद्युम्नो मदनो कामः पुष्पबाणो मनोभवः । लक्ष्मीपुत्रो मीनकेतुरनङ्गः पञ्चशरः स्मरः ॥ १४२॥ कृष्णपुत्रो शर्वजेता इक्षुचापो रतिप्रियः । शम्बरघ्नो विश्वजिष्णुर्विश्वभ्रमणकारकः ॥ १४३॥ बर्हिः शुष्मा वायुसखः आश्रयाशो विभावसुः । ज्वालामाली कृष्णवर्त्मा हुतभुक् दहनः शुची ॥ १४४॥ अनिलः पवनो वायुः पृषदश्वः प्रभञ्जनः । वातः प्राणो जगत्प्राणः गन्धवाहः सदागतिः ॥ १४५॥ पाशायुधो नदीकान्तः वरुणो यादसाम्पतिः । राजराजो यक्षराजः पौलस्त्यो नरवाहनः ॥ १४६॥ निधीशः त्र्यम्बकसखः एकपिङ्गो धनेश्वरः । देवेशो जगदाधारः आदिदेवः परात्परः ॥ १४७॥ महात्मा परमात्मा च परमानन्ददायकः । धरापतिः स्वर्पतिश्च विद्यानाथो जगत्पिता ॥ १४८॥ पद्महस्तः पद्ममाली पद्मशोभिपदद्वयः । मधुवैरिः कैटभारिः वेदधृक् वेदपालकः ॥ १४९॥ चण्डमुण्डशिरच्छेत्ता महिषासुरमर्दकः । महाकाळीरूपधरः चामुण्डीरूपधारकः ॥ १५०॥ निशुम्भशुम्भसंहर्ता रक्तबीजासुहारकः । भण्डासुरनिषूदको लळितावेषधारकः ॥ १५१॥ ऋषभो नाभिपुत्रश्च इन्द्रदौष्ट्यप्रशामकः । अव्यक्तो व्यक्तरूपश्च नाशहीनो विनाशकृत् ॥ १५२॥ कर्माध्यक्षो गुणाध्यक्षः भूतग्रामविसर्जकः । क्रतुर्यज्ञः हुतो मन्त्रः पिता माता पितामहः ॥ १५३॥ वेद्यो वेदो गतिर्भर्ता साक्षी कारक वेदविद् । भोक्ता भोज्यः भुक्तिकर्म भोज्याभोज्यविवेचकः ॥ १५४॥ सदाचारो दुराचारः शुभाशुभफलप्रदः । नित्योऽनित्यः स्थिरश्चलः दृश्यादृश्यः श्रुताश्रुतः ॥ १५५॥ आदिमध्यान्तहीनश्च देही देहो गुणाश्रयः । ज्ञानः ज्ञेयः परिज्ञाता ध्यानः ध्याता परिध्येयः ॥ १५६॥ अविभक्तो विभक्तश्च पृथग्रूपो गुणाश्रितः । प्रवृत्तिश्च निवृत्तिश्च प्रकृतिर्विकृतिरूपधृक् ॥ १५७॥ बन्धनो बन्धकर्ता च सर्वबन्धविपाटकः । पूजितः पूजकश्चैव पूजाकर्मविधायकः ॥ १५८॥ वैकुण्ठवासः स्वर्वासः विकुण्ठहृदयालयः । ब्रह्मबीजो विश्वबिन्दुर्जडजीवविभाजकः ॥। १५९॥ पिण्डाण्डस्थः परन्धामः शब्दब्रह्मस्वरूपकः । आधारषट्कनिलयः जीवव्यापृतिचोदकः ॥ १६०॥ अनन्तरूपो जीवात्मा तिग्मतेजाः स्वयम्भवः ॥ अनाद्यन्तः कालरूपः गुरुवायूपुरेश्वरः ॥ १६१॥ गूरुर्गुरुतमो गम्यो गन्धर्वगणवन्दितः । रुक्मिणीवल्लभः शौरिर्बलरामसहोदरः ॥ १६२॥ परमः परमोदारः पन्नगाशनवाहनः । वनमाली वर्धमानः वल्लवीवल्लभो वशी ॥ १६३॥ नन्दसूनुर्नित्यतृप्तः नष्टलाभविवर्जितः । पुरन्दरः पुष्कराक्षः योगिहृत्कमलालयः ॥ १६४॥ रेणुकातनयो रामः कार्तवीर्यकुलान्तकः । शरण्यः शरणः शान्तः शाश्वतः स्वस्तिदायकः ॥ १६५॥ रोगघ्नः सर्वपापघ्नः कर्मदोषभयापहः । गभस्तिमाली गर्वघ्नो गर्गशिष्यो गवप्रियः ॥ १६६॥ तापसो तापशमनः ताण्डवप्रियनन्दितः । पङ्क्तिस्यन्दनपुत्रश्च कौसल्यानन्दवर्धनः ॥ १६७॥ प्रथितः प्रग्रहः प्राज्ञः प्रतिबन्धनिवारकः । शत्रुञ्जयो शत्रुहीनः शरभङ्गगतिप्रदः ॥ १६८॥ मङ्गलो मङ्गलाकान्तः सर्वमङ्गलमङ्गलः । यज्ञमूर्तिर्विश्वमूर्तिरायुरारोग्यसौख्यदः ॥ १६९॥ योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमुलम् । नित्यं चित्तस्थितं मे पवनपुरपते ! कृष्ण ! कारुण्यसिन्धो ! हृत्वा निश्शेषपापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ इति गुरुवायुरप्पन् सहस्रनामस्तोत्रं समाप्तम् ।