अक्षर आकार:

श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम्

Shri Guruvayupureshvara Ashtottarashatanama Stotraratnam

श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम्

श्रीविद्याराजगोपालाभिधश्रीमहावैकुण्ठेश्वरस्वरूप श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम् ॥ पार्वत्युवाच - देवदेव महादेव महावैष्णवतल्लज । जीववातपुरेशस्य माहात्म्यमखिलं त्वया ॥ १॥ मन्त्रतन्त्ररहस्याढ्यैः सहस्राधिकनामभिः । अद्य मे प्रेमभारेणोपन्यस्तमिदमद्भुतम् ॥ २॥ महावैकुण्ठनाथस्य प्रभावमखिलं प्रभो । सङ्ग्रहेण श्रोतुमद्य त्वरायुक्तास्म्यहं प्रभो ॥ ३॥ यस्य श्रवणमात्रेण जीववृन्देषु सर्वतः । नातिकृच्छ्रेण यत्नेन लसेयुः सर्वसिद्धयः ॥ ४॥ तादृशं सुलभं स्तोत्रं श्रोतुमिच्छामि त्वन्मुखात् । ईश्वर उवाच - महादेवि शिवे भद्रे जीववातपुरेशितुः ॥ ५॥ माहात्म्यवारिधौ मग्नः पूरयामि त्वदीप्सितम् । पूर्वं यन्नामसाहस्रं तस्य देवस्य भाषितम् ॥ ६॥ तस्यादौ विजृम्भमाणैरष्टाधिकशतेन तु । नामभिर्निर्मितं स्तोत्रं सर्वसिद्धिविधायकम् ॥ ७॥ पठितुं नामसाहस्रं अशक्ताः सन्ति ये शिवे । तेषामर्थे स्तोत्रमेतत्सङ्गृहीतं फलप्रदम् ॥ ८॥ अनुकूलौ देशकालौ यस्य स्तो जगतीह तु । पठितव्यं तेन नामसाहस्रं यत्नतः शिवे ॥ ९॥ आलस्यदूषिते चित्ते विश्वासरहिते तथा । गुरुवातपुरेशस्य न हि मूर्तिः प्रसीदति ॥ १०॥ गुरोरन्यत्र विश्वासी तथा वातपुरेशितुः । कथमेतत्फलं प्रोक्तं यथावदधिगच्छति ॥ ११॥ एक एव गुरुर्यस्य वैकुण्ठो यस्य दैवतम् । तस्य भक्तस्य नूनं हि स्तोत्रमेतत्फलिष्यति ॥ १२॥ अद्य ते देवि वक्ष्यामि नाम्नामष्टोत्तरं शतम् । स्तोत्रराजमिमं पुण्यं सावधानमनाः श‍ृणु ॥ १३॥ स्तोत्रस्यास्य ऋषिः प्रोक्तो दक्षिणामूर्तिरीश्वरः । छन्दोऽनुष्टुप् तथा देवो गुरुवायुपुरेश्वरः ॥ १४॥ रमाशक्तिस्मरैर्बीजैः बीजशक्ती च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ १५॥ मूलमन्त्रस्य षड्भागैः कराङ्गन्यासमाचरेत् । महावैकुण्ठरूपेण ध्यातव्यात्र हि देवता ॥ १६॥ इन्द्रनीलसमच्छायं पीताम्बरधरं हरिम् । शङ्खचक्रगदापद्मैर्लसद्बाहुं विचिन्तयेत् ॥ १७॥ ध्यानम् - क्षीराम्भोधिस्थकल्पद्रुमवनविलसद्रत्नयुङ्मण्टपान्तः शङ्खं चक्रं प्रसूनं कुसुमशरचयं चेक्षुकोदण्डपाशौ । हस्ताग्रैर्धारयन्तं सृणिमपि च गदां भूरमाऽऽलिङ्गितं तं ध्यायेत्सिन्दूरकान्तिं विधिमुखविबुधैरीड्यमानं मुकुन्दम् ॥ अथ अष्टोत्तरशतनामस्तोत्रम् । महावैकुण्ठनाथाख्यो महानारायणाभिधः । तारश्रीशक्तिकन्दर्पचतुर्बीजकशोभितः ॥ १९॥ गोपालसुन्दरीरूपः श्रीविद्यामन्त्रविग्रहः । रमाबीजसमारम्भो हृल्लेखासमलङ्कृतः ॥ २०॥ मारबीजसमायुक्तो वाणीबीजसमन्वितः । पराबीजसमाराध्यो मीनकेतनबीजकः ॥ २१॥ तारशक्तिरमायुक्तः कृष्णायपदपूजितः । कादिविद्याद्यकूटाढ्यो गोविन्दायपदप्रियः ॥ २२॥ कामराजाख्यकूटेशो गोपीजनसुभाषितः । वल्लभायपदप्रीतः शक्तिकूटविजृम्भितः ॥ २३॥ वह्निजायासमायुक्तः परावाङ्मदनप्रियः । मायारमासुसम्पूर्णो मन्त्रराजकलेबरः ॥ २४॥ द्वादशावृतिचक्रेशो यन्त्रराजशरीरकः । पिण्डगोपालबीजाढ्यः सर्वमोहनचक्रगः ॥ २५॥ षडक्षरीमन्त्ररूपो मन्त्रात्मरसकोणगः । पञ्चाङ्गकमनुप्रीतः सन्धिचक्रसमर्चितः ॥ २६॥ अष्टाक्षरीमन्त्ररूपो महिष्यष्टकसेवितः । षोडशाक्षरमन्त्रात्मा कलानिधिकलार्चितः ॥ २७॥ अष्टादशाक्षरीरूपोऽष्टादशदलपूजितः । चतुर्विंशतिवर्णात्मगायत्रीमनुसेवितः ॥ २८॥ चतुर्विंशतिनामात्मशक्तिवृन्दनिषेवितः । क्लीङ्कारबीजमध्यस्थः कामवीथीप्रपूजितः ॥ २९॥ द्वात्रिंशदक्षरारूढो द्वात्रिंशद्भक्तसेवितः । पिण्डगोपालमध्यस्थः पिण्डगोपालवीथिगः ॥ ३०॥ वर्णमालास्वरूपाढ्यो मातृकावीथिमध्यगः । पाशाङ्कुशद्विबीजस्थः शक्तिपाशस्वरूपकः ॥ ३१॥ पाशाङ्कुशीयचक्रेशो देवेन्द्रादिप्रपूजितः । लिखितो भूर्जपत्रादौ क्रमाराधितवैभवः ॥ ३२॥ ऊर्ध्वरेखासमायुक्तो निम्नरेखाप्रतिष्ठितः । सम्पूर्णमेरुरूपेण सम्पूजितोऽखिलप्रदः ॥ ३३ मन्त्रात्मवर्णमालाभिः सम्यक्शोभितचक्रराट् । श्रीचक्रबिन्दुमध्यस्थयन्त्रसंराट्स्वरूपकः ॥ ३४॥ कामधर्मार्थर्फलदः शत्रुदस्युनिवारकः । कीर्तिकान्तिधनारोग्यरक्षाश्रीविजयप्रदः ॥ ३५॥ पुत्रपौत्रप्रदः सर्वभूतवेतालनाशनः कासापस्मारकुष्ठादिसर्वरोगविनाशकः ॥ ३६॥ त्वगादिधातुसम्बद्धसर्वामयचिकित्सकः । डाकिन्यादिस्वरूपेण सप्तधातुषु निष्ठितः ॥ ३७॥ स्मृतिमात्रेणाष्टलक्ष्मीविश्राणनविशारदः । श्रुतिमौलिसमाराध्यमहापादुकलेबरः ॥ ३८॥ महापदावनीमध्यरमादिषोडशीद्विकः । रमादिषोडशीयुक्तराजगोपद्वयान्वितः ॥ ३९॥ श्रीराजगोपमध्यस्थमहानारायणद्विकः । नारायणद्वयालीढमहानृसिंहरूपकः ॥ ४०॥ लघुरूपमहापादुः महामहासुपादुकः । महापदावनीध्यानसर्वसिद्धिविलासकः ॥ ४१॥ महापदावनीन्यासशताधिककलाष्टकः । परमानन्दलहरीसमारब्धकलान्वितः ॥ ४२॥ शताधिककलान्तोद्यच्छ्रीमच्चरणवैभवः । शिर-आदिब्रह्मरन्ध्रस्थानन्यस्तकलावलिः ॥ ४३॥ इन्द्रनीलसमच्छायः सूर्यस्पर्धिकिरीटकः । अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितः ॥ ४४॥ कस्तूरीतिलकोद्भासी कारुण्याकुलनेत्रकः । मन्दहासमनोहारी नवचम्पकनासिकः ॥ ४५॥ मकरकुण्डलद्वन्द्वसंशोभितकपोलकः । श्रीवत्साङ्कितवक्षःश्रीः वनमालाविराजितः ॥ ४६॥ दक्षिणोरः प्रदेशस्थपराहङ्कृतिराजितः । आकाशवत्क्रशिष्ठश्रीमध्यवल्लीविराजितः ॥ ४७॥ शङ्खचक्रगदापद्मसंराजितचतुर्भुजः । केयूराङ्गदभूषाढ्यः कङ्कणालिमनोहरः ॥ ४८॥ नवरत्नप्रभापुञ्जच्छुरिताङ्गुलिभूषणः । गुल्फावधिकसंशोभिपीतचेलप्रभान्वितः ॥ ४९॥ किङ्किणीनादसंराजत्काञ्चीभूषणशोभितः । विश्वक्षोभकरश्रीकमसृणोरुद्वयान्वितः ॥ ५०॥ इन्द्रनीलाश्मनिष्पन्नसम्पुटाकृतिजानुकः । स्मरतूणाभलक्ष्मीकजङ्घाद्वयविराजितः ॥ ५१॥ मांसलगुल्फलक्ष्मीको महासौभाग्यसंयुतः । ह्रींङ्कारतत्त्वसम्बोधिनूपुरद्वयराजितः ॥ ५२॥ आदिकूर्मावतारश्रीजयिष्णुप्रपदान्वितः । नमज्जनतमोवृन्दविध्वंसकपदद्वयः ॥ ५३॥ नखज्योत्स्नालिशैशिर्यपरविद्याप्रकाशकः । रक्तशुक्लप्रभामिश्रपादुकाद्वयवैभवः ॥ ५४॥ दयागुणमहावार्धिर्गुरुवायुपुरेश्वरः । फलश्रुतिः - इत्येवं कथितं देवि नाम्नामष्टोत्तरं शतम् ॥ ५५॥ गुरुवायुपुरेशस्य सर्वसिद्धिविधायकम् । कृष्णाष्टमीसमारब्धमासेनैकेन सिद्धिदम् ॥ ५६॥ कृष्णाष्टमीं समारभ्य यावदन्याऽसिताऽष्टमी । तावत्कालं स्तोत्रमेतत् प्रत्यहं शतशः पठेत् ॥ ५७॥ मातृकापुटितं कृत्वा हित्वाऽऽलस्यं सुमङ्गले । एकान्तभक्तियुक्तो हि गुरुवायुपुरेश्वरे ॥ ५८॥ जीवन्नेव स भक्ताग्र्यो माधवाधिष्ठितो भवेत् । तप्तकाञ्चनगौरे हि तच्छरीरे सदा लसन् ॥ ५९॥ गुरुवायुपुराधीशोऽद्भुतानि हि करिष्यति । अत आवां महेशानि गच्छावः शरणं हि तम् ॥ ६०॥ कारुण्यमूर्तिमीशानं गुरुवायुपुरेश्वरम् । उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने ॥ ६१॥ महावैकुण्ठनाथस्य गुरुवायुपुरेशितुः । अष्टोत्तरशतं नाम्नां सर्वसिद्धिविलासकम् । अध्यायं सप्तमं पूर्णमवदातं करोत्युमे ॥ ६२॥ इति श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नं सम्पूर्णम् । ॥ शुभम् ॥